इन्द्रियाणीन्द्रियार्थाख्यं विद्धि संवेदनं स्वकम् । सम्पन्नं च यथा तत् ते प्रोक्तम् आद्यमनस्स्थितौ
शुद्धा संवित् संविदन्ती संवेदनम् अनिन्दितम् । अतो ऽहंवेदनाद् अन्तर् जीवं पुर्यष्टकं त्व् इता
न त्व् एकत्वाद् अनन्तत्वाद् अवेद्यत्वाद् अनामया । अनन्यत्वाद् अनेकत्वाद् अशून्यत्वात् परा स्थितिः
चेत्यादि बुध्यते किञ्चिन् न मनस्तां च गच्छति । न च जीवत्वम् आयाति न च पुर्यष्टकात्मिका
नाविद्यादिविलासो ऽस्ति सो ऽस्ति नास्तीव यस् सदा । परमात्मेति कथितो मनष्षष्ठेन्द्रियातिगः
तस्मात् सम्पद्यते जीवश् चिन्मूर्तिर् मननात्मकः । भ्रमः केवलम् इत्य् आद्य उपदेशाय गीयते
यतः कुतश्चित् सम्पन्ने त्व् अविद्यामय आमये । उपदेश्योपदेशेन प्रविलीने विचारणात्
प्रशान्तसकलाचारं ज्ञानं तद् अवशिष्यते । यत्राकाशम् अपि स्थूलम् अणाव् इव सुराचलः
यत्रोद्यदाचारम् अपि सद् अप्य् असद् अवस्थितम् । जगज् ज्ञविषयं पङ्काद् इव तिष्ठति निर्मितम्
असन्मयम् अविद्याया रूपम् एतावद् एव हि । यद् वीक्षिता सती नूनं नश्यत्य् एव न दृश्यते
आलोकितं नाम कथम् अवस्तु किल लभ्यते । प्रयत्नेनापि सम्प्राप्तं मृगतृष्णाम्बु केन वा
असद् एव सदैवासद् अज्ञानाद् अस्य सत्यता । ज्ञानाद् यथास्थितं वस्तु दृश्यते नश्यति भ्रमः
अविद्याया विचाराय जीवपुर्यष्टकादिका । अप्य् अत्यन्तम् असत्यायाः कल्पना कल्पितात्मनि
तस्मात् तदुपदेशाय सेयं जीवादिकल्पना । कृता शास्त्रैः प्रबोधाय तां त्वम् एकमनाश् शृणु
जीवत्वम् इव सम्प्राप्ता पुर्यष्टकपदे स्थिता । कलाकलङ्करहिता चितिर् आचेतनोन्मुखी
यद् यथा भावयत्य् आशु तत् तथानुभवत्य् अलम् । सत्यं भवत्व् असत्यं वा बालेव निशि यक्षकम्
पञ्चतन्मात्रकलनास् सा भावयति यत्र याः । तत्रात्मनि तथारन्ध्रास् ताः पश्यति तथोदिताः
ताभ्य एव समुत्पन्नं बहिस्स्थं भूतपञ्चकम् । पश्यत्य् अनन्यद् अन्याभं शाखाशतम् इवाङ्कुरः
इदम् अन्तर् इदं बाह्यम् इति निश्चयवांस् ततः । जीवो यथा यद् आदत्ते तत् तथा द्रढयत्य् अलम्
रश्मिजालम् इवेन्दोर् यद् आत्मनः प्रतिभासनम् । बाह्यस्पर्शतया तेन तद् एवाशूररीकृतम्
मरिचस्येव यत् तैक्ष्ण्यं शून्यत्वम् इव खस्य यत् । आत्मनो वेदनं तेन तद् एवान्यद् इवाश्रितम्
अत्रैव निश्चयं बुद्ध्वा नियमस् सुदृढीकृतः । अनेनेत्थम् अनेनेत्थं भाव्यम् इत्य् अविखण्डितम्
स्वभावेतरनामासौ स्वसङ्कल्पनियामकः । क्वचित् कदाचिद् भवति स्वभावेनैव नान्यथा
आत्मनैवेदम् अखिलं सम्पन्नं द्वैतम् अद्वयम् । षण्डो मधुरसेनेव मृदेव च महाघटः
सन्निवेशविकारादि देशकालादिसम्भवात् । सम्भवत्य् अत्र न त्व् ईशे देशकालाद्यसम्भवात्
इतः पुष्पम् इतः पत्त्रम् अहम् इत्य् उदितो यथा । षण्डे स्वात्मनि वासन्तो रसो ऽद्वित्वे द्वितां हरन्
इतः पटम् इतः कुड्यम् अहम् इत्य् उदितस् तथा । सर्गात्मन्य् आत्मनि ब्रह्म निर्द्वन्द्वे द्वित्वम् आहरत्
अद्याङ्कुरो ऽहम् अद्यार्करुग् अहं त्व् अद्य वारिदः । यथेति तिष्ठत्य् अब्भागस् तथात्मा सदसद्वपुः
इति भाव्यम् अनेनेत्थम् इति सर्वेश्वरेरितम् । क्रमं खण्डयितुं लोके कस्य नामास्ति शक्तता
आदर्शे स्वच्छ आकारो नैव स्वः प्रतिबिम्बति । व्यतिरेकासम्भवतः कचत्य् एव तु केवलम्