चिन्मज्जरूपम् अखिलम् अहन्तादीदम् आततम् । न मनाग् अपि भेदो ऽस्ति द्वैतैक्यकलनात्मकः
यथा ब्रह्माण्डकूष्माण्डमज्जा मेर्वादिसंस्थितिः । तथा चिद्बिल्वमज्जेयं ब्रह्माण्डाद्या जगत्स्थितिः
सृष्टिश् चिद्बिल्वमज्जस्य जगदाख्या चमत्कृतिः । स्थिता सुषुप्तसोम्यान्तस् शिलान्तस् सन्निवेशवत्
अत्रेमाम् इन्दुवदन चित्रां विस्मयकारिणीम् । वर्ण्यमानां मया रम्याम् अन्याम् आख्यायिकां शृणु
स्निग्धा स्पष्टा मृदुस्पर्शा महाविस्तारशालिनी । निबिडा नित्यनीरन्ध्रा क्वचिद् अस्ति महाशिला
तस्याम् अन्तः प्रफुल्तानि पद्मानि सुबहून्य् अपि । कर्णिकाजातमूलानि मूलान्तःकर्णिकानि च । ऊर्ध्वमूलान्य् अधोमूलान्य् अमूलानीतराणि च
तेषां च निकटे सन्ति शङ्खाश् शतसहस्रशः । चक्रौघाश् च महाकाराः पद्मवत् सन्निवेशिनः
सत्यम् एतन् मया दृष्टा तादृशी सा महाशिला । सालिग्रामे हरेर् धाम्नि विद्यते परिवारिणी
एवम् एतद् विजानासि दृष्टवान् असि ताश् शिलाः । यो यश् च तत्र पाषाणस् स सर्वस् तादृगन्तरः
मया त्व् इयम् अपूर्वैव शिलेयं वर्ण्यते तव । यस्याम् अन्तर् महाकुक्षौ सर्वम् अस्ति च नास्ति च
चिच्छिलैषा मयोक्ता ते यस्याम् अन्तर् जगन्ति खे । घनत्वैकात्मकत्वादिवशाद् एषा शिलेव चित्
अप्य् अत्यन्तघनाङ्गाया अनीरन्ध्राकृतेर् अपि । विद्यते ऽन्तः परं ब्रह्म व्योम्नीव विपुलानिलः
द्यौः क्षमा वायुर् आकाशं पर्वतास् सरितो दिशः । सन्ति तस्यां शिला सा च सुषिरा न मनाग् अपि
अस्याम् एकघनाङ्गात्म जगत्पद्मं विजृम्भते । एतस्माद् वस्तुनो नान्यद् अन्यच् च द्व्यात्मकं च वा
भूतं भव्यं भविष्यच् चिच्छिलायां सालभञ्जिका । तथास्ति तत्र तत् सर्वं संस्थानं वस्तुनो यथा
उपलान्तस् सन्निवेशो नानात्माप्य् एकपिण्डताम् । यथा धत्ते तथैषा चित् पिण्डाकारैकिका घना
यथा पद्मश् शिलाकोशाद् अभिन्नो ऽपि वपुर्मयः । तथा सर्गश् चितो रूपाद् अभिन्नो ऽपि वपुर्मयः
सुषुप्तावस्थया चक्रपद्मलेखाश् शिलोदरे । यथा स्थिताश् चितेर् अन्तस् तथेयं जगदावली
शिलान्तः पद्मलेखाली मरिचान्तश् चमत्कृतिः । नोदेति नास्तम् आयाति यथा सर्गस् तथा चितौ
यथापरन्ध्रो ऽनन्यो ऽन्तर्मज्जा बिल्वे निरन्तरः । तथा लभ्यविकाराढ्या चितौ ब्रह्माण्डमण्डली
विकारादि तद् एवेति बुद्धैवोक्तिर् अनर्थिका । तत्तां समुपयात्य् आशु जलबिन्दुर् इवाम्भसि
अनन्तत्वाच् चितेर् एतद् विकारादि चितेर् इति । उक्त्या सम्पद्यते तच् च तल्लयेन विलीयते
ब्रह्मैवेदं विकारादि विकाराद्यर्थवर्जितम् । वर्जनावर्जने ऽर्थस्य ब्रह्मैवानन्ततावशात्
ब्रह्मस्थिति विकारादि ब्रह्मैवोत्पादितं क्रमात् । अत्रान्यार्थविदं विद्धि मृगतृष्णाम्भसा समाम्
बीजं पुष्पफलान्तस्स्थं बीजान्तं नान्यतात्मकम् । तादृशी बीजसत्ता सा भवित्री या तथोत्तरम्
चिद्घने चिद्घनत्वं यत् स एव त्रिजगत्क्रमः । एकत्वम् अनयोर् द्वित्वम् एकाभावे द्वयोः क्षतिः
जगद् अन्यग्भवोत्पत्ति न कदाचिद् अनीदृशम् । चिद् अचिन् न कदाचिन् न द्वयम् एतन् मिथो द्वयम्
महाशिलान्तरे ऽभेद्ये लेखात्मास्ति यथा बहु । तदन्यानन्यमज्जादि चिद्घने त्रिजगद्गतिः
यथा शिलान्तर् लेखादि भिद्यते न शिलाङ्गतः । तत्सारत्वात् तथा मन्तृकर्तृत्वादि जगच् चितेः
यथा शिलान्तर् अब्जानां स्पन्दास्पन्दभवाभवाः । विषयत्वं न गच्छन्ति कर्तारो जगतस् तथा