नित्यम् एव शरीरस्थम् इदं ध्यायेत् परं शिवम् । सर्वप्रत्ययकर्तारं स्वयम् आत्मानम् आत्मना
शयानम् उत्थितं चैव व्रजन्तम् अथ वा स्थितम् । स्पृशन्तम् अभितस् स्पर्शांस् त्यजन्तम् अथ वाभितः
भुञ्जानं सन्त्यजन्तं च भोगान् आभोगपीवरान् । बाह्यार्थगणकर्तारं सर्वकार्यस्वरूपदम्
देहलिङ्गेश्वरान्तस्स्थं त्यक्तलिङ्गान्तरादिकः । यथाप्राप्तार्थसंवित्त्या बोधलिङ्गं प्रपूजयेत्
प्रवाहापतितार्थस् तु सम्बोधस्नानशुद्धिमान् । नित्यावबोधार्हणया बोधलिङ्गं प्रपूजयेत्
आदित्यभावनाभोगभाविताम्बरभास्करम् । शशाङ्कभावनाभोगभावितेन्दुं सदोदितम्
प्रतिभातपदार्थौघनित्यावगतसंविदम् । द्वारैर् वहन्तं शारीरैर् मुखे प्राणस्वरूपिणम्
रसीकृतरसं प्राणस्वान्तोदात्ततुरङ्गमम् । प्राणापानरथारूढं गूढम् अन्तर्गुहाशयम्
ज्ञातारं ज्ञेयदृष्टीनां कर्तारं सर्वकर्मणाम् । भोक्तारं सर्वभोज्यानां स्मर्तारं सर्वसंविदाम्
सम्यक्संविदिताङ्गौघं भवभावनभावितम् । आभासभासनं भूरि सर्वगं चिन्तयेच् छिवम्
निष्कलं सकलं चैव देहस्थं व्योमचारिणम् । अरञ्जितं रञ्जितं च नित्यम् अङ्गाङ्गसंविदा
मनोमननशक्तिस्थं प्राणापानान्तरोदितम् । हृत्कण्ठतालुमध्यस्थं भ्रूनासापुटपीठगम्
षट्त्रिंशत्पदकोटिस्थम् उन्मनान्तदशातिगम् । कुर्वन्तम् अन्तश् शब्दादींश् चोदयन्तं मनःखगम्
विकल्पिन्य् अविकल्पे च त्रिविधे वाक्पथे स्थितम् । तिले तैलम् इवाङ्गेषु सर्वेष्व् एवान्तर् आश्रितम्
कलाकलङ्करहितं कलितं कलनागणैः । एकदेशे स्वहृत्पद्मे सर्वदेहे च संस्थितम्
चिन्मात्रम् अमलाभासं कलाकलनकल्पनम् । प्रत्यक्षदृश्यं सर्वत्र स्वानुभूतिमयात्मकम्
प्रत्यक्चेतनम् आत्मीयम् आत्मत्वेन पुरस्स्थितम् । पदार्थताम् उपेत्याशु क्षणाद् द्वित्वम् इवागतम्
सहस्तपादावयवस् सकेशनखदन्तकः । स्वदेहो ऽहं चिदाभासो देवो ऽयम् इति भावयेत्
विचित्राश् शक्तयो बह्व्यो नानाचारा मनोदृशाम् । उपासते मां मानस्यः पत्न्यो वरम् इवोत्तमम्
मनो मे द्वारपालो ऽयम् निवेदितजगत्त्रयः । चिन्तेयं मे प्रतीहारी पुरस्स्था शुद्धरूपिणी
शक्तिर् ममाङ्गगा बुद्धिः क्रिया चैवापराङ्गगा । ज्ञानानि च विचित्राणि भूषणान्य् अङ्गगानि मे
कर्मेन्द्रियाणि द्वाराणि बुद्धीन्द्रियगणो ऽङ्गनाः । अयं सो ऽहम् अनन्तात्मा व्यवच्छेदोज्झितश् चिति
तिष्ठामि भरितैकात्मा पूर्णस् सर्वावपूरकः । इति देवीम् उपाश्रित्य स्वच्छाम् आत्मचमत्कृतिम्
देववत् परिपूर्णो ऽन्तर् अदीनात्मा च तिष्ठति । नास्तम् एति न चोदेति न तुष्यति न तप्यते
न तृप्तिं न क्षुधं याति नाभिवाञ्छति नोज्झति । समस् समसमाचारस् समाभासस् समाकृतिः
सोम्यताम् अलम् आयातस् समन्तात् सुन्दराशयः । आदेहम् एक एवासाव् अव्युच्छिन्नमहामतिः
देवार्चनं करोत्य् एवं दीर्घदीर्घम् अहर्निशम् । चित्तत्त्वावलितो देहो देवो ऽस्य परिकीर्तितः
यथाप्राप्तेन सर्वेण तम् अर्चयति वस्तुना । समयामलया बुद्ध्या चिन्मात्रं देहतत्परम्
यथाप्राप्तक्रमोत्थेन सर्वार्थेन समर्चयेत् । मनाग् अपि न कर्तव्यो यत्नो ऽत्रापूर्ववस्तुनि
प्रातर् धर्मेहया नित्यं ततो ऽर्थक्रिययानघ । कामसंवेदनेनाथ पूजयेच् चेतनं विभुम्