महापद्य् अपि दीर्घेषु सद्विचारपरो नरः । न निमज्जति मोहेषु तेजोराशिस् तमस्स्व् इव
मानसे सरसि स्वच्छे विचारकमलोत्करः । नूनं विकसितो यस्य हिमवान् इव भाति सः
विचारविकला यस्य मतिर् मान्द्यम् उपेयुषः । तस्योदेत्य् अशनिश् चन्द्रान् मुधा यक्षश् शिशोर् इव
दुःखषण्डकवल्मीकं विपन्नवलतामधुः । राम दूरे परित्याज्यो निर्विवेको नराधमः
ये केचन दुरारम्भा दुराचारा दुराधयः । अविचारेण ते भान्ति वेतालास् तमसा यथा
अविचारिणम् एकान्तजरद्द्रुमसधर्मिणम् । अक्षमं साधुकार्येषु दूरे कुरु रघूद्वह
विविक्तं हि मनो जन्तोर् आशावैवश्यवर्जितम् । परां निर्वृतिम् अभ्येति पूर्णश् चन्द्र इवात्मनि
विवेकितोदिता देहं सर्वं शीतलयत्य् अलम् । अलङ्करोति चात्यन्तं ज्योत्स्नेव भुवनम् नवा
परमार्थपताकाया धियो धवलचामरम् । विचारो राजते जन्तो रजन्याम् इव चन्द्रमाः
विचारचारवो भावा भासयन्तो दिशो दश । भान्ति भास्करवद् भग्नभूयोभवभयामयाः
बालस्य स्वमनोमोहकल्पितः प्राणहारकः । रात्रौ तमसि वेतालो विचारेण विलीयते
सर्व एव जगद्भावा अविचारणचारवः । अविद्यमानसद्भावा विचारविशरारवः
पुंसो निजमनोमोहकल्पितो ऽनल्पदुःखदः । संसारचिरवेतालो विचारेण विलीयते
समस्वच्छं निराबाधम् अनन्तम् अनपाश्रयम् । विद्धीमं केवलीभावं विचारोग्रतरोः फलम्
अचलस्थितिनोदारप्रकटाभोगतेजसा । तेन निष्कामतोदेति शीततेवोदितेन्दुना
चिन्ताज्वरमहौषध्या साधुचित्तनिषण्णया । तयोत्तमत्वप्रदया नाभिवाञ्छति नोज्झति
तत् सदालम्बनं चेतस् स्फारम् आभासम् आगतम् । नास्तम् एति न चोदेति खम् इवातिततान्तरम्
न जहाति न चादत्ते न ताम्यति न शाम्यति । केवलं साक्षिवत् पश्यञ् जगद् आत्मनि तिष्ठति
न च शाम्यति नाप्य् अन्तर् नापि बाह्ये ऽवतिष्ठति । न च नैष्कर्म्यम् आदत्ते न च कर्मणि मज्जति
उपेक्षते गतं वस्तु सम्प्राप्तम् अनुवर्तते । न क्षुब्धो नाति चाक्षुब्धो भाति पूर्ण इवार्णवः
एवंरूपेण मनसा महात्मानो महाशयाः । जीवन्मुक्ता जगत्य् अस्मिन् विहरन्ति हि योगिनः
उषित्वा सुचिरं कालं धीरास् ते यावदीप्सितम् । तनुम् अन्ते परित्यज्य यान्ति केवलतां तताम्
को ऽहं कस्य च संसार इत्य् आपद्य् अपि धीमता । चिन्तनीयं प्रयत्नेन सप्रतीकारम् आत्मना
कार्यसङ्कटसन्देहं राजा जानाति राघव । निष्फलं सफलं वापि विचारेणैव नान्यथा
वेदवेदान्तसिद्धान्तस्थितयस् स्थितिकारणम् । निर्णीयन्ते विचारेण दीपेनेव भुवो निशि
अनष्टम् अन्धकारेषु बहुतेजस्स्व् अजिह्मितम् । पश्यत्य् अपि व्यवहितं विचारच् चारुलोचनम्
विवेकान्धो हि जात्यन्धश् शोच्यश् सर्वस्य दुर्मतिः । दिव्यचक्षुर् विवेकात्मा जयत्य् अखिलवस्तुषु
परमात्ममयी पाल्या महानन्दैकसाधनी । क्षणम् एकं परित्याज्या न विचारचमत्कृतिः
विचारचारुः पुरुषो महताम् अपि रोचते । परिपक्वं चमत्कारि सहकारफलं यथा
विचारकान्तमतयो नानेकेषु पुनः पुनः । पतन्ति दुःखगर्तेषु ज्ञातोर्ध्वगतयो नराः