वातसत्ता स्पन्दसत्ता स्पर्शसत्ता तथैव च । त्वक्सत्ता तैजसी सत्ता तथा सत्ता प्रकाशिनी
दृक्सत्ता जलसत्ता च स्वादसत्ता तथापि च । तथैव रससत्ता च गन्धसत्ता तथैव च
भूसत्ता देहसत्ता च पिण्डसत्ता च पीवरी । देशसत्ता कालसत्ता सर्वास् त्व् आकारवर्जिताः
एवं सत्तागणं चेतः क्रोडीकृत्य खरूपधृत् । स्फुरत्य् आश्रितपत्त्रादि बीजवज् जीवतां गतम्
एतत् पुर्यष्टकं विद्धि देहो ऽयं चातिवाहिकः । अपराबोधम् एतत् तत् स्फुरत्य् अंशविभागवत्
एतद् यद् अङ्गसम्पन्नं सम्पन्नं तन् न किञ्चन । न जातं न च सद्रूपं न चिदादि न चेतरत्
परे परं प्रस्फुरति केवलं केवलात्म सत् । जलपीठस्य जठरे जलद्रवविलासवत्
संवित्संवेदनैकात्म पृथग् एतद् अचेतितम् । सम्पद्यते परिज्ञातं सङ्कल्पनगरोपमम्
संवेदनपरिज्ञानाच् छिवताम् एव गच्छति । अजातम् एव वा यत् तत् कथं गच्छति वस्तुताम्
अथैतद् विन्दते स्वान्तं सङ्कल्पाद् अणुतां स्वतः । तन्मात्रसत्तास् तस्याणोर् एताः पश्यन्ति देहकम्
अणुस्थूलत्वम् आपन्नं तद् एवाशु प्रपश्यति । तस्य तन्मात्ररन्ध्राणि यथादेशं च पश्यति
ततः पुरुषरूपैकभावनात् पुरुषाकृतिम् । काकतालीयवद् दृष्ट्वा तुष्टं पुष्टं भवत्य् अलम्
जीव एतदवस्थो ऽथ स्थितं पश्यति देहकम् । असन्तम् एव गन्धर्वपुरं स्वप्नपुरं यथा
गन्धर्वनगराकारम् अपि स्वप्नपुरोपमम् । जगद् दुःखाय दुःखस्य कात्र युक्तिः परिक्षये
वासनावशतो दुःखं विद्यमाने च सा भवेत् । अविद्यमानं च जगन् मृगतृष्णाम्बुभङ्गवत्
अतः किं वास्यते केन कस्य वा वासना कुतः । कथं स्वप्ननरेणाङ्ग मृगतृष्णाम्बु पीयते
सस्रष्टरि तु साहन्ते समनोमननादिके । अविद्यमाने जगति यत् सत् तत् परिशिष्यते
यत्र नो वासना नैव वासकं न च वास्यता । केवलं केवलीभावस् संशान्तसकलभ्रमः
यस्य सत्यो ऽप्य् असत्यो वा शून्य एव हि यक्षकः । विलीनस् तस्य कैवल्यात् किम् अन्यद् अवशिष्यते
शून्य एव हि वेताल इवेत्थं चित्तवासना । उदितेयं जगन्नाम्नी तच्छान्तौ शान्तिर् अक्षता
अहन्तायां जगति च मृगतृष्णाजले च यः । सास्थस् तं चिद्घनतरं नोपदेश्यस् त्व् असाव् इति
जीवं विवेकिनम् इहोपदिशन्ति तज्ज्ञा नो बालम् उद्भ्रमम् असन्मयम् आर्यमुक्तम् । अज्ञान् प्रशास्ति किल यः कनकावदातां स स्वप्नदृष्टपुरुषाय सुतां ददाति
ततस् स जीवो भगवन् दृष्टवान् देहसम्भ्रमम् । आदिसर्गे नभस्संस्थः काम् अवस्थाम् उपैति हि
परस्मात् परमे व्योम्नि पूर्वोक्तक्रमवद् वपुः । जीवः पश्यति सम्पन्नम् असत्स्वप्ननरो यथा
सर्वगत्वाच् चिद्घनस्य कार्यं स्वप्ननरो ऽपि हि । यथा करोत्य् आशु तथा जीवस्यापि शरीरदृक्
सनातनो ऽहम् अव्यक्तः पुमान् इत्य् अभिधास् ततः । करोत्य् आत्मनि तेनासौ प्रथमः कथितः पुमान्
एवं स सर्गे कस्मिंश्चित् प्रथमो ऽर्थस् सदाशिवः । कस्मिंश्चिद् विष्णुर् इत्य् उक्तो नाभ्युत्पन्नपितामहः
पितामहस् स कस्मिंश्चित् कस्मिंश्चिद् अपि चेतरः । स च सङ्कल्पपुरुषस् सङ्कल्पान् मूर्तिमान् स्थितः
पुष्टः प्रथमसङ्कल्पस् तां मनोमूर्तिम् आस्थितः । यद् यथा कल्पयत्य् आशु तत् तथानुभवत्य् अलम्
तत् त्व् असद्रूपम् अखिलं शून्ये वेतालको यथा । भ्रमदृष्ट्या तु सद्रूपम् इत्य् अहन्ताजगद्गतिः