चित्तस्पन्दोत्थिता माया तदभावे विलीयते । पयस्स्पन्दोत्थिता वीचिस् तदभावेन शाम्यति
त्यागतो वासनांशस्य बोधाद् वा प्राणरोधनात् । चित्ते निस्स्पन्दतां याते कुतस् स्पन्दस्य सम्भवः
असंवित्स्पन्दमात्रेण याति चित्तम् अचित्तताम् । प्राणानां वा निरोधेन तद् एव च परं पदम्
दृश्यदर्शनसम्बन्धे यत् सुखं पारमात्मिकम् । तदन्तैकान्तसंवित्त्या ब्रह्मदृष्ट्या मनःक्षयः
यत्र नाभ्युदितं चित्तं तत् तत् सुखम् अकृत्रिमम् । न स्वर्गादौ सम्भवति मरौ हिमगृहं यथा
चित्तोपशमजं स्फारम् अवाच्यं वचसां सुखम् । क्षयातिशयनिर्मुक्तं नोदेति न च शाम्यति
बोधाद् भवति चित्तान्तो निर्बोधाच् चित्ततोदिता । बालवेतालवत् तेन मोहश्रीर् घनतां गता
विद्यमानम् अपि ह्य् एतच् चित्तं बोधाद् विलीयते । सद् अप्य् असद् इवाभाति ताम्रं हेमीकृतं यथा
ज्ञस्य चित्तं न चित्ताख्यं ज्ञचित्तं सत्त्वम् उच्यते । नामार्थान्यत्वभाक् चित्तं बोधात् ताम्रसुवर्णवत्
न सम्भवति चित्तत्वं तेन तत् प्रविलीयते । भ्रमश् शाम्यति बोधेन नाभावो विद्यते सतः
अवस्त्व् एतद् विकल्पात्म चित्तादि शशशृङ्गवत् । सर्वत्वाद् आत्मनस् तस्मात् तद् विबोधाद् विलीयते
चित्तं सत्त्वं समायातं कञ्चित् कालं जगत्स्थितौ । विहृत्य तुर्यावस्थायां तुर्यातीतं भवत्य् अतः
ब्रह्मैव भूरिभुवनभ्रमविभ्रमौघैर् इत्थं स्थितं समम् अनेकतयैकम् एव । सर्वात्म सम्भवति नेतरद् अङ्ग किञ्चिच् चैत्तादि काञ्चनहृदीव हि सन्निवेशः
अत्रेमाम् अवबोधाय विस्मयोत्फुल्लकारिणीम् । अपूर्वाम् एव सङ्क्षेपाद् राम रम्यां कथां शृणु
योजनानां सहस्राणि विपुलं विमलं स्फुटम् । युगैर् अप्य् अजरद्रूपम् अस्ति बिल्वफलं महत्
अविनाशरसाधारं सुधामधुरसारवत् । पुराणम् अपि बालेन्दुदलमार्दवसुन्दरम्
व्यूढसह्यमहामेरुमन्दराद्रितृणावलेः । महाकल्पान्तवात्याया अपि वेगैर् अचालितम्
योजनायुतकोटीनां कोटिलक्षशतैर् अपि । वैपुल्येनापरिच्छेद्यं फलम् आद्यं जगत्स्थितेः
अस्य बिल्वफलस्योच्चैर् ब्रह्माण्डानि समीपतः । हरन्ति लीलां शैले ऽधो राजिकाकणपद्धतेः
स्यन्दमानरसापूरां स्वाद्वीं रसचमत्कृतिम् । यस्यातिशेते नो कश्चिद् अपि राघव षड्रसः
न कदाचन पाकेन पातान्तेन समेति यत् । सदैव पक्वम् अप्य् अङ्ग जरसा यन् न बाध्यते
ब्रह्मविष्ण्विन्द्ररुद्राद्या जरढाः केचिद् एव नो । यस्योत्पत्तिं विजानन्ति मूलं वा वृक्षम् एव वा
अदृष्टाङ्कुरवृक्षस्य त्व् अदृष्टकुसुमोद्गतेः । अस्तम्भमूलशाखस्य फलम् एवावलोक्यते
एकपिण्डघनाकारव्याततस्थौल्यशालिनः । यस्योत्पत्तिविकारादिपरिणामो न दृश्यते
समस्तफलसारस्य फलस्यास्य महाकृतेः । मज्जान्तर् अस्ति विततो निर्विकारो रसान्तरः
शिलान्तर् इव नीरन्ध्रस् स्यन्दमानेन्दुबिम्बवत् । रसं स्वसंविदास्वाद्यं स्यन्दमान ऋतामृतम्
सेकस् सकलसौख्यानां शीतलालोककारकः । शैलाभो ऽमृतपिण्डाभो मण्ड आत्मफलस्थितेः
तस्मात् परममज्जा तु यासौ स्वाद्वी चमत्कृतिः । अन्तर् अक्षुभिता नित्यम् अनन्या श्रीफलाङ्गतः
स्वसन्निवेशवैचित्र्यम् अनन्यत्वफलाङ्गकम् । अत्यजन्त्या तया तन्व्या स्थूलयाप्य् अतिबालया
इयम् अस्मीति कलनाद् असत्सदन्यतामलम् । भेदाद्य् असम्भवद् इदं स्वयम् उत्पाद्य भावितम्