भक्ष्यभोज्यान्नपानेन नानाविभवशालिना । शयनासनयानेन यथाप्तेनार्चयेच् चितिम्
कान्तान्नपानसम्भोगसंरम्भादिविलासिना । सुखेन सर्वरूपेण सम्बुध्यात्मानम् अर्चयेत्
आधिव्याधिपरीतेन मोहसंरम्भशालिना । सर्वोपद्रवदुःखेन प्राप्तेनात्मानम् अर्चयेत्
सीमान्तैस् सम्पदां चैव चेष्टानां जगतस् स्थितेः । मृतजीवितसत्त्वैश् च प्राप्तैर् आत्मानम् अर्चयेत्
दारिद्र्येणाथ राज्येन वा प्रवाहागतात्मना । विचित्रचेष्टापुष्पेण बुद्ध्वात्मानं समर्चयेत्
नानाकलहकल्लोलवलनोल्लासशालिना । रागद्वेषविलासेन सोम्यम् आत्मानम् अर्चयेत्
सतां हृदयहारिण्या रूढया शशिशीतया । मैत्र्या माधुर्यधर्मिण्या हृत्स्थम् आत्मानम् अर्चयेत्
भोगानाम् अविरुद्धानां निषिद्धानां च सर्वदा । त्यागेन वाथ रागेण स्वात्मानं बुद्धम् अर्चयेत्
ईहितानीहितौघेन युक्तायुक्तमयात्मना । त्यक्तेनार्तेन वार्थ्येन प्राप्तेनात्मानम् अर्चयेत्
नष्टं नष्टम् उपेक्षेत प्राप्तं प्राप्तम् उपाहरेत् । निर्विकारतयैतद् धि परमार्चनम् आत्मनः
सर्वदैव समग्रासु चेष्टानिष्टासु दृष्टिषु । परमं साम्यम् आदाय नित्यात्मार्चाव्रतं चरेत्
सर्वं विन्देत सुशुभं सर्वं विन्द्याच् च वाशुभम् । सर्वम् आत्ममयं कुर्यान् नित्यात्मार्चापरो नरः
आपातरमणीयं यद् यच् चापातसुदुस्सहम् । तत् सर्वं सुसमं बुद्ध्वा नित्यात्मार्चाव्रतं चरेत्
अयं सो ऽहम् अयं नाहं विभागम् इति सन्त्यजेत् । सर्वं ब्रह्मेति निश्चित्य नित्यात्मार्चाव्रतं चरेत्
सर्वदा सर्वरूपेण सर्वाकारविकारिणा । सर्वासर्वप्रकारेण प्राप्तेनात्मानम् अर्चयेत्
न वाञ्छता न त्यजता ज्ञेन प्राप्तास् स्वभावतः । सरितस् सागरेणेव भोक्तव्या भोगभूमयः
उद्वेगो नानुगन्तव्यस् तुच्छातुच्छासु दृष्टिषु । व्योम्ना चित्रपदार्थेषु पतितोत्पतितेष्व् इव
देशकालक्रियायोगाद् यद् उदेति शुभाशुभम् । अविकारं गृहीतेन तेनैवात्मानम् अर्चयेत्
आत्मार्चनविधाने ऽस्मिन् प्रोक्ता द्रव्यश्रियस् तु याः । एकेनैव शमेनैता रसेन परिभाविताः
नाम्ब्ला न कट्व्यो नो तिक्ता न कषायाश् च काश्चन । चित्रैर् अपि रसैर् दिग्धा मधुरा एव ताश् चितः
समतामधुरा रम्या रसशक्तिर् मुनीन्द्र या । तया यद् भावितं चेत्यम् अमृतं तत् क्षणाद् भवेत्
समतामृतपूरेण यद् यन् नाम विभाव्यते । तत् तद् आयाति माधुर्यं परम् इन्दोर् इव च्युतम्
समम् आकाशवद् भूत्वा यद् अहृल्लेखम् आसनम् । अविकारम् अनायासं तद् देवार्चनम् उच्यते
पूर्णेन्दुनेव पूर्णेन भाव्यं शमसमत्विषा । स्वच्छेन चिद्घनैकेन ज्ञेनाप्य् उपलरूपिणा
अन्तर् आकाशविशदो बहिः प्रकृतकार्यकृत् । रञ्जनामिहिकामुक्तस् सम्पूर्णो ज्ञ उपासकः
स्वप्ने ऽप्य् अदृश्यहृल्लेखम् अज्ञानाभ्रपरिक्षये । शान्ताहन्तादिमिहिकं ज्ञशरद्व्योम राजते
सामान्यम् अस्तमितमानसमातृमेयं सद्यःप्रसूतशिशुवेदनवद्वितानम् । सम्यक्प्रशान्तमतिचेतनचित्तजीवं जीवञ् ज्ञ उत्तमपदस्थित एव तिष्ठ
देशकालकलनक्रमोदितैस् सर्ववस्तुसुखदुःखविभ्रमैः । नित्यम् अर्चितशरीरनायकस् तिष्ठ शान्तसकलेहया धिया
यथाकामं यथारम्भं न करोषि करोषि यत् । चिन्मात्रस्य शिवस्यान्तस् तद् देवार्चनम् आत्मनः
तेनैवाह्लादम् आयाति याति प्रकटतां तथा । तथास्थितेन रूपेण स्वेनैव स्वयम् ईश्वरः