अप्रबुद्धं मनो यावत् तावद् एव भ्रमं विना । न प्रबोधम् उपायाति तावद् वर्षशतैर् अपि
युक्त्यैव बोधयित्वैष जीव आत्मनि योज्यते । यद् युक्त्या साध्यते कार्यं न तद् यत्नशतैर् अपि
सर्वं ब्रह्मेति यो ब्रूयाद् अप्रबुद्धस्य दुर्मतिः । स करोति सुहृद्भ्रान्त्या स्थाणौ दुःखनिवेदनम्
युक्त्या प्रबोध्यते मूढः प्राज्ञस् तत्त्वेन बोध्यते । मूढः प्राज्ञत्वम् आयाति न युक्त्या बोधनं विना
एतावन्तम् अबुद्धस् त्वं कालं युक्त्या प्रबोधितः । इदानीं सम्प्रबुद्धो ऽसि तत्त्वेनैवावबोध्यसे
ब्रह्माहं त्रिजगद् ब्रह्म ब्रह्म त्वं ब्रह्म दृश्यभूः । द्वितीया कल्पना नास्ति यथेच्छसि तथा कुरु
असंवेद्यमहासंवित्कोटिमात्रं जगत्त्रयं । एवं प्रत्ययवान् अन्तः कुर्वन्न् अपि न लिप्यसे
भारूपश् चेतनो व्यापी परमात्माहम् इत्य् अलम् । राघवानुभवान्तस् त्वं तिष्ठन् गच्छन् स्वपञ् श्वसन्
निर्ममो निरहङ्कारो बुद्धिमान् असि राम चेत् । तद् ब्रह्मवेदनं शान्तं सर्वभूतस्थितं भव
तद् अनाद्यन्तम् आभासि सत्त्वम् एव परं पदम् । स्थितो ऽसि सर्वगैकात्मा शुद्धसंविन्मयात्मकः
यद् ब्रह्मात्मा विभुर् यश् च याविद्या प्रकृतिश् च या । तद् अभिन्नं सदैकात्म यथा कुम्भशतेषु मृत्
नात्मनः प्रकृतिर् भिन्ना घटान् मृण्मयता यथा । स्पन्दमात्रं यथा वायुर् आत्मैव प्रकृतिस् तथा
आवर्तस् सलिलस्येव यस् स्पन्दस् स्वयम् आत्मनः । प्रोक्तः प्रकृतिशब्देन तेनैवेह स एव हि
यथैकं स्पन्दपवनौ नाम्ना भिन्नौ न सत्तया । तथैकम् आत्मप्रकृती नाम्ना भिन्ने न सत्तया
अबोधाद् एतयोर् भेदो बोधेनैव विलीयते । अबोधो ऽसन्मयो भ्रान्ती रज्ज्वां सर्पभ्रमो यथा
चिद्भूमौ कलनाबीजं यद् एतत् पतति स्फुरत् । चित्ताङ्कुर उदेत्य् अस्माद् भाविसंसारषण्डकः
एतद् एवात्मविज्ञानदग्धं सद्वासनाजलैः । संसिक्तम् अपि यत्नेन न भवत्य् अङ्कुरक्षमम्
नो चेत् पतति चित्क्षेत्रे कलनाबीजकं ततः । चित्ताङ्कुरा न जायन्ते सुखदुःखफलद्रुमाः
द्वित्वं जगत्य् असदुपात्तम् अबोधजातं बोधक्षयं जहिहि बोधम् उपागतो ऽसि । आत्मैकभावविभवेन भवाभयात्मा नास्त्य् एव दुःखम् इति नः परमार्थसारः
ज्ञातं ज्ञातव्यम् अखिलं दृष्टं द्रष्टव्यम् अक्षतम् । परेण परिपूर्णास् स्मो ब्रह्मञ् ज्ञानामृतेन ते
पूर्णात्मकम् इदं पूर्णं पूर्णात् पूर्णं प्रपूर्यते । पूर्णेन पूरितं पूर्णं स्थिता पूर्णैव पूर्णता
लीलयेदं तु पृच्छामि भूयो बोधाभिवृद्धये । बालस्येव पिता ब्रह्मन् न रोषं कर्तुम् अर्हसि
श्रोत्रं चक्षुस् स्पर्शनं च रसनं घ्राणम् एव च । विद्यमानम् अपि ब्रह्मन् दृश्यमानम् अपि स्फुटम्
कथं मृतस्यैव जन्तोर् विषयं स्वं न पश्यति । जीवतश् च कथं सर्वं विषयं स्वं प्रपश्यति
कथं घटादि बाह्यस्थम् इन्द्रियाणि जडान्य् अपि । शरीरे ऽनुभवन्त्य् अन्तः पुनर् नानुभवन्त्य् अपि
अयश्शलाकोपमयोर् घटादीन्द्रिययोः किल । अश्लिष्टयोर् नीरसयोः कथं सत्तोदिता मिथः
जानन्न् अपि यद् एतत् त्वां विशेषाशङ्कया पुनः । पृच्छामि तद् अशेषेण कथयाश्व् अनुकम्पया
इन्द्रियाण्य् अपि चित्तादि घटाद्य् अपि न किञ्चन । पृथक् सम्भवतीहाङ्ग निर्मलाच् चेतनाद् ऋते
गगनाद् अपि याच्छा चित् तया रूपं स्वम् आत्मना । चित्त्वात् पुर्यष्टकत्वेन भाववृत्त्यैव भावितम्
तद् एवेदं प्रकृतितां गतं जगद् अवस्थितम् । तस्यावयवजातं तद् इन्द्रियादि घटादि च