अनुभवकलनाद् ऋते ऽस्य माता भवति न सर्वविकल्पनेषु सत्सु । फलदुरुविभवा प्रमाणमाला स्थितिम् उपयाति न वारिणीव वह्निः
यथापृष्टं मुने प्रोक्तं त्वयि कल्याणम् अस्तु ते । देशं प्रयामो ऽभिमतम् आगच्छोत्तिष्ठ पार्वति
इत्य् उक्त्वा नीलकण्ठो ऽसौ त्यक्तपुष्पाञ्जलौ मयि । ततार परिवारेण समम् अम्बरकोटरम्
तस्मिन् गते त्रिभुवनाधिपताव् उमेशे स्थित्वा क्षणं तदनु संस्मृतिपूर्वम् एव । अङ्गीकृतं नवपवित्रतया मयात्मदर्भासनं श्रमवतेव महाश्रुतं तत्
एतद् उक्तं परेशेन स्वयम् एव च वेद्म्य् अहम् । राम त्वम् अपि जानीषे यथेदं समवस्थितम्
यत्रालीकम् अलीकेन किलालीकं विलोक्यते । तस्यां संसारमायायां किं सत्यं किम् असन्मयम्
यथा येन विकल्पेन यद्विकल्पेन कल्प्यते । तथा तेनात्मकल्पेन न सताप्य् अनुभूयते
यथा द्रवत्वं पयसि यथा स्पन्दो नभस्वति । यथा नभसि शून्यत्वं तथा सर्गत्वम् आत्मनि
ततः प्रभृति तेनैव क्रमेणार्चनम् आत्मनः । अद्य यावद् गतव्यग्रः कुर्वन्न् अहम् अवस्थितः
अनेनार्चाविधानेन मयेमा राम वासनाः । अखिन्नेनातिवाह्यन्ते व्यवहारपरा अपि
यथाप्राप्तैः क्रियाचारकुसुमैर् आत्मनो ऽर्चनम् । व्युच्छिन्नम् अप्य् उच्छिन्नं मे न कदाचिद् अहर्निशम्
ग्राह्यग्राहकसम्बन्धे सामान्ये सर्वदेहिनाम् । योगिनस् सावधानत्वं यत् तद् अर्चनम् आत्मनः
दृष्ट्यानया रघुपते सङ्गमुक्तेन चेतसा । संसारे विपुलारण्ये विहरास्मिन् न खिद्यसे
दुःखे महति सम्प्राप्ते धनबन्धुवियोगजे । एतां दृष्टिम् अवष्टभ्य विचारं कुरु सुव्रत
सुखदुःखे न कर्तव्ये धनबन्धूदयक्षयैः । एवम्प्राया एव सर्वा नित्यं संसारदृष्टयः
जानासीव गतीश् चित्रा विषयाणां प्रमाथिनीः । यथा यान्ति यथायान्ति यथा परिभवन्ति च
एवम् एव प्रवर्तन्ते प्रेमाणि च धनानि च । एवम् एवावहीयन्ते निमित्तैर् अविचारितैः
न तास् तव न तासां त्वं निर्मलस् त्वं जगत्क्रियाः । इदम् इत्थं जगत् किञ्चित् किं मुधा परितप्यसे
त्वम् एवासि जगद्रूपं चिन्मात्रं वितताकृतिः । निजावयवकावृत्तौ कः क्रमो हर्षशोकयोः
चिदेकतानताम् एत्य सौषुप्तीम् आगतस् स्थितिम् । अद्यप्रभृति राम त्वं तुर्यावस्थात्मको भव
समस् समसमाभासो भास्वद्वपुर् उदारधीः । तिष्ठात्माचारतो नित्यं परिपूर्ण इवार्णवः
एतत् त्वं श्रुतवान् सर्वं स्थितस् त्वं परिपूर्णधीः । यदीच्छसीतरत् प्रष्टुं तत् पृच्छ रघुनन्दन
ब्रह्मणो ऽनन्तरूपस्य कुतो मलम् इति त्वया । यत् पृष्टं प्रथमे कल्पे तद् अद्य परिचोदय
इदानीं संशयो ब्रह्मन् विनिवृत्तो विशेषतः । ज्ञातं ज्ञातव्यम् अखिलं जाता तृप्तिर् अकृत्रिमा
नात्मनो ऽस्ति मलं द्वित्वं न चैक्यं न च कल्पना । तदा ममाभूद् अज्ञानं प्रशान्तम् अधुना तु तत्
कलङ्क आत्मनो ऽस्तीति ममाज्ञानवशेन या । आसीद् भ्रान्तिर् इदानीं सा निवृत्ता त्वत्प्रसादतः
न जायते न म्रियते न चैवात्मा कलङ्कितः । सर्वं च ब्रह्ममयम् इत्य् उदितः खलु चास्म्य् अहम्
प्रश्नेभ्यस् संशयेभ्यश् च वाञ्छितेभ्यश् च सर्वतः । शुद्धं मे निर्गतं चेतस् त्वष्टा यन्त्रभ्रमाद् इव
सर्वसारोपदेशेषु प्रायः प्रोक्तेषु साधुभिः । निराकाङ्क्षस् स्थितो ऽस्म्य् अन्तस् सुमेरुः कनकेष्व् इव
न तद् अस्त्य् अस्ति यत्राशा न तद् अस्ति यद् ईप्सितम् । न तद् अस्ति यद् आदेयं हेयं मध्यं च वा मम