नानानानात्वम् अविदन् ननु नूनम् असम्भवम् । चिज्जगज्ज्वलनं पश्य बर्ह्यण्डरसबर्हिवत्
यथा जगति चित्तत्त्वं चित्तत्त्वे च जगत् तथा । नानानानात्म चैकं च मयूराण्डरसो यथा
नानापदार्थभ्रमपिञ्छपूर्णो जगन्मयूराण्डरसश् चिदात्मा । मयूररूपं त्व् अमयूरम् अत्र सत्तापदं विद्धि कुतो ऽस्ति भेदः
यत्रानुदितरूपात्म सर्वम् अस्तीदम् आततम् । मयूर इव बीजान्तस् तद् अहन्त्वम् अगादि च
तत्र नाभ्युदितं किञ्चित् तत्र सर्वं च विद्यते । तद् अवाच्यं गिरां स्वर्गसुखसारे न विद्यते
तथा च मुनयो देवा गणास् सिद्धा महर्षयः । आस्वादयन्तस् स्वं रूपं सदा तूर्यपदे स्थिताः
एते ये स्तब्धनयनदृष्टयो निर्निमेषिणः । ते दृश्यदर्शनासङ्गस्पन्दत्यागे व्यवस्थिताः
न स्थिता भावना येषां स्थितानाम् अपि कर्मसु । संवित्संवेद्यसम्बन्धस्पन्दत्यागे च ये स्थिताः
प्राणो न स्पन्दते तेषां चित्रस्थवपुषाम् इव । चित्तचैत्तसमासङ्गत्यागे ते स्वपदे स्थिताः
स्पन्दात् संसाधयन्त्य् अर्थं सेनास् सेनेश्वरं यथा । तथैव चित्तचैत्तानि स्पन्दात् कुर्वन्ति संसृतिम्
यथाह्लादयति स्वच्छः पल्लवं रश्मिर् ऐन्दवः । तथात्माह्लादयत्य् अन्तर् दृश्यदर्शनसङ्गमे
बिम्बाद् दूरं प्रयातस्य भित्ताव् अपतितस्य च । यद् इन्दोस् तेजसो रूपं तद् रूपं शुद्धसंविदः
न दृश्यं नोपदेशार्हं नाभ्याशे न च दूरतः । केवलानुभवप्राप्यं तद् रूपं शुद्धम् आत्मनः
न देहो नेन्द्रियगणो न चित्तं न च वासना । न जीवो नापि च स्पन्दो न संवित्तिर् न चैव खम्
न सन् नासन् न मध्यस्थं शून्याशून्ये न चैव ह । न देशकालवस्त्वादि स एवास्ति न चेतरत्
एतैस् सर्वैर् विनिर्मुक्तं हृदि कोशगते ऽपि च । यत्रैतत् स्पन्दते ऽदृश्यं तत् तद् आत्मपदं भवेत्
तच् च नाद्य न कल्पान्ते न शस्त्राग्न्यनिलादिभिः । नेह नामुत्र सद्रूपाद् अन्यथा भवति क्वचित्
जायन्ते च म्रियन्ते च देहकुम्भास् सहस्रशः । सबाह्याभ्यन्तरस्यास्य नात्माकाशस्य खण्डना
तच् च देहादि सकलम् आत्मैवात्मविदां वर । केवलं बोधवैरूप्याद् ईषत् पृथग् अवस्थितम्
विष्वग् आत्ममयं शुद्धं बुद्ध्वा बुद्ध्या स्वसिद्धया । प्रज्वलन्न् अपि कार्येषु निर्वाणो निर्ममो भव
यद् इदं दृश्यते किञ्चिज् जगत् स्थावरजङ्गमम् । तत् सर्वं ब्रह्म निर्धर्म निर्गुणं निर्ममात्मकम्
नित्यव्यपेतावयवम् एकम् एकान्तनिर्मलम् । निर्विकारम् अनाद्यन्तं नित्यं शान्तं समात्मकम्
कालक्रियाकरणकारणकर्तृकार्यजन्मस्थितिप्रलयसंसरणादि सर्वम् । ब्रह्मेति दृष्टवत एव तवात्मदृष्ट्या भूयो ऽपि किं भ्रमणम् अङ्ग ससङ्गम् एव
यदि नास्ति विकारादि ब्रह्मन् ब्रह्मणि बृंहिते । तद् इदं कथम् आभाति भावाभावमयं जगत्
अपुनःप्रागवस्थानं यत् स्वरूपविपर्ययः । तद् विकारादि कथितं यत् क्षीरादिषु विद्यते
पयस्तां पुनर् अभ्येति दधित्वान् न पुनः पयः । बुद्धम् आद्यन्तमध्येषु ब्रह्म ब्रह्मैव निर्मलम्
क्षीरादेर् इव तेनास्ति ब्रह्मणो न विकारिता । अनाद्यन्ताविकारस्य न चैवावयविक्रमः
समस्याद्यन्तयोर् येयं दृश्यते विकृतिः क्षणम् । संविदस् तं भ्रमं विद्धि नाविकारे ऽस्ति विक्रिया
संवेद्ये सति संवित्तिस् तन् न ब्रह्मणि विद्यते । तद् ब्रह्मशब्दकथितं निस्संवेद्यं चिदात्म यत्
यादृग् आद्यन्तयोर् वस्तु तादृग् एव तद् उच्यते । मध्ये तस्य यद् अन्यत्वं तद् अबोधविजृम्भितम्