स्रष्टादिपुरुषस् त्व् एवं स्वयं सम्पद्यते हि यः । स निमेषं प्रति व्योम्नि समुदेत्य् अथ लीयते
निमेष एव कल्पौघमहाकल्पपरम्पराः । प्रतिभासविपर्यासमात्रेणानुभवत्य् अलम्
परमाणौ परमाणौ व्योम्नि व्योम्नि क्षणे क्षणे । सर्गकल्पमहाकल्पभावाभावा भवन्ति हि
दृश्यन्ते केचिद् अन्योऽन्यं साधर्म्यं वासनाशतैः । मिथः केचिन् न दृश्यन्ते केचित् पश्यन्ति नेतरम्
केचिन् नान्येन दृश्यन्ते दृष्टेनाप्य् असदात्मना । सर्गास् सर्गेण सर्वत्र सम्भवन्ति न ते शिवे
भवन्ति परमे व्योम्नि व्योमरूपा इति स्वयम् । स्वयं च सदसद्रूपा लीयन्ते स्वप्नशैलवत्
सर्गैर् न देश आक्रान्तो न च कालो न कर्तृता । न चैते सत्स्वरूपा वा न कल्पं नैव च क्षणम्
न चेदं जायते किञ्चिन् न च किञ्चन नश्यति । स्वचमत्काररूपेण चिच् चमत्कुरुते चिति
स्वप्नपत्तननिर्माणपातोत्पतनवज् जगत् । न देशकालाक्रमणं करोति मनसाम् अपि
यथा सङ्कल्पशैलेन देशकालाद्यनन्तकम् । आक्रान्तम् अपि नाक्रान्तं तथैव जगतासता
सम्पद्यते यथाद्यो ऽसौ पुरुषस् सर्गकारकः । अनेनैव क्रमेणेह कीटस् सम्पद्यते क्षणात्
तस्थुषाम् एवम् एवेह जातयो हि चतुर्विधाः । रुद्राद्यास् तरुपर्यन्तास् सम्पद्यन्ते क्षणं प्रति
परमापरमास् सन्ति तथा केचिद् अणूपमाः । एष एव क्रमस् तेषां सति चासति सर्गके
अस्यास् संसारमायाया एवम्भूतार्थभावनात् । भेदोपशान्ताव् अभ्यासाद् भवत्य् उपशमश् शिवः
निमेषशतभागार्धमात्रम् एव परा चितिः । स्वरूपतश् चेल् लुठिता तद् एषोदेत्य् अवस्थितिः
सा ज्ञरूपा शिलाकोश इव चेत् स्वात्मनि स्थिता । तद् अनाद्यवभासात्मब्रह्मशब्देन गीयते
अस्मिन् प्रौढिं गते सर्गे महाचिच् चेतनं नवम् । सङ्गम् आगत्य दिग्देशकालांशपरमाणुना
जीवताम् आगता भूततन्मात्रवलनाक्रमात् । भवत्य् अगमृगीवीरुत्कीटदेवासुरादिकम्
यस्मिन् नित्ये तते तन्तौ दृढे स्रग् इव तिष्ठति । सदसद्ग्रथितं विश्वं विश्वाङ्गे विश्वकर्मणि
न तद् दूरे न निकटे नोर्ध्वे नाधो न ते न मे । न पूर्वं नाद्य न प्रातर् न सन् नासन् न मध्यगम्
अनुभवकलनाद् ऋते ऽस्य माता भवति न सर्वविकल्पनेषु सत्सु । फलदुरुविभवा प्रमाणमाला स्थितिम् उपयाति न वारिणीव वह्निः
यथापृष्टं मुने प्रोक्तं त्वयि कल्याणम् अस्तु ते । देशं प्रयामो ऽभिमतम् आगच्छोत्तिष्ठ पार्वति
इत्य् उक्त्वा नीलकण्ठो ऽसौ त्यक्तपुष्पाञ्जलौ मयि । ततार परिवारेण समम् अम्बरकोटरम्
तस्मिन् गते त्रिभुवनाधिपताव् उमेशे स्थित्वा क्षणं तदनु संस्मृतिपूर्वम् एव । अङ्गीकृतं नवपवित्रतया मयात्मदर्भासनं श्रमवतेव महाश्रुतं तत्
एतद् उक्तं परेशेन स्वयम् एव च वेद्म्य् अहम् । राम त्वम् अपि जानीषे यथेदं समवस्थितम्
यत्रालीकम् अलीकेन किलालीकं विलोक्यते । तस्यां संसारमायायां किं सत्यं किम् असन्मयम्
यथा येन विकल्पेन यद्विकल्पेन कल्प्यते । तथा तेनात्मकल्पेन न सताप्य् अनुभूयते
यथा द्रवत्वं पयसि यथा स्पन्दो नभस्वति । यथा नभसि शून्यत्वं तथा सर्गत्वम् आत्मनि
ततः प्रभृति तेनैव क्रमेणार्चनम् आत्मनः । अद्य यावद् गतव्यग्रः कुर्वन्न् अहम् अवस्थितः
अनेनार्चाविधानेन मयेमा राम वासनाः । अखिन्नेनातिवाह्यन्ते व्यवहारपरा अपि