कर्मबुद्धीन्द्रियाद्यन्तसुखदुःखादिसङ्क्षयः । शिव आत्मेति कथितस् तत् सद् इत्यादिनामभिः
यत्रेदम् अखिलं नास्ति तद्रूपेणैव चास्ति वा । तद् आकाशाद् अच्छतरम् अनन्तं सद् इहास्ति हि
अविश्रान्ततया तत्र तन्वविद्यैर् मुमुक्षुभिः । विचित्रशुद्धमननकलङ्ककलितात्मभिः
अदूर एव तिष्ठद्भिर् जीवन्मुक्तपदस्य तैः । मोक्षोपायकबोधाय शास्त्रार्थरचनाय च
ब्रह्मेन्द्ररुद्रप्रमुखैर् लोकपालैस् सपण्डितैः । पुराणवेदसिद्धान्तसिद्धये भावितात्मभिः
चिद् ब्रह्म शिव आत्मेशपरमात्मेश्वरादिकाः । एकस्मिन् कल्पितास् सञ्ज्ञा निस्सञ्ज्ञे पृथग् ईश्वरे
एवम् एतज् जगत्तत्त्वं स्वं तत्त्वं शिवनामकम् । सर्वथा सर्वदा सर्वेणार्चयन् सुखम् आस्स्व भोः
शिव आत्मा परं ब्रह्मेत्यादिशब्दे ऽस्ति भिन्नता । सवासनैर् विरचिता ज्ञस्य भेदो न वस्तुनि
एवं देवार्चनं कुर्वञ् ज्ञो नित्यं मुनिनायक । यत्रास्मदादयो भृत्यास् तत् प्रयाति परं पदम्
अविद्यमानम् एवेदं विद्यमानम् इव स्थितम् । यथा तन् मे समासेन भगवन् वक्तुम् अर्हसि
यो ऽसौ ब्रह्मादिशब्दार्थस् संविदं विद्धि केवलम् । स्वच्छम् आकाशम् अप्य् अस्यास् स्थूलं मेरुर् अणोर् इव
सा वेद्यम् अवगच्छन्ती याति चिन्नामयोग्यताम् । अप्य् अवेद्यवती नूनम् उन्मनान्तपदस्थिता
क्षणाद् भावितवेद्यत्वाद् अहन्ताम् अनुगच्छति । पुरुषत्वात् पुमान् स्वप्ने नववारणताम् इव
अस्या अहन्तां याताया देशताकालताखताः । सम्पद्यन्ते स्वयं शून्यरूपिण्यस् सख्य एव ताः
ताभिस् संवलिता साथ सत्ता जीवाभिधानका । भवति स्पन्दविज्ञाता पवनस्येव लेखिका
जीवशक्तिस् तथाभूता निश्चयैकविलासिनी । बुद्धिताम् अनुयाता सा भवत्य् अज्ञपदास्थिता
शब्दशक्त्या क्रियाशक्त्या ज्ञानशक्त्यानुगम्यते । प्रत्येकं प्रस्फुरत्य् अन्तर् अप्रदर्शितरूपया
मिलित्वैष गणः क्षिप्रं श्रुतिं समनुकल्पयन् । मनो भवति शून्यात्मबीजं सङ्कल्पशाखिनः
आतिवाहिकदेहोक्तिभाजनं तद् विदुर् बुधाः । अन्तस्स्थया ब्रह्मशक्त्या ज्ञरूपं स्वात्मनात्मदृक्
सम्पद्यमान एवास्मिंश् चेतसीमा हि शक्तयः । पश्चाद् इव सहैवास्य प्रोद्यन्त्य् अनुदिता अपि
वातसत्ता स्पन्दसत्ता स्पर्शसत्ता तथैव च । त्वक्सत्ता तैजसी सत्ता तथा सत्ता प्रकाशिनी
दृक्सत्ता जलसत्ता च स्वादसत्ता तथापि च । तथैव रससत्ता च गन्धसत्ता तथैव च
भूसत्ता देहसत्ता च पिण्डसत्ता च पीवरी । देशसत्ता कालसत्ता सर्वास् त्व् आकारवर्जिताः
एवं सत्तागणं चेतः क्रोडीकृत्य खरूपधृत् । स्फुरत्य् आश्रितपत्त्रादि बीजवज् जीवतां गतम्
एतत् पुर्यष्टकं विद्धि देहो ऽयं चातिवाहिकः । अपराबोधम् एतत् तत् स्फुरत्य् अंशविभागवत्
एतद् यद् अङ्गसम्पन्नं सम्पन्नं तन् न किञ्चन । न जातं न च सद्रूपं न चिदादि न चेतरत्
परे परं प्रस्फुरति केवलं केवलात्म सत् । जलपीठस्य जठरे जलद्रवविलासवत्
संवित्संवेदनैकात्म पृथग् एतद् अचेतितम् । सम्पद्यते परिज्ञातं सङ्कल्पनगरोपमम्
संवेदनपरिज्ञानाच् छिवताम् एव गच्छति । अजातम् एव वा यत् तत् कथं गच्छति वस्तुताम्
अथैतद् विन्दते स्वान्तं सङ्कल्पाद् अणुतां स्वतः । तन्मात्रसत्तास् तस्याणोर् एताः पश्यन्ति देहकम्