समतामधुरा रम्या रसशक्तिर् मुनीन्द्र या । तया यद् भावितं चेत्यम् अमृतं तत् क्षणाद् भवेत्
समतामृतपूरेण यद् यन् नाम विभाव्यते । तत् तद् आयाति माधुर्यं परम् इन्दोर् इव च्युतम्
समम् आकाशवद् भूत्वा यद् अहृल्लेखम् आसनम् । अविकारम् अनायासं तद् देवार्चनम् उच्यते
पूर्णेन्दुनेव पूर्णेन भाव्यं शमसमत्विषा । स्वच्छेन चिद्घनैकेन ज्ञेनाप्य् उपलरूपिणा
अन्तर् आकाशविशदो बहिः प्रकृतकार्यकृत् । रञ्जनामिहिकामुक्तस् सम्पूर्णो ज्ञ उपासकः
स्वप्ने ऽप्य् अदृश्यहृल्लेखम् अज्ञानाभ्रपरिक्षये । शान्ताहन्तादिमिहिकं ज्ञशरद्व्योम राजते
सामान्यम् अस्तमितमानसमातृमेयं सद्यःप्रसूतशिशुवेदनवद्वितानम् । सम्यक्प्रशान्तमतिचेतनचित्तजीवं जीवञ् ज्ञ उत्तमपदस्थित एव तिष्ठ
देशकालकलनक्रमोदितैस् सर्ववस्तुसुखदुःखविभ्रमैः । नित्यम् अर्चितशरीरनायकस् तिष्ठ शान्तसकलेहया धिया
यथाकामं यथारम्भं न करोषि करोषि यत् । चिन्मात्रस्य शिवस्यान्तस् तद् देवार्चनम् आत्मनः
तेनैवाह्लादम् आयाति याति प्रकटतां तथा । तथास्थितेन रूपेण स्वेनैव स्वयम् ईश्वरः
रागद्वेषादिशब्दार्था नात्मन्य् अन्यतमाश् शिवे । सम्भवन्ति पृथग्रूपा वह्नौ हिमकणा इव
यद् यद् राजत्वदीनत्वसुखदुःखादिवेदनम् । आत्मीयं परकीयं च तत् तद् अर्चनम् आत्मनः
विद्धि संवित्तिम् एवार्चां वेत्त्य् आत्मात्मानम् एव च । घटाद्यात्मतया ब्रह्मन् स्वयम् आत्मतयैव वा
शिवं शान्तम् अनाभासम् एकं भासुरम् आततम् । जगत्प्रत्ययवत् सर्वम् आत्मरूपम् इदं स्थितम्
अहो नु चित्रम् आत्मैव घटाद्य् अन्यद् अवस्थितम् । जीवादिस् स्वस्थ एवान्तर् नूनं विस्मृतवान् इव
सर्वात्मकस्यानन्तस्य शिवस्यान्तः किलात्मनः । पूज्यपूजकपूजाख्यो विभ्रमः प्रोदितो वृथा
नियताकारशान्तत्वं न च सम्भवतीश्वरे । यतस् सङ्कल्प्यते ब्रह्मन् पूज्यपूजामयः क्रमः
पूज्यपूजाव्यवच्छिन्नो देवो ऽनित्यो ऽमलात्मनः । सर्वशक्तेर् अनन्तस्य नेश्वरत्वस्य भाजनम्
त्रिजगत्प्रसृताच्छाच्छसंविद्रूपस्य चात्मनः । नेश्वरत्वाद् ऋते ब्रह्मन् व्यपदेशो ऽपि युज्यते
देशकालपरिच्छिन्नो येषां स्यात् परमेश्वरः । अस्माकम् उपदेश्यास् ते न विपश्चिद् विपश्चितः
तदीयां दृष्टिम् उत्सृज्य तथेमाम् अवलम्ब्य च । समस् स्वस्थमनाश् शान्तो वीतरागो निरामयः
कार्योपहारैर् अभितो यथाप्राप्तैर् अखिन्नधीः । आत्मानम् अर्चयंस् तिष्ठ सुखदुःखशुभाशुभैः
अधिगतवति साधाव् एवम् एवाशु नूनं त्वयि तरलितजीवं जन्मदुःखादि किञ्चित् । न लगति परिशुद्धे सर्वतस् स्फाटिकाङ्गे नवसदन इवान्तर् निष्कलङ्के कलङ्कः
शिवः किम् उच्यते देव परं ब्रह्म किम् उच्यते । आत्मा किम् उच्यते वापि परमात्मा किम् उच्यते
तत् सत् किञ्चिन् नकिञ्चिच् च शून्यं विज्ञानम् एव च । इत्यादिभेदो भगवंस् त्रिलोकेश किम् उच्यते
अनाद्यन्तम् अनाभासं सत् किञ्चिद् इह विद्यते । इन्द्रियाणाम् अनाभासाद् यन् नकिञ्चिद् इव स्थितम्
यद् इन्द्रियाणां बुद्ध्यादियुक्तानाम् अप्य् अदृश्यताम् । गतं तत् कथम् ईशान वद केनावगम्यते
यो मुमुक्षुर् अविद्यांशः केवलं नाम सात्त्विकः । सात्त्विकैर् एव सो ऽविद्याभागैश् शास्त्रादिनामभिः
अविद्यां श्रेष्ठयाश्रेष्ठां क्षालयन्न् इह तिष्ठति । मलं मलेनापहरन् युक्तिज्ञो रजको यथा
काकतालीयवत् पश्चाद् अविद्याक्षय आगते । प्रपश्यत्य् आत्मनैवात्मा स्वभावस्यैष निश्चयः