चिद्व्योम्ना कचता तद् यद् अयम् अर्थ इति स्थितम् । सर्गादौ चेतिता संस्था यासौ स्थितिम् उपागता
असताम् एव भावानां चिद्व्योमकचनाबलात् । गुणार्पणं मिथो रूढं निर्मले प्रतिबिम्बनम्
अत्यन्तजडयोर् एव जीवयोर् इव यन् मिथः । सत्तार्पणं स्वभावेन प्रतिबिम्बं तद् उच्यते
चिदात्मनोर् वा जडयोर् महासत्ताजडात्मनोः । आद्यस्वभावनियमाद् बिम्बसत्तार्पणं मिथः
प्रतिबिम्बं दृशोर् भ्रान्तिं विद्धि वेद्यविदां वर । तावन्मात्रं जगत् तेन विश्वासो मा तवास्त्व् इह
अहमित्यादितरङ्गस् सर्गाद्यावर्तवान् पराम्भोधौ । नास्त्य् एव देशकालक्रियाकृतस् तन्मयैकतया
नित्यम् असक्तमतिर् मुदितात्मा शान्तसुखासुखसंविदनन्तः । तिष्ठ निविष्टमतिस् समतायाम् अस्तसमस्तभवामयमायः
नवाद् उद्भवतः पूर्वं सम्पन्नाश् चक्षुरादयः । यथा कमलजस्यैतत् सर्वम् एव त्वया श्रुतम्
ब्रह्मपुर्यष्टकस्यादाव् अक्षसंविद् यथोदिता । पुर्यष्टकस्य सर्वस्य तथैवोदेति सर्वदा
विद्धि पुर्यष्टकं जीवं स गर्भस्थेन्द्रियोदयः । यद् यथा भावयत्य् आशु तत् तथा परिपश्यति
इन्द्रियाणीन्द्रियार्थाख्यं विद्धि संवेदनं स्वकम् । सम्पन्नं च यथा तत् ते प्रोक्तम् आद्यमनस्स्थितौ
शुद्धा संवित् संविदन्ती संवेदनम् अनिन्दितम् । अतो ऽहंवेदनाद् अन्तर् जीवं पुर्यष्टकं त्व् इता
न त्व् एकत्वाद् अनन्तत्वाद् अवेद्यत्वाद् अनामया । अनन्यत्वाद् अनेकत्वाद् अशून्यत्वात् परा स्थितिः
चेत्यादि बुध्यते किञ्चिन् न मनस्तां च गच्छति । न च जीवत्वम् आयाति न च पुर्यष्टकात्मिका
नाविद्यादिविलासो ऽस्ति सो ऽस्ति नास्तीव यस् सदा । परमात्मेति कथितो मनष्षष्ठेन्द्रियातिगः
तस्मात् सम्पद्यते जीवश् चिन्मूर्तिर् मननात्मकः । भ्रमः केवलम् इत्य् आद्य उपदेशाय गीयते
यतः कुतश्चित् सम्पन्ने त्व् अविद्यामय आमये । उपदेश्योपदेशेन प्रविलीने विचारणात्
प्रशान्तसकलाचारं ज्ञानं तद् अवशिष्यते । यत्राकाशम् अपि स्थूलम् अणाव् इव सुराचलः
यत्रोद्यदाचारम् अपि सद् अप्य् असद् अवस्थितम् । जगज् ज्ञविषयं पङ्काद् इव तिष्ठति निर्मितम्
असन्मयम् अविद्याया रूपम् एतावद् एव हि । यद् वीक्षिता सती नूनं नश्यत्य् एव न दृश्यते
आलोकितं नाम कथम् अवस्तु किल लभ्यते । प्रयत्नेनापि सम्प्राप्तं मृगतृष्णाम्बु केन वा
असद् एव सदैवासद् अज्ञानाद् अस्य सत्यता । ज्ञानाद् यथास्थितं वस्तु दृश्यते नश्यति भ्रमः
अविद्याया विचाराय जीवपुर्यष्टकादिका । अप्य् अत्यन्तम् असत्यायाः कल्पना कल्पितात्मनि
तस्मात् तदुपदेशाय सेयं जीवादिकल्पना । कृता शास्त्रैः प्रबोधाय तां त्वम् एकमनाश् शृणु
जीवत्वम् इव सम्प्राप्ता पुर्यष्टकपदे स्थिता । कलाकलङ्करहिता चितिर् आचेतनोन्मुखी
यद् यथा भावयत्य् आशु तत् तथानुभवत्य् अलम् । सत्यं भवत्व् असत्यं वा बालेव निशि यक्षकम्
पञ्चतन्मात्रकलनास् सा भावयति यत्र याः । तत्रात्मनि तथारन्ध्रास् ताः पश्यति तथोदिताः
ताभ्य एव समुत्पन्नं बहिस्स्थं भूतपञ्चकम् । पश्यत्य् अनन्यद् अन्याभं शाखाशतम् इवाङ्कुरः
इदम् अन्तर् इदं बाह्यम् इति निश्चयवांस् ततः । जीवो यथा यद् आदत्ते तत् तथा द्रढयत्य् अलम्
रश्मिजालम् इवेन्दोर् यद् आत्मनः प्रतिभासनम् । बाह्यस्पर्शतया तेन तद् एवाशूररीकृतम्