बालस्य स्वमनोमोहकल्पितः प्राणहारकः । रात्रौ तमसि वेतालो विचारेण विलीयते
सर्व एव जगद्भावा अविचारणचारवः । अविद्यमानसद्भावा विचारविशरारवः
पुंसो निजमनोमोहकल्पितो ऽनल्पदुःखदः । संसारचिरवेतालो विचारेण विलीयते
समस्वच्छं निराबाधम् अनन्तम् अनपाश्रयम् । विद्धीमं केवलीभावं विचारोग्रतरोः फलम्
अचलस्थितिनोदारप्रकटाभोगतेजसा । तेन निष्कामतोदेति शीततेवोदितेन्दुना
चिन्ताज्वरमहौषध्या साधुचित्तनिषण्णया । तयोत्तमत्वप्रदया नाभिवाञ्छति नोज्झति
तत् सदालम्बनं चेतस् स्फारम् आभासम् आगतम् । नास्तम् एति न चोदेति खम् इवातिततान्तरम्
न जहाति न चादत्ते न ताम्यति न शाम्यति । केवलं साक्षिवत् पश्यञ् जगद् आत्मनि तिष्ठति
न च शाम्यति नाप्य् अन्तर् नापि बाह्ये ऽवतिष्ठति । न च नैष्कर्म्यम् आदत्ते न च कर्मणि मज्जति
उपेक्षते गतं वस्तु सम्प्राप्तम् अनुवर्तते । न क्षुब्धो नाति चाक्षुब्धो भाति पूर्ण इवार्णवः
एवंरूपेण मनसा महात्मानो महाशयाः । जीवन्मुक्ता जगत्य् अस्मिन् विहरन्ति हि योगिनः
उषित्वा सुचिरं कालं धीरास् ते यावदीप्सितम् । तनुम् अन्ते परित्यज्य यान्ति केवलतां तताम्
को ऽहं कस्य च संसार इत्य् आपद्य् अपि धीमता । चिन्तनीयं प्रयत्नेन सप्रतीकारम् आत्मना
कार्यसङ्कटसन्देहं राजा जानाति राघव । निष्फलं सफलं वापि विचारेणैव नान्यथा
वेदवेदान्तसिद्धान्तस्थितयस् स्थितिकारणम् । निर्णीयन्ते विचारेण दीपेनेव भुवो निशि
अनष्टम् अन्धकारेषु बहुतेजस्स्व् अजिह्मितम् । पश्यत्य् अपि व्यवहितं विचारच् चारुलोचनम्
विवेकान्धो हि जात्यन्धश् शोच्यश् सर्वस्य दुर्मतिः । दिव्यचक्षुर् विवेकात्मा जयत्य् अखिलवस्तुषु
परमात्ममयी पाल्या महानन्दैकसाधनी । क्षणम् एकं परित्याज्या न विचारचमत्कृतिः
विचारचारुः पुरुषो महताम् अपि रोचते । परिपक्वं चमत्कारि सहकारफलं यथा
विचारकान्तमतयो नानेकेषु पुनः पुनः । पतन्ति दुःखगर्तेषु ज्ञातोर्ध्वगतयो नराः
न विरौति तथा रोगी नानर्थशतजर्जरः । अविचारविनष्टात्मा यथाज्ञः परिरोदिति
वरं कर्दमकीटत्वं श्वभ्रकण्टकता वरम् । वरम् अन्धगुहाहित्वं न नरस्याविचारिता
सर्वानर्थनिजावासं सर्वसाधुतिरस्कृतम् । सर्वदौस्स्थित्यसीमान्तम् अविचारं परित्यजेत्
नित्यं विचारयुक्तेन भवितव्यं महात्मना । भवान्धकूपे पततां विचारो ह्य् अवलम्बनम्
स्वयम् एवात्मनात्मानम् अवष्टभ्य विचारतः । संसारमोहजलधेस् तारयेत् स्वमनोमृगम्
को ऽहं कथम् अयं दोषस् संसाराख्य उपागतः । न्यायेनेति परामर्शो विचार इति कथ्यते
अन्धान्धमोहमुखरं चिरं दुःखाय केवलम् । कृतं शिलाया हृदयं दुर्मतेश् चाविचारिणः
भावाभावग्रहोत्सर्गदृशाम् इह हि राघव । न विचाराद् ऋते तत्त्वं ज्ञायते साधु किञ्चन
विचाराज् ज्ञायते तत्त्वं तत्त्वाद् विश्रान्तिर् आत्मनि । ततो मनसि शान्ते तु सर्वदुःखपरिक्षयः
सफलता फलते भुवि कर्मणां प्रकटतां किल गच्छत उत्तमात् । स्फुटविचारदृशैव विचारिता शमवते भवते ऽपि विरोचताम्