पूर्णात्मकम् इदं पूर्णं पूर्णात् पूर्णं प्रपूर्यते । पूर्णेन पूरितं पूर्णं स्थिता पूर्णैव पूर्णता
लीलयेदं तु पृच्छामि भूयो बोधाभिवृद्धये । बालस्येव पिता ब्रह्मन् न रोषं कर्तुम् अर्हसि
श्रोत्रं चक्षुस् स्पर्शनं च रसनं घ्राणम् एव च । विद्यमानम् अपि ब्रह्मन् दृश्यमानम् अपि स्फुटम्
कथं मृतस्यैव जन्तोर् विषयं स्वं न पश्यति । जीवतश् च कथं सर्वं विषयं स्वं प्रपश्यति
कथं घटादि बाह्यस्थम् इन्द्रियाणि जडान्य् अपि । शरीरे ऽनुभवन्त्य् अन्तः पुनर् नानुभवन्त्य् अपि
अयश्शलाकोपमयोर् घटादीन्द्रिययोः किल । अश्लिष्टयोर् नीरसयोः कथं सत्तोदिता मिथः
जानन्न् अपि यद् एतत् त्वां विशेषाशङ्कया पुनः । पृच्छामि तद् अशेषेण कथयाश्व् अनुकम्पया
इन्द्रियाण्य् अपि चित्तादि घटाद्य् अपि न किञ्चन । पृथक् सम्भवतीहाङ्ग निर्मलाच् चेतनाद् ऋते
गगनाद् अपि याच्छा चित् तया रूपं स्वम् आत्मना । चित्त्वात् पुर्यष्टकत्वेन भाववृत्त्यैव भावितम्
तद् एवेदं प्रकृतितां गतं जगद् अवस्थितम् । तस्यावयवजातं तद् इन्द्रियादि घटादि च
पुर्यष्टकत्वम् आयातं यच् चित्तत्त्वं स्वभावतः । स्व एवावयवस् तस्मिन् घटादि प्रतिबिम्बति
जगत्सहस्रनिर्माणमहिम्नां दर्पणस्य मे । पुर्यष्टकस्य भगवन् रूपं कथय कीदृशम्
अनाद्यन्तजगद्बीजं यद् ब्रह्मास्ति निरामयम् । भारूपं शुद्धचिन्मात्रं कलाकलनवर्जितम्
कलनोन्मुखतां यातं सत् तज् जीव इति स्मृतः । स जीवः खलु देहे ऽस्मिंश् चिनोति स्पन्दते स्फुटम्
अहम्भावाद् अहङ्कारो मननान् मन उच्यते । बोधनिश्चयतो बुद्धिर् इन्द्रदृष्टेस् तथेन्द्रियम्
देहभावनया देहो घटभावनया घटः । एष एवंस्वभावात्मा जीवः पुर्यष्टकं स्मृतम्
ज्ञत्वकर्तृत्वभोक्तृत्वसाक्षित्वाद्यभिमानिनी । या संविज् जीव इत्य् उक्ता तद् धि पुर्यष्टकं विदुः
काले काले स्वतो जीवस् त्व् अन्यो ऽन्यो भवति स्वतः । भाविताकारितानन्तवासनाकणिकोदयात्
पुर्यष्टकस्वभावेन कालेनाकारम् ऋच्छति । वासनावशतस् सेकाद् बीजं पल्लवताम् इव
आकारो ऽहं शरीरादि स्थावरादि सुरादि वा । नाहम् आद्यश् चिदात्मेति मिथ्याज्ञाने निमज्जति
भ्रमत्य् एवं जगज् जीवो वासनावेल्लितश् चिरम् । ऊर्ध्वाधोगमनैर् अब्धौ काष्ठं वीचिहतं यथा
कश्चित् सात्त्विकजातित्वाद् भवबन्धाद् अनन्तरम् । बुद्ध्वात्मानं स्वम् अभ्येति पदम् आद्यन्तवर्जितम्
कश्चित् कालेन बहुना भुक्तयोनिगणान्तरः । आत्मज्ञानवशाद् एति परमं पदम् आत्मनः
एवम्भूतस् स सुमते जीवो यातश् शरीरताम् । नेत्रादिना घटाद्य् अन्तर् यथा वेत्ति तथा शृणु
चित्त्वस्य कलनात् तस्य सम्प्रयातस्य जीवताम् । मनष्षष्ठेन्द्रियग्रामो देहो ऽग्र इव तिष्ठति
पदार्थदेहे देहेन स्वे पतत्य् अक्षिरूपिणा । तदा तज् जीवसंस्पर्शाज् जीवात्मैकत्वम् ऋच्छति
बाह्यार्थवेदने नित्यं सम्बन्धो ऽक्षस्य कारणम् । समन्वितस्य चित्तेन न मुक्तस्य कदाचन
यद् यद् अच्छतरे तस्मिन्न् अग्रस्थं प्रतिबिम्बति । जीवेन भवति श्लिष्टं बहिर् जीवो ऽथ जीवति
निघृष्टनवरत्नाभे यदा नयनतारके । तदैतयोर् बाह्यगतः पदार्थः प्रतिबिम्बति
जीवेन भवति श्लिष्टः प्रतिबिम्बवशात् ततः । जीवज्ञेयत्वम् आयाति बाह्यं वस्त्व् इति राघव