यत् संश्लेषम् उपायाति तद् बालो ऽपि हि विन्दते । पशुर् वा स्थावरो वापि जीवः कस्मान् न वेत्स्यति
अन्यच् च नायनास् साधो रश्मयो जीववेष्टिताः । क्रोडीकुर्वन्त्य् अलं दृश्यं जीवस् तत् तेन विन्दते
एष एव क्रमस् स्पर्शे सम्बन्धप्रत्ययोद्भवः । रसे गन्धे च कथितो जीवसंस्पर्शसम्भवः
शब्दस् त्व् आकाशनिष्ठत्वात् कर्णाकाशगतः क्षणात् । जीवाकाशं विशत्य् अन्तर् एवम् इन्द्रियसंविदः
दृश्यते निर्मलादर्शरत्नवार्यादिकेषु यत् । प्रतिबिम्बनम् एतन् मे ब्रूहि ब्रह्मन् किमात्मकम्
काकतालीयवद् भातं तद् ब्रह्मव्योम्नि यच् चिरम् । किञ्चिद् आस्ते क्षणं किञ्चित् तद् एवेदं जगन्ति वः
स्वसत्तामात्रकं स्वप्ने इवार्थ इति भावयत् । स्थितम् एकम् अनेकात्म चिद्व्योम स्वप्नवृक्षवत्
बाह्यार्थास्तित्वबोधो यो या ब्रह्मात्मजगन्मतिः । स च सा चेति सत् सर्वं यथासंवेदनं स्थितेः
प्रथमं परमाणुत्वे बुद्धे ऽणुत्वे ततश् च खे । ता विदो वेत्ति विद्व्योम कराक्षादिकम् अद्य याः
सर्गादितः प्रभृत्य् एव निर्मले ऽर्थः प्रबिम्बते । विदात्तेति स्थितिस् त्व् ऐक्यात् सर्वबिम्ब्यनुबिम्बयोः
चिद्व्योम्ना कचता तद् यद् अयम् अर्थ इति स्थितम् । सर्गादौ चेतिता संस्था यासौ स्थितिम् उपागता
असताम् एव भावानां चिद्व्योमकचनाबलात् । गुणार्पणं मिथो रूढं निर्मले प्रतिबिम्बनम्
अत्यन्तजडयोर् एव जीवयोर् इव यन् मिथः । सत्तार्पणं स्वभावेन प्रतिबिम्बं तद् उच्यते
चिदात्मनोर् वा जडयोर् महासत्ताजडात्मनोः । आद्यस्वभावनियमाद् बिम्बसत्तार्पणं मिथः
प्रतिबिम्बं दृशोर् भ्रान्तिं विद्धि वेद्यविदां वर । तावन्मात्रं जगत् तेन विश्वासो मा तवास्त्व् इह
अहमित्यादितरङ्गस् सर्गाद्यावर्तवान् पराम्भोधौ । नास्त्य् एव देशकालक्रियाकृतस् तन्मयैकतया
नित्यम् असक्तमतिर् मुदितात्मा शान्तसुखासुखसंविदनन्तः । तिष्ठ निविष्टमतिस् समतायाम् अस्तसमस्तभवामयमायः
नवाद् उद्भवतः पूर्वं सम्पन्नाश् चक्षुरादयः । यथा कमलजस्यैतत् सर्वम् एव त्वया श्रुतम्
ब्रह्मपुर्यष्टकस्यादाव् अक्षसंविद् यथोदिता । पुर्यष्टकस्य सर्वस्य तथैवोदेति सर्वदा
विद्धि पुर्यष्टकं जीवं स गर्भस्थेन्द्रियोदयः । यद् यथा भावयत्य् आशु तत् तथा परिपश्यति
इन्द्रियाणीन्द्रियार्थाख्यं विद्धि संवेदनं स्वकम् । सम्पन्नं च यथा तत् ते प्रोक्तम् आद्यमनस्स्थितौ
शुद्धा संवित् संविदन्ती संवेदनम् अनिन्दितम् । अतो ऽहंवेदनाद् अन्तर् जीवं पुर्यष्टकं त्व् इता
न त्व् एकत्वाद् अनन्तत्वाद् अवेद्यत्वाद् अनामया । अनन्यत्वाद् अनेकत्वाद् अशून्यत्वात् परा स्थितिः
चेत्यादि बुध्यते किञ्चिन् न मनस्तां च गच्छति । न च जीवत्वम् आयाति न च पुर्यष्टकात्मिका
नाविद्यादिविलासो ऽस्ति सो ऽस्ति नास्तीव यस् सदा । परमात्मेति कथितो मनष्षष्ठेन्द्रियातिगः
तस्मात् सम्पद्यते जीवश् चिन्मूर्तिर् मननात्मकः । भ्रमः केवलम् इत्य् आद्य उपदेशाय गीयते
यतः कुतश्चित् सम्पन्ने त्व् अविद्यामय आमये । उपदेश्योपदेशेन प्रविलीने विचारणात्
प्रशान्तसकलाचारं ज्ञानं तद् अवशिष्यते । यत्राकाशम् अपि स्थूलम् अणाव् इव सुराचलः
यत्रोद्यदाचारम् अपि सद् अप्य् असद् अवस्थितम् । जगज् ज्ञविषयं पङ्काद् इव तिष्ठति निर्मितम्
असन्मयम् अविद्याया रूपम् एतावद् एव हि । यद् वीक्षिता सती नूनं नश्यत्य् एव न दृश्यते