अहङ्कला समुदयसमनन्तरम् एव सा । वलिताकाशशब्दाङ्गत्रैलोक्यपरमाणुभिः
इत्य् अनुक्रमतो याता सा संविच्छक्तिरूपताम् । मज्जा प्राक्सन्निवेशं स्वं तम् एवाप्य् असमुज्झती
संविच्छक्त्या तया तत्र ततस् तरलरूपया । निज एव परे रूपे दृग् इत्थं सम्प्रसारिता
इदं व्योममहानन्तम् इयं कालमहाकला । इयं नियतिर् उद्युक्ता क्रियेयं स्पन्दधर्मिणी
अयं सङ्कल्पविस्तारस् त्व् अयम् आशाभरभ्रमः । रागद्वेषस्थितिर् इयं हेयोपादेयधीर् इयम्
इयं त्वत्ता त्व् इयं मत्ता तत्तेयं संस्थितिस् त्व् इयम् । ब्रह्माण्डौघो ऽयम् ऊर्ध्वस्थस् त्व् अयम् अग्रे ऽयम् अप्य् अधः
अयं पुरः पार्श्वतो ऽयं पश्चाद् आराद् दवीयसि । इदं भूतं वर्तमानं भविष्यत् त्व् इदम् इत्य् अपि
इदम् अन्तस्स्थितानल्पकल्पनाम्भोरुहालयम् । ब्रह्माण्डमण्डपापिण्डक्रीडामण्डपमण्डलम्
अनन्तकलनातत्त्वपरिपल्लविता हरेः । हृदब्जकर्णिका चेयं लोकपद्माक्षमालिका
इयं कीर्णमहारुद्रकणाङ्कुरितकोटरा । दीर्घाध्वपदवी ध्वान्तध्वंसनेहाप्रभाविनी
अयं मेरुः ककुप्पत्त्रजगत्पङ्कजकर्णिका । स्फुरदिन्दुमधूल्लासलम्पटामरषट्पदा
इयम् उद्दामसौगन्ध्या स्वर्गश्रीपुष्पमञ्जरी । जगज्जरढवृक्षस्य रजोनरकमूलिनः
इयं च ताराकिञ्जल्का ब्रह्माण्डकतटस्थिता । अपारापारपर्यन्ता व्योमनीलसरोजिनी
इयं क्रियासरिद् वाततरङ्गतरणावली । सर्गावर्तविवर्तस्था भूरिभूतपरम्परा
इयं तमोभ्रमरिणी क्षणकल्पादिपल्लवा । तेजःकेसरिणी कालनलिनी व्योमपङ्कजा
इमा भावविकाराढ्या जरामृतिविषूचिकाः । विद्याविद्याविकाराढ्या इमाश् शास्त्रार्थदृष्टयः
इति सा तस्य बिल्वस्य निजा मज्जाचमत्कृतिः । स्वकल्पसन्निवेशान्तर् एवैवंकृतसंस्थितिः
शान्ता स्वस्था निराबाधा सोम्येतरतयोज्झिता । कर्तृत्वम् अप्य् अकर्तृत्वं कृत्वा कृत्वैव संस्थिता
एकैकिकैव विविधेव विभाव्यमाना नैकात्मिका न विविधा ननु सैव सैव । सत्यास्थिता सकलशान्तिसमैकरूपा सर्वात्मिकातिमहती चितिर् एव शक्तिः
भगवन् सर्वधर्मज्ञ त्वयैषा बिल्वरूपिणी । महाचिद्घनसत्तेति कथितेति मतिर् मम
चिन्मज्जरूपम् अखिलम् अहन्तादीदम् आततम् । न मनाग् अपि भेदो ऽस्ति द्वैतैक्यकलनात्मकः
यथा ब्रह्माण्डकूष्माण्डमज्जा मेर्वादिसंस्थितिः । तथा चिद्बिल्वमज्जेयं ब्रह्माण्डाद्या जगत्स्थितिः
सृष्टिश् चिद्बिल्वमज्जस्य जगदाख्या चमत्कृतिः । स्थिता सुषुप्तसोम्यान्तस् शिलान्तस् सन्निवेशवत्
अत्रेमाम् इन्दुवदन चित्रां विस्मयकारिणीम् । वर्ण्यमानां मया रम्याम् अन्याम् आख्यायिकां शृणु
स्निग्धा स्पष्टा मृदुस्पर्शा महाविस्तारशालिनी । निबिडा नित्यनीरन्ध्रा क्वचिद् अस्ति महाशिला
तस्याम् अन्तः प्रफुल्तानि पद्मानि सुबहून्य् अपि । कर्णिकाजातमूलानि मूलान्तःकर्णिकानि च । ऊर्ध्वमूलान्य् अधोमूलान्य् अमूलानीतराणि च
तेषां च निकटे सन्ति शङ्खाश् शतसहस्रशः । चक्रौघाश् च महाकाराः पद्मवत् सन्निवेशिनः
सत्यम् एतन् मया दृष्टा तादृशी सा महाशिला । सालिग्रामे हरेर् धाम्नि विद्यते परिवारिणी
एवम् एतद् विजानासि दृष्टवान् असि ताश् शिलाः । यो यश् च तत्र पाषाणस् स सर्वस् तादृगन्तरः
मया त्व् इयम् अपूर्वैव शिलेयं वर्ण्यते तव । यस्याम् अन्तर् महाकुक्षौ सर्वम् अस्ति च नास्ति च