इदं हेयम् उपादेयम् इदं सद् इदम् अप्य् असत् । इति चिन्ताभ्रमश् शान्तो निपुणं परमो मुने
न स्वर्गम् अभिवाञ्छामि द्वेष्मि वा न च रौरवम् । आत्मन्य् एव हि तिष्ठामि मन्दराद्रिर् इवाभ्रमः
कणशःकीर्णत्रिजगत्क्षीरसागरसन्ततिः । विश्रान्तश् चिरसम्भ्रान्तो निर्भ्रमो राममन्दरः
अवस्त्व् इदम् इदं वस्तु यस्येति कलनामलम् । हृदि तस्य कुसन्देहजालिका ज्वलिताधिकम्
इदम् इत्थं जगद् इति ज्ञातं येन मुनीश्वर । स यत्र याति कार्पण्यं जगतस् तन् न लभ्यते
विचित्राकुलकल्लोलाज् जडावृत्तिविवर्तितात् । त्वत्प्रसादेन भगवंस् तीर्णास् स्मो भवसागरात्
सम्पदाम् अवधिर् ज्ञातो दृष्टस् सीमान्त आपदाम् । सर्वसारेष्व् अदीनास् स्मः पूर्णास् स्मः परमेश्वराः
पराम् अभेद्याम् अपरैर् दलिताशामतङ्गजाम् । संसारसमरे सम्यग् धीरताम् आगतं मनः
परिगलितविकल्पताम् उपेतं प्रगलितवाञ्छम् अदीनसारसत्त्वम् । त्रिजगति जयति प्रसिद्धरूपं प्रमुदितम् अन्तर् अनुत्तरं मनो मे
केवलेनेन्द्रियैस् सार्धं वर्तमानार्थवर्तिना । असङ्गमेन मनसा यत् करोषि न तत् कृतम्
यथा प्राप्तिक्षणे वस्तु प्रथमं तुष्टये तथा । न प्राप्त्येकक्षणाद् ऊर्ध्वम् इति को नानुभूतवान्
वाञ्छाकाले यथा वस्तु तुष्टये नान्यदा तथा । तस्मात् क्षणसुखे तुष्टिं बालो बध्नाति नेतरः
वाञ्छाक्षणे तुष्टये यत् तत्र वाञ्छैव कारणम् । तुष्टिस् त्व् अतुष्टिपर्यन्ता तस्माद् वाञ्छां परित्यज
यदि तत् पदम् आप्नोषि कदाचित् कालपर्ययात् । तद् अहम्भावनारूपे न मङ्क्तव्यं त्वया पुनः
आत्मज्ञानाचलस्याग्रे राम विश्रान्तवान् असि । अहम्भावमहाश्वभ्रे न पुनः पातम् अर्हसि
प्रसृतानन्तसद्दृष्टेर् ज्ञत्वमेरुशिरस्स्थितेः । पुनर् गर्भान्धकारान्तःपातालपतनं कुतः
दृश्यते ते स्वभावो ऽयं समतासत्यतामयः । मन्ये क्षीणविकल्पो ऽसि जातो ऽसि गतकालिकः
स्वभावो ऽयं स्थिरो राम इत्य् आवेदयतीव मे । सोम्य पूर्णार्णवप्रख्या समता निर्मला तव
आशा यातु निराशत्वम् अभावं यातु भावना । अमनस्त्वं मनो यातु तवासङ्गेन जीवतः
यां यां वस्तुदृशं यासि तस्यां तस्याम् अवस्थितम् । सत्तासामान्यरूपेण ब्रह्म बृंहितचिद्घनम्
अज्ञातात्मा निबद्धो ऽसि विज्ञातात्मा न बध्यसे । राम त्वं स्वात्मनात्मानं बोधयस्व बलाद् अतः
यत्र न स्वदते वस्तु स्वदते च यथागतम् । अवासनत्वं तद् विद्धि साम्यम् आकाशकोमलम्
वासनारहितैर् अन्तर् इन्द्रियैर् आहरन् क्रियाः । न विक्रियाम् अवाप्नोषि खवत् क्षोभशतैर् अपि
ज्ञाता ज्ञानं तथा ज्ञेयं त्रयम् एकतयात्मनि । शान्तात्मानुभवन् भव्य न भूयोभवभाग् असि
चित्तोन्मेषनिमेषाभ्यां संसारप्रलयोदयौ । वासनाप्राणसंरोधाद् अनुन्मेषं मनः कुरु
प्राणोन्मेषनिमेषाभ्यां संसृतेः प्रलयोदयौ । तम् अभ्यासप्रयोगाभ्याम् उन्मेषरहितं कुरु
मौर्ख्योन्मेषनिमेषाभ्यां कर्मणां प्रलयोदयौ । तद् विलीनं कुरु बलाद् गुरुशास्त्रार्थसङ्गमैः
यथा वातरजस्सङ्गस्पन्दात् स्तम्भाभ्रवेदनम् । तथा चिता चेत्यतया स्पन्दाद् इदम् उपस्थितम्
दृश्यदर्शनसम्बन्धस्पन्दजेयं जगद्गतिः । स्फुरत्य् आलोककुड्यादिसङ्गजा वर्णधीर् इव
दृश्यदर्शनसम्बन्धस्पन्दाभावे न जायते । वेदना भवदाभासा चित्रपुंसाम् इवाशये