तदीयां दृष्टिम् उत्सृज्य तथेमाम् अवलम्ब्य च । समस् स्वस्थमनाश् शान्तो वीतरागो निरामयः
कार्योपहारैर् अभितो यथाप्राप्तैर् अखिन्नधीः । आत्मानम् अर्चयंस् तिष्ठ सुखदुःखशुभाशुभैः
अधिगतवति साधाव् एवम् एवाशु नूनं त्वयि तरलितजीवं जन्मदुःखादि किञ्चित् । न लगति परिशुद्धे सर्वतस् स्फाटिकाङ्गे नवसदन इवान्तर् निष्कलङ्के कलङ्कः
शिवः किम् उच्यते देव परं ब्रह्म किम् उच्यते । आत्मा किम् उच्यते वापि परमात्मा किम् उच्यते
तत् सत् किञ्चिन् नकिञ्चिच् च शून्यं विज्ञानम् एव च । इत्यादिभेदो भगवंस् त्रिलोकेश किम् उच्यते
अनाद्यन्तम् अनाभासं सत् किञ्चिद् इह विद्यते । इन्द्रियाणाम् अनाभासाद् यन् नकिञ्चिद् इव स्थितम्
यद् इन्द्रियाणां बुद्ध्यादियुक्तानाम् अप्य् अदृश्यताम् । गतं तत् कथम् ईशान वद केनावगम्यते
यो मुमुक्षुर् अविद्यांशः केवलं नाम सात्त्विकः । सात्त्विकैर् एव सो ऽविद्याभागैश् शास्त्रादिनामभिः
अविद्यां श्रेष्ठयाश्रेष्ठां क्षालयन्न् इह तिष्ठति । मलं मलेनापहरन् युक्तिज्ञो रजको यथा
काकतालीयवत् पश्चाद् अविद्याक्षय आगते । प्रपश्यत्य् आत्मनैवात्मा स्वभावस्यैष निश्चयः
यथा कथञ्चिद् अङ्गारं निघृष्य क्षालयञ् शिशुः । करनैर्मल्यम् आप्नोति कार्ष्ण्याङ्गारक्षये यथा
यथा कथञ्चिच् छास्त्राढ्यैर् भागैर् भागं विचारयन् । सात्त्विकैस् तामसं नाशाद् द्वयोर् आत्मोदयस् तथा
पश्यत्य् आत्मानम् आत्मैव विचारयति चात्मना । आत्मैवास्तीह नाविद्याविद्याविद्याक्षयं विदुः
यावत् किञ्चिद् इदं वस्तु नानेवात्मावगम्यते । क्रमा गुरूपदेशाद्या नात्मज्ञानस्य कारणम्
गुरुर् हीन्द्रियवृन्दात्मा ब्रह्म सर्वेन्द्रियक्षयात् । यद् वस्तु यत्क्षयप्राप्यं तत् तस्मिन् सति नाप्यते
अकारणा अपि प्राप्ता भृशं कारणतां द्विज । क्रमा गुरूपदेशाद्या आत्मज्ञानस्य सिद्धये
क्रमे गुरूपदेशानां प्रवृत्ते शिष्यबोधतः । अनिर्देश्यो ऽप्य् अदृश्यो ऽपि स्वयम् आत्मा प्रसीदति
शास्त्रार्थैर् बुध्यते नात्मा गुरोर् वाचा न चानघ । बुध्यते स्वयम् एवैष स्वबोधवशतस् स्वतः
गुरूपदेशशास्त्रार्थैर् विना चात्मा न बुध्यते । एतत्संयोगसत्तैव स्वात्मज्ञानप्रकाशिनी
गुरुशास्त्रार्थशिष्याणां चिरसंयोगसत्तया । अहनीव जनाचार आत्मज्ञानं प्रवर्तते
कर्मबुद्धीन्द्रियाद्यन्तसुखदुःखादिसङ्क्षयः । शिव आत्मेति कथितस् तत् सद् इत्यादिनामभिः
यत्रेदम् अखिलं नास्ति तद्रूपेणैव चास्ति वा । तद् आकाशाद् अच्छतरम् अनन्तं सद् इहास्ति हि
अविश्रान्ततया तत्र तन्वविद्यैर् मुमुक्षुभिः । विचित्रशुद्धमननकलङ्ककलितात्मभिः
अदूर एव तिष्ठद्भिर् जीवन्मुक्तपदस्य तैः । मोक्षोपायकबोधाय शास्त्रार्थरचनाय च
ब्रह्मेन्द्ररुद्रप्रमुखैर् लोकपालैस् सपण्डितैः । पुराणवेदसिद्धान्तसिद्धये भावितात्मभिः
चिद् ब्रह्म शिव आत्मेशपरमात्मेश्वरादिकाः । एकस्मिन् कल्पितास् सञ्ज्ञा निस्सञ्ज्ञे पृथग् ईश्वरे
एवम् एतज् जगत्तत्त्वं स्वं तत्त्वं शिवनामकम् । सर्वथा सर्वदा सर्वेणार्चयन् सुखम् आस्स्व भोः
शिव आत्मा परं ब्रह्मेत्यादिशब्दे ऽस्ति भिन्नता । सवासनैर् विरचिता ज्ञस्य भेदो न वस्तुनि
एवं देवार्चनं कुर्वञ् ज्ञो नित्यं मुनिनायक । यत्रास्मदादयो भृत्यास् तत् प्रयाति परं पदम्
अविद्यमानम् एवेदं विद्यमानम् इव स्थितम् । यथा तन् मे समासेन भगवन् वक्तुम् अर्हसि