स्थाल्यन्तः क्वथदम्बूनां यथान्नानां भ्रमोदयः । जीवाणूनां तथा स्वान्तर् मिथ्या संसरणोदयः
बन्धो ऽस्य वासनावत्त्वं मोक्षस् स्याद् वासनाक्षयः । वासनातो ऽस्य सौषुप्ती स्वाप्नी च स्फुरति स्थितिः
घनवासनमोहो ऽयं सुषुप्तात्मा जडस् स्मृतः । तदन्तर्भाविना स्वप्नेनावश्यम्भाविनान्वितः
वासनावेशनिद्रालुर् जीवः पश्यति विभ्रमम् । यदास्य वासनानिद्रा क्षीयते बुध्यते तदा
वासनोक्ता दृश्यरतिर् दृश्यत्वं च न विद्यते । हेम्नीव कटकादित्वं सर्वात्मन्य् आत्मना क्वचित्
अबोधाद् एतद् अभवद् विलीनं चेत् प्रबोधतः । तद् वास्यवासनायास् तु क्षयाद् उदय एव वः
घनं स्ववासनामोहं क्षपयित्वा सुषुप्तगः । तनुवासनताम् एत्य स्वप्नं पश्यति संसृतिम्
घनवासनमोहो ऽयं जीवस् स्थावरतादिभाक् । मध्यस्थवासनस् तिर्यक् पुरुषस् तनुवासनः
यदान्तर् जीवितेनात्ता बहिर् जीवा घटादयः । जीवैक्याद् उभयोस् सत्ता ग्राह्यग्राहकयोस् ततः
आत्मनात्मा समालीढो बहिर् अन्तर् यदा चिता । तदा ग्राह्यग्रहणधीर् मृगतृष्णेव सोदया
नेह सन्त्यज्यते किञ्चिन् नेह किञ्चन गृह्यते । बाह्यान्तरकलाकारश् चिदात्मैकः प्रकाशते
त्रिजगच् चिच्चमत्कारस् त्व् अलं भेदविकल्पनैः । चेतितास् स्मश् चिति चिता बाह्याद्य् अन्यन् न विद्महे
अब्धेर् यथामलम् अपास्तसमस्तभेदं स्वाद्व् अच्छम् एव सकलं द्रवम् एकशुद्धम् । सर्वं तथेदम् अपहस्तितभेदजातम् आद्यं परं पदम् अनामयम् एव बुद्धम्
यो जीवस्योदितस् स्वप्नो नानाकलनकोमलः । तम् इमं विद्धि संसारं न सत्यं नाप्य् असन्मयम्
न पुंस इव जीवस्य स्वप्नस् सम्भवति क्वचित् । तेनैते जागता भावा जाग्रत्स्वप्नैकतात्र हि
जीवस्वप्नम् इदं दीर्घं क्षिप्रं च प्रतिभासते । असत्यम् अप्य् अवस्तुत्वाद् विद्धि वेद्यविदां वर
स्वप्नात् स्वप्नान्तरम् इव गच्छन्तो जीवजीवकाः । असत्यम् एव पश्यन्ति घनसत्यतया चिरम्
अजडा जडतां याता जाड्ये चाजाड्यतोदिता । असत्ये सत्यता जाता जीवानुभवमोहतः
स्थाणोर् अप्य् अन्तर् अखिलं पश्यन्तस् त्रिजगद्भ्रमम् । भ्रमन्ति स्वप्नसम्भ्रान्ता इह जीवाहिराशयः
सर्वगत्वाद् अनन्तस्य स्वस्य जीवस्य वै चितेः । यद् भावयन्ति चेतन्ति तद् एवाश्व् एति सत्यताम्
पुण्डरीकाक्षगदिताम् असंसङ्गगतिं शुभाम् । याम् आलिङ्ग्य महाबाहो जीवन्मुक्तो महामुनिः
पाण्डोः पुत्रो ऽर्जुनो नाम सुखं जीवितम् आत्मनः । क्षपयिष्यति निर्दुःखं तथा क्षपय जीवितम्
भविष्यति कदा ब्रह्मन्न् अर्जुनः पाण्डुनन्दनः । कीदृशीं च हरिस् तस्य कथयिष्यत्य् असक्तताम्
अस्ति सन्मात्रम् आत्मेति परिकल्पितनामकम् । स्थितम् आत्मन्य् अनाद्यन्ते नभसीव महानभः
दृश्यते विमले तस्मिन्न् अयं संसारविभ्रमः । कटकादि यथा हेम्नि तरङ्गादि यथाम्भसि
चतुर्दशविधा भूतजातयः प्रस्फुरन्त्य् अलम् । तस्मिन् संसारजाले ऽस्मिञ् जाले शकुनयो यथा
तत्र ते यमचन्द्रार्कशक्राद्यास् संसृतिक्रमाः । भूतपञ्चकसंस्थाना लोकपालत्वम् आगताः
इदं पुण्यम् उपादेयं हेयं पापम् इदं त्व् इति । तैस् स्वसङ्कल्पघटिता वेदेन स्थापिता स्थितिः
एवं प्रौढिं प्रयातायां वहन्त्यां च चिरं चिरम् । अच्छिन्नायां विनाशिन्यां नद्याम् इव जगत्स्थितौ
वैवस्वतो यमो नाम लोकपालः प्रतापवान् । मरणाङ्कितसत्ताकप्रजासंयमने स्थितः