यथामलः पयःकोशस् तलविश्रान्तभानुभाः । सन्न् एवासन्न् इवैवं चिन्नैबिड्यं सद् असत् त्व् इव
यथा सोम्यपयोराशिकोटरं कलनोन्मुखम् । द्रवत्वात् स्पन्द्य् अथास्पन्दं तथेदं चिद्घनान्तरम्
चिच्छिलाशङ्खपद्मौघस् तन्मयश् चाप्य् अतन्मयः । जगद् विद्धि सपद्मादिशब्दार्थं चिच्छिलान्तरम्
महाशिलाघनो ऽप्य् एष चिद्घनस् सुषिरोदरः । अरन्ध्रो ऽन्तश् चाद्वयो ऽच्छो जलान्तस् सन्निवेशवत्
पततीदं जगद्ब्रह्म सोम्यम् अम्भ इव द्रुतेः
ब्रह्मणीदं सुषुप्ताभम् अस्त्य् अनन्यच् छिलाब्जवत् । मज्जबिल्वम् इव ब्रह्म जगद् ब्रह्मैव वामलम्
यथा शून्यत्वम् आकाशे द्रवत्वं चाम्भसि स्थितम् । स्पन्दत्वं च यथा वायौ ब्रह्मणीदं तथा जगत्
ब्रह्मत्वं ब्रह्मणि यथा तथैवेदं जगत् स्थितम् । नानयोर् विद्यते भेदस् तरुपादपयोर् इव
यान्य् एतानि जगन्तीह तान्य् अन्त्राणि चिदाकृतेः । भावाभावादि नास्त्य् एषां तस्या इव कदाचन
ब्रह्मैव जगदाभासं मरुतापो यथा जलम् । ब्रह्मैवालोकनाच् छुद्धं भवत्य् अम्बु यथातपः
मेर्वादेस् तृणगुल्मादेश् चित्तादेर् जगतो ऽपि च । परमाणुविभागेन यद् रूपं तत् परं विदुः
तत्समूहस् तद् एवोच्चैश् चित्तमेरुतृणादिकम् । यत् सौक्ष्म्ये ऽपि हि सारात्म स्थौल्ये सारतरं हि तत्
यथा रसात्मिका शक्तिः परमाणुतया तया । स्थिता जगत्पदार्थेषु पायसी ब्रह्मता तथा
रसशक्तिर् यथोदेति तृणगुल्मतयाम्भसः । तथा नानातयोदेति सैवासेवेह ब्रह्मता
यैषा रूपविलासानाम् आलोकपरमाणुता । गुणगुण्यर्थसत्त्वात्मरूपिणी सा परात्मता
चितितत्त्वे ऽस्ति शैलादि तदभिव्यञ्जनात्मनि । पिञ्छपक्षौघकाठिन्यं मयूराण्डरसे यथा
चितितत्त्वे ऽस्ति नानाता तदभिव्यञ्जनात्मनि । विचित्रपिञ्छिकापुञ्जो मयूराण्डरसे यथा
नानानानात्मिके ह्य् एवं यथाण्डरसबर्हिते । विवेकदृष्ट्या दृश्येते तथा ब्रह्मजगत्स्थिती
सनानातो ऽप्य् अनानातो यथाण्डरसबर्हिणः । अद्वैतद्वैतसत्तात्मा तथा ब्रह्मजगद्भ्रमः
यतस् सदसतोस् सत्ता सत्त्वताया यतस् स्थितिः । यतस् तदतदो रूपं भावं स्वं विद्धि तत् परम्
नानानानात्वम् अविदन् ननु नूनम् असम्भवम् । चिज्जगज्ज्वलनं पश्य बर्ह्यण्डरसबर्हिवत्
यथा जगति चित्तत्त्वं चित्तत्त्वे च जगत् तथा । नानानानात्म चैकं च मयूराण्डरसो यथा
नानापदार्थभ्रमपिञ्छपूर्णो जगन्मयूराण्डरसश् चिदात्मा । मयूररूपं त्व् अमयूरम् अत्र सत्तापदं विद्धि कुतो ऽस्ति भेदः
यत्रानुदितरूपात्म सर्वम् अस्तीदम् आततम् । मयूर इव बीजान्तस् तद् अहन्त्वम् अगादि च
तत्र नाभ्युदितं किञ्चित् तत्र सर्वं च विद्यते । तद् अवाच्यं गिरां स्वर्गसुखसारे न विद्यते
तथा च मुनयो देवा गणास् सिद्धा महर्षयः । आस्वादयन्तस् स्वं रूपं सदा तूर्यपदे स्थिताः
एते ये स्तब्धनयनदृष्टयो निर्निमेषिणः । ते दृश्यदर्शनासङ्गस्पन्दत्यागे व्यवस्थिताः
न स्थिता भावना येषां स्थितानाम् अपि कर्मसु । संवित्संवेद्यसम्बन्धस्पन्दत्यागे च ये स्थिताः
प्राणो न स्पन्दते तेषां चित्रस्थवपुषाम् इव । चित्तचैत्तसमासङ्गत्यागे ते स्वपदे स्थिताः
स्पन्दात् संसाधयन्त्य् अर्थं सेनास् सेनेश्वरं यथा । तथैव चित्तचैत्तानि स्पन्दात् कुर्वन्ति संसृतिम्