विकारादि तद् एवेति बुद्धैवोक्तिर् अनर्थिका । तत्तां समुपयात्य् आशु जलबिन्दुर् इवाम्भसि
अनन्तत्वाच् चितेर् एतद् विकारादि चितेर् इति । उक्त्या सम्पद्यते तच् च तल्लयेन विलीयते
ब्रह्मैवेदं विकारादि विकाराद्यर्थवर्जितम् । वर्जनावर्जने ऽर्थस्य ब्रह्मैवानन्ततावशात्
ब्रह्मस्थिति विकारादि ब्रह्मैवोत्पादितं क्रमात् । अत्रान्यार्थविदं विद्धि मृगतृष्णाम्भसा समाम्
बीजं पुष्पफलान्तस्स्थं बीजान्तं नान्यतात्मकम् । तादृशी बीजसत्ता सा भवित्री या तथोत्तरम्
चिद्घने चिद्घनत्वं यत् स एव त्रिजगत्क्रमः । एकत्वम् अनयोर् द्वित्वम् एकाभावे द्वयोः क्षतिः
जगद् अन्यग्भवोत्पत्ति न कदाचिद् अनीदृशम् । चिद् अचिन् न कदाचिन् न द्वयम् एतन् मिथो द्वयम्
महाशिलान्तरे ऽभेद्ये लेखात्मास्ति यथा बहु । तदन्यानन्यमज्जादि चिद्घने त्रिजगद्गतिः
यथा शिलान्तर् लेखादि भिद्यते न शिलाङ्गतः । तत्सारत्वात् तथा मन्तृकर्तृत्वादि जगच् चितेः
यथा शिलान्तर् अब्जानां स्पन्दास्पन्दभवाभवाः । विषयत्वं न गच्छन्ति कर्तारो जगतस् तथा
नेदं कदाचित् क्रियते न कदाचन नश्यति । अद्रिवन् न्यग्भवोल्लासविलासावेदनात्मकम्
यथा यत्र यदाकारं तथा तत्र तद् एव हि । ब्रह्म सर्वात्मकं सर्वं सुषुप्तस्थम् अवस्थितम्
भूरिभावविकाराढ्यो यो ऽयं जगदुरुभ्रमः । सुषुप्तम् एव तद् विद्धि शिलान्तः पङ्कजादिवत्
नित्यं सुषुप्तपदम् एव जगद्विलासस् सोम्य प्रशान्तसमचिद्घनखात्मकत्वात् । पद्माश् शिलात इव सर्गदशास् स्वसाराद् दृष्ट्या न भेदम् उपयान्ति कयाचिद् एव
चित्तत्त्वस्य फलस्येव चित्रस् सोम्यो ऽप्य् अनुक्रमात् । स्वसत्तासन्निवेशो ऽन्तर् यस् स सर्ग इति स्थितः
देशकालक्रियादीनाम् अति तन्मयरूपतः । इदम् अन्यद् इदं चान्यद् इति नात्रोपपद्यते
समस्तशब्दशब्दार्थवासनाकल्पनाविदाम् । एकात्मत्वाद् अन्यथेदम् इति सङ्कथ्यते कथम्
फलस्यान्तस् सन्निवेशो नानानुक्रमतो यथा । .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. ..
अनानैवापि नानेव क्षुब्धेवाक्षुभितैव च । यथा फलान्तस् स्वा सत्ता चिदन्तश् चिच्चयस् तथा
जगन्नगरम् आदर्शे चितीव प्रतिबिम्बितम् । कचतीवाकचद् अपि शिलान्तस् सन्निवेशवत्
परमे चिन्मणौ सन्ति जगत्कोटिशतान्य् अपि । चिन्तामणाव् अनन्तानि फलानीवार्थितान्य् अलम्
चित्समुद्गक एवेदं तदङ्गोत्कीर्णम् आततम् । जगन्मौक्तिकम् आभाति तदंशुमयम् अन्यवत्
अहोरात्रान् विरचयन् वेदनावेदनान्य् अयम् । चिदादित्यस् स्थितो भास्वाञ् जगद्द्रव्याणि दर्शयन्
समुद्रकोटरावर्तपयस्स्पन्दविलासवत् । न व्यक्तं नानभिव्यक्तं त्रिजगद् वर्तते चिति
शिलान्तर्घनशुद्धैकचित्सारवपुर् आत्मवान् । सोम्यो व्यवहरन्न् एव तिष्ठत्य् उपलकोशवत्
अविभागघनस्पन्दा शिलान्तस् सन्निवेशवत् । अनानैव च नाना चिच् छिलान्तस् सन्निवेशवत्
यद् अस्ति तच् चिति शिलाशरीरे सालभञ्जिका । यन् नास्ति तच् चिति शिलाशरीरे सालभञ्जिका
भावाभावेषु यत् सत्यं चिन्मज्जौज्ज्वल्यम् एव तत् । मज्जसारा पदार्थश्रीस् तन्मयं स्यात् तद् एव हि
पद्मं नानादिशब्दार्थांस् त्यक्त्वा यद्वच् छिलोदरम् । नाना तद्वद् इदं नाना तदतन्मयम् अद्वयम्
नानाप्य् एकतयानाना घनडिम्बशिलोदरम् । यथा तद् अविभागात्म तथेदं चिद्घनान्तरम्