यद् ब्रह्मात्मा विभुर् यश् च याविद्या प्रकृतिश् च या । तद् अभिन्नं सदैकात्म यथा कुम्भशतेषु मृत्
नात्मनः प्रकृतिर् भिन्ना घटान् मृण्मयता यथा । स्पन्दमात्रं यथा वायुर् आत्मैव प्रकृतिस् तथा
आवर्तस् सलिलस्येव यस् स्पन्दस् स्वयम् आत्मनः । प्रोक्तः प्रकृतिशब्देन तेनैवेह स एव हि
यथैकं स्पन्दपवनौ नाम्ना भिन्नौ न सत्तया । तथैकम् आत्मप्रकृती नाम्ना भिन्ने न सत्तया
अबोधाद् एतयोर् भेदो बोधेनैव विलीयते । अबोधो ऽसन्मयो भ्रान्ती रज्ज्वां सर्पभ्रमो यथा
चिद्भूमौ कलनाबीजं यद् एतत् पतति स्फुरत् । चित्ताङ्कुर उदेत्य् अस्माद् भाविसंसारषण्डकः
एतद् एवात्मविज्ञानदग्धं सद्वासनाजलैः । संसिक्तम् अपि यत्नेन न भवत्य् अङ्कुरक्षमम्
नो चेत् पतति चित्क्षेत्रे कलनाबीजकं ततः । चित्ताङ्कुरा न जायन्ते सुखदुःखफलद्रुमाः
द्वित्वं जगत्य् असदुपात्तम् अबोधजातं बोधक्षयं जहिहि बोधम् उपागतो ऽसि । आत्मैकभावविभवेन भवाभयात्मा नास्त्य् एव दुःखम् इति नः परमार्थसारः
ज्ञातं ज्ञातव्यम् अखिलं दृष्टं द्रष्टव्यम् अक्षतम् । परेण परिपूर्णास् स्मो ब्रह्मञ् ज्ञानामृतेन ते
पूर्णात्मकम् इदं पूर्णं पूर्णात् पूर्णं प्रपूर्यते । पूर्णेन पूरितं पूर्णं स्थिता पूर्णैव पूर्णता
लीलयेदं तु पृच्छामि भूयो बोधाभिवृद्धये । बालस्येव पिता ब्रह्मन् न रोषं कर्तुम् अर्हसि
श्रोत्रं चक्षुस् स्पर्शनं च रसनं घ्राणम् एव च । विद्यमानम् अपि ब्रह्मन् दृश्यमानम् अपि स्फुटम्
कथं मृतस्यैव जन्तोर् विषयं स्वं न पश्यति । जीवतश् च कथं सर्वं विषयं स्वं प्रपश्यति
कथं घटादि बाह्यस्थम् इन्द्रियाणि जडान्य् अपि । शरीरे ऽनुभवन्त्य् अन्तः पुनर् नानुभवन्त्य् अपि
अयश्शलाकोपमयोर् घटादीन्द्रिययोः किल । अश्लिष्टयोर् नीरसयोः कथं सत्तोदिता मिथः
जानन्न् अपि यद् एतत् त्वां विशेषाशङ्कया पुनः । पृच्छामि तद् अशेषेण कथयाश्व् अनुकम्पया
इन्द्रियाण्य् अपि चित्तादि घटाद्य् अपि न किञ्चन । पृथक् सम्भवतीहाङ्ग निर्मलाच् चेतनाद् ऋते
गगनाद् अपि याच्छा चित् तया रूपं स्वम् आत्मना । चित्त्वात् पुर्यष्टकत्वेन भाववृत्त्यैव भावितम्
तद् एवेदं प्रकृतितां गतं जगद् अवस्थितम् । तस्यावयवजातं तद् इन्द्रियादि घटादि च
पुर्यष्टकत्वम् आयातं यच् चित्तत्त्वं स्वभावतः । स्व एवावयवस् तस्मिन् घटादि प्रतिबिम्बति
जगत्सहस्रनिर्माणमहिम्नां दर्पणस्य मे । पुर्यष्टकस्य भगवन् रूपं कथय कीदृशम्
अनाद्यन्तजगद्बीजं यद् ब्रह्मास्ति निरामयम् । भारूपं शुद्धचिन्मात्रं कलाकलनवर्जितम्
कलनोन्मुखतां यातं सत् तज् जीव इति स्मृतः । स जीवः खलु देहे ऽस्मिंश् चिनोति स्पन्दते स्फुटम्
अहम्भावाद् अहङ्कारो मननान् मन उच्यते । बोधनिश्चयतो बुद्धिर् इन्द्रदृष्टेस् तथेन्द्रियम्
देहभावनया देहो घटभावनया घटः । एष एवंस्वभावात्मा जीवः पुर्यष्टकं स्मृतम्
ज्ञत्वकर्तृत्वभोक्तृत्वसाक्षित्वाद्यभिमानिनी । या संविज् जीव इत्य् उक्ता तद् धि पुर्यष्टकं विदुः
काले काले स्वतो जीवस् त्व् अन्यो ऽन्यो भवति स्वतः । भाविताकारितानन्तवासनाकणिकोदयात्
पुर्यष्टकस्वभावेन कालेनाकारम् ऋच्छति । वासनावशतस् सेकाद् बीजं पल्लवताम् इव
आकारो ऽहं शरीरादि स्थावरादि सुरादि वा । नाहम् आद्यश् चिदात्मेति मिथ्याज्ञाने निमज्जति