यद् इदं दृश्यते किञ्चिज् जगत् स्थावरजङ्गमम् । तत् सर्वं ब्रह्म निर्धर्म निर्गुणं निर्ममात्मकम्
नित्यव्यपेतावयवम् एकम् एकान्तनिर्मलम् । निर्विकारम् अनाद्यन्तं नित्यं शान्तं समात्मकम्
कालक्रियाकरणकारणकर्तृकार्यजन्मस्थितिप्रलयसंसरणादि सर्वम् । ब्रह्मेति दृष्टवत एव तवात्मदृष्ट्या भूयो ऽपि किं भ्रमणम् अङ्ग ससङ्गम् एव
यदि नास्ति विकारादि ब्रह्मन् ब्रह्मणि बृंहिते । तद् इदं कथम् आभाति भावाभावमयं जगत्
अपुनःप्रागवस्थानं यत् स्वरूपविपर्ययः । तद् विकारादि कथितं यत् क्षीरादिषु विद्यते
पयस्तां पुनर् अभ्येति दधित्वान् न पुनः पयः । बुद्धम् आद्यन्तमध्येषु ब्रह्म ब्रह्मैव निर्मलम्
क्षीरादेर् इव तेनास्ति ब्रह्मणो न विकारिता । अनाद्यन्ताविकारस्य न चैवावयविक्रमः
समस्याद्यन्तयोर् येयं दृश्यते विकृतिः क्षणम् । संविदस् तं भ्रमं विद्धि नाविकारे ऽस्ति विक्रिया
संवेद्ये सति संवित्तिस् तन् न ब्रह्मणि विद्यते । तद् ब्रह्मशब्दकथितं निस्संवेद्यं चिदात्म यत्
यादृग् आद्यन्तयोर् वस्तु तादृग् एव तद् उच्यते । मध्ये तस्य यद् अन्यत्वं तद् अबोधविजृम्भितम्
आत्मा त्व् आद्यन्तमध्येषु समस् सर्वत्र सर्वदा । खम् अप्य् अन्यत्वम् आयाति नात्मतत्त्वं कदाचन
भारूपत्वात् तदेकत्वान् नित्यत्वाच् चायम् ईश्वरः । वशं भावविकाराणां न कदाचन गच्छति
विद्यमाने सदैकस्मिन् ब्रह्मण्य् एकान्तनिर्मले । संविद्भ्रमस्वरूपाया अविद्यायाः क आगमः
ब्रह्मतत्त्वम् इदं सर्वम् आसीद् अस्ति भविष्यति । निर्विकारम् अनाद्यन्तं नाविद्यास्तीति निश्चयः
यस् तु ब्रह्मेति शब्देन वाच्यवाचकयोः क्रमः । तत्रापि नान्यताभाव उपदेष्टुं कृतो ह्य् असौ
त्वम् अहं जगद् आशाश् च भूः खम् अग्न्यनिलादि च । ब्रह्ममात्रम् अनाद्यन्तं नाविद्यास्ति मनाग् अपि
नामैवेदम् अविद्येति भ्रममात्रम् असद् विदुः । न विद्यते या तस्या हि कीदृङ् नाम भविष्यति
उपदेशप्रकरणे ह्यः किम् एतत् त्वयोदितम् । अविद्येयं तथेत्थं च निर्धार्यत इति प्रभो
एतावन्तम् अबुद्धस् त्वम् अभूः कालं रघूद्वह । कल्पिताभिः किलैताभिर् बोधितो ऽसि सुयुक्तिभिः
अविद्येयम् अयं जीव इत्यादिकलनाक्रमः । अप्रबुद्धप्रबोधाय कल्पितो वाग्विदां वरैः
अप्रबुद्धं मनो यावत् तावद् एव भ्रमं विना । न प्रबोधम् उपायाति तावद् वर्षशतैर् अपि
युक्त्यैव बोधयित्वैष जीव आत्मनि योज्यते । यद् युक्त्या साध्यते कार्यं न तद् यत्नशतैर् अपि
सर्वं ब्रह्मेति यो ब्रूयाद् अप्रबुद्धस्य दुर्मतिः । स करोति सुहृद्भ्रान्त्या स्थाणौ दुःखनिवेदनम्
युक्त्या प्रबोध्यते मूढः प्राज्ञस् तत्त्वेन बोध्यते । मूढः प्राज्ञत्वम् आयाति न युक्त्या बोधनं विना
एतावन्तम् अबुद्धस् त्वं कालं युक्त्या प्रबोधितः । इदानीं सम्प्रबुद्धो ऽसि तत्त्वेनैवावबोध्यसे
ब्रह्माहं त्रिजगद् ब्रह्म ब्रह्म त्वं ब्रह्म दृश्यभूः । द्वितीया कल्पना नास्ति यथेच्छसि तथा कुरु
असंवेद्यमहासंवित्कोटिमात्रं जगत्त्रयं । एवं प्रत्ययवान् अन्तः कुर्वन्न् अपि न लिप्यसे
भारूपश् चेतनो व्यापी परमात्माहम् इत्य् अलम् । राघवानुभवान्तस् त्वं तिष्ठन् गच्छन् स्वपञ् श्वसन्
निर्ममो निरहङ्कारो बुद्धिमान् असि राम चेत् । तद् ब्रह्मवेदनं शान्तं सर्वभूतस्थितं भव
तद् अनाद्यन्तम् आभासि सत्त्वम् एव परं पदम् । स्थितो ऽसि सर्वगैकात्मा शुद्धसंविन्मयात्मकः