ब्रह्मणि त्व् आत्मनात्मैव स्थितः कचति बिम्बति । द्वैतीभवत्य् अदेहो ऽपि चिन्मयत्वात् स्वभावतः
यद् यथैवात्मकचनं चेतितं कचतात्मना । असत्यम् अपि तन् नेह व्यभिचारि कदाचन
हेमत्वकटकत्वे द्वे सत्यासत्यस्वरूपिणी । हेम्नि भाण्डमतौ यद्वच् चित्त्वाचित्त्वे तथात्मनि
सर्वगत्वाच् चितेश् चित्त्वं नित्यं मनसि विद्यते । हेमत्वं कटकस्येव जडता च स्थितान्यदा
चित्त्वजाड्यात्मकं चित्तं दृढं भावयति स्वयम् । यदा यथैव यद्भावं तदा भवति तत् तथा
काले काले चिता जीवस् त्व् अन्यो ऽन्यो भवति स्वयम् । भाविताकारवान् अन्तर् वासनाकणिकोदयात्
स्वप्ने दृष्टो यथा ग्रामो याति सत्यात्मतां क्षणम् । देहाद् देहं तथा याति जीवो ऽयं प्रतिभात्मकम्
प्रतिभासो यथा स्वप्ने नरः कुड्यं पटं भवेत् । भवत्य् असत्यम् एवैवं देहाद् देहान्तरं स नः
असत्यम् एव म्रियते त्व् असत्यं जायते पुनः । जीवस् स्वप्रतिभासेन स्वप्नवत् स्वान्यरूपवत्
कालेनैतावता रूपम् इदं त्याज्यं मयेत्य् असौ । प्राकृतं निश्चयं रूढं भवत्य् अनुभवत् स्वतः
वस्तु दृष्टम् अदृष्टं च स्वप्ने समनुभूयते । जीवस्वप्नं जगद्रूपं विद्धि वेद्यविदां वर
अजाग्रद्द्रष्टृदृश्यो यस् सो ऽभिधानादिना विना । न स्वप्नो भिद्यते स्वस्माद् अच्छात् संवित्तिमात्रकात्
अन्यपूर्वाभिधबृहत्स्वप्नं पश्यति ना यथा । अप्राग्दृष्टं तथैषा स्वं चेतनं चित् प्रपश्यति
प्राक्कृता वासनाद्याशु पौरुषेणैव जीयते । ह्यःकुकर्माद्य यत्नेन प्रयाति हि सुकर्मताम्
मोक्षाद् ऋते न शाम्यन्ति जीवानां चक्षुरादयः । उन्मज्जन्ति निमज्जन्ति केवलं देशकालतः
चित्त्वस्य कलनात् तस्य देहो ऽग्र इव तिष्ठति । पञ्चात्मा भावितो ऽसत्यो महायक्षश् शिशोर् इव
मनो बुद्धिर् अहङ्कारस् तथा तन्मात्रपञ्चकम् । इति पुर्यष्टकं प्रोक्तं देहो ऽसाव् आतिवाहिकः
अमूर्त एव चित्तात्मा खत्वम् अस्यातिपीनता । वाततास्य महागुल्फो देहतास्य सुमेरुता
द्विरवस्थः क्रमेणैष निरवस्थस् तु मुक्तिभाक् । सुषुप्ततैकावस्थास्य जडा क्रोडीकृतोदया
स्वप्नतास्येतरावस्था देहप्रत्ययशालिनी । आमोक्षं भ्रमतीहायम् इति स्थावरजङ्गमैः
कदाचिद् धि सुषुप्तस्थः कदाचित् स्वप्नसंस्थितः । आतिवाहिकदेहो ऽयं सर्वस्यैवावतिष्ठते
यदा सुषुप्तभावस्थो भाविदुःखप्रबोधनः । तदाकाशोपलसमस् तिष्ठत्य् अनुदिताकृतिः
स्थावराद्यास्व् अवस्थासु कल्पवृक्षदशासु च । भवत्य् एष सुषुप्तस्थो घनमोहश् शिलाघनः
सुषुप्ततास्य जडता स्वप्नो ऽस्येयं तु संसृतिः । यः प्रबोधो ऽस्य सा मुक्तिस् तज् जाग्रत् सा च तुर्यता
जीवप्रबोधो मुक्तिर् हि सा चेह द्विविधोच्यते । एका जीवन्मुक्ततेति द्वितीयादेहमुक्तता
जीवन्मुक्तिर् हि तुर्यत्वं तुर्यातीतं परं ततः । मुक्तिर् जीवप्रबोधो हि स च बुद्धिप्रयत्नतः
ज्ञानप्रमाणो जीवो ऽन्तर् यज् जानाति हि तन्मयः । जानातु ज्ञप्तिम् एवातो भवत्य् आशु स तन्मयः
पश्यतीमम् अयं जीवस् सुदीर्घं स्वप्नविभ्रमम् । मिथ्योदितं स्वहृदये स्वच्छ एव शिलीकृते
जीवाणोर् अन्तर् अस्त्य् अस्य न किञ्चिच् चित्कलां विना । ताम् एवान्यतया पश्यन् मुधैव परिशोचति
जीवाणोर् अन्तर् अस्त्य् अस्य न किञ्चित् परमाद् ऋते । यत्र तत्र जगद् दृष्टम् अहो मायाविजृम्भितम्