सम्पद्यते यथाद्यो ऽसौ पुरुषस् सर्गकारकः । अनेनैव क्रमेणेह कीटस् सम्पद्यते क्षणात्
तस्थुषाम् एवम् एवेह जातयो हि चतुर्विधाः । रुद्राद्यास् तरुपर्यन्तास् सम्पद्यन्ते क्षणं प्रति
परमापरमास् सन्ति तथा केचिद् अणूपमाः । एष एव क्रमस् तेषां सति चासति सर्गके
अस्यास् संसारमायाया एवम्भूतार्थभावनात् । भेदोपशान्ताव् अभ्यासाद् भवत्य् उपशमश् शिवः
निमेषशतभागार्धमात्रम् एव परा चितिः । स्वरूपतश् चेल् लुठिता तद् एषोदेत्य् अवस्थितिः
सा ज्ञरूपा शिलाकोश इव चेत् स्वात्मनि स्थिता । तद् अनाद्यवभासात्मब्रह्मशब्देन गीयते
अस्मिन् प्रौढिं गते सर्गे महाचिच् चेतनं नवम् । सङ्गम् आगत्य दिग्देशकालांशपरमाणुना
जीवताम् आगता भूततन्मात्रवलनाक्रमात् । भवत्य् अगमृगीवीरुत्कीटदेवासुरादिकम्
यस्मिन् नित्ये तते तन्तौ दृढे स्रग् इव तिष्ठति । सदसद्ग्रथितं विश्वं विश्वाङ्गे विश्वकर्मणि
न तद् दूरे न निकटे नोर्ध्वे नाधो न ते न मे । न पूर्वं नाद्य न प्रातर् न सन् नासन् न मध्यगम्
अनुभवकलनाद् ऋते ऽस्य माता भवति न सर्वविकल्पनेषु सत्सु । फलदुरुविभवा प्रमाणमाला स्थितिम् उपयाति न वारिणीव वह्निः
यथापृष्टं मुने प्रोक्तं त्वयि कल्याणम् अस्तु ते । देशं प्रयामो ऽभिमतम् आगच्छोत्तिष्ठ पार्वति
इत्य् उक्त्वा नीलकण्ठो ऽसौ त्यक्तपुष्पाञ्जलौ मयि । ततार परिवारेण समम् अम्बरकोटरम्
तस्मिन् गते त्रिभुवनाधिपताव् उमेशे स्थित्वा क्षणं तदनु संस्मृतिपूर्वम् एव । अङ्गीकृतं नवपवित्रतया मयात्मदर्भासनं श्रमवतेव महाश्रुतं तत्
एतद् उक्तं परेशेन स्वयम् एव च वेद्म्य् अहम् । राम त्वम् अपि जानीषे यथेदं समवस्थितम्
यत्रालीकम् अलीकेन किलालीकं विलोक्यते । तस्यां संसारमायायां किं सत्यं किम् असन्मयम्
यथा येन विकल्पेन यद्विकल्पेन कल्प्यते । तथा तेनात्मकल्पेन न सताप्य् अनुभूयते
यथा द्रवत्वं पयसि यथा स्पन्दो नभस्वति । यथा नभसि शून्यत्वं तथा सर्गत्वम् आत्मनि
ततः प्रभृति तेनैव क्रमेणार्चनम् आत्मनः । अद्य यावद् गतव्यग्रः कुर्वन्न् अहम् अवस्थितः
अनेनार्चाविधानेन मयेमा राम वासनाः । अखिन्नेनातिवाह्यन्ते व्यवहारपरा अपि
यथाप्राप्तैः क्रियाचारकुसुमैर् आत्मनो ऽर्चनम् । व्युच्छिन्नम् अप्य् उच्छिन्नं मे न कदाचिद् अहर्निशम्
ग्राह्यग्राहकसम्बन्धे सामान्ये सर्वदेहिनाम् । योगिनस् सावधानत्वं यत् तद् अर्चनम् आत्मनः
दृष्ट्यानया रघुपते सङ्गमुक्तेन चेतसा । संसारे विपुलारण्ये विहरास्मिन् न खिद्यसे
दुःखे महति सम्प्राप्ते धनबन्धुवियोगजे । एतां दृष्टिम् अवष्टभ्य विचारं कुरु सुव्रत
सुखदुःखे न कर्तव्ये धनबन्धूदयक्षयैः । एवम्प्राया एव सर्वा नित्यं संसारदृष्टयः
जानासीव गतीश् चित्रा विषयाणां प्रमाथिनीः । यथा यान्ति यथायान्ति यथा परिभवन्ति च
एवम् एव प्रवर्तन्ते प्रेमाणि च धनानि च । एवम् एवावहीयन्ते निमित्तैर् अविचारितैः
न तास् तव न तासां त्वं निर्मलस् त्वं जगत्क्रियाः । इदम् इत्थं जगत् किञ्चित् किं मुधा परितप्यसे
त्वम् एवासि जगद्रूपं चिन्मात्रं वितताकृतिः । निजावयवकावृत्तौ कः क्रमो हर्षशोकयोः
चिदेकतानताम् एत्य सौषुप्तीम् आगतस् स्थितिम् । अद्यप्रभृति राम त्वं तुर्यावस्थात्मको भव