सर्वत्र श्रवणाकीर्णं सर्वत्र मनसान्वितम् । सर्वतो मननातीतं सर्वत्र परमं शिवम्
सर्वदा सर्वकर्तारं सर्वसङ्कल्पितार्थदम् । सर्वभूतान्तरालस्थं सर्वं सर्वैकसाधनम्
इति सञ्चिन्त्य देवेशम् अर्चयेद् विधिवत् ततः । विधानम् अर्चनस्येदं शृणु ब्रह्मविदां वर
देवं स्वसंविदात्मानं नोपहारेण पूजयेत् । न दीपेन न धूपेन न पुष्पविभवार्पणैः
नान्नदानादिदानेन न चन्दनविलेपनैः । न च कुङ्कुमकर्पूरैर् भोगैश् चित्रैर् न चेतरैः
नित्यम् अक्लेशलभ्येन शीतलेनाविनाशिना । एकेनैवामृतेनैष बोधेन स्वेन पूज्यते
एतद् एव परं ध्यानं पूजैषैव परा स्मृता । यद् अनारतम् अन्तस्स्थशुद्धचिन्मात्रवेदनम्
पश्यञ् शृण्वन् स्पृशञ् जिघ्रन्न् अश्नन् गच्छन् स्वपञ् श्वसन् । प्रलपन् विसृजन् गृह्णञ् शुद्धसंविन्मयो भवेत्
ध्यानामृतेन सम्पूज्यस् स्वयम् आत्मायम् ईश्वरः । परमास्वादयुक्तेन मुक्तेन कुसुमेहितैः
ध्यानोपहार एवात्मध्यानं ह्य् अस्य समीहितम् । ध्यानम् अर्घ्यं च पाद्यं च शुद्धसंवेदनात्मकम्
ध्यानसंवेदनं पुष्पं धूपं दीपं परं विदुः । विना तेनेतरेणायम् आत्मा लभ्यत एव नो
ध्यानात् प्रसादम् आयातस् सर्वलोकसुखश्रियम् । अयम् आत्मा मुने भुङ्क्ते देहे भूपो गृहे यथा
ध्यानेनानेन सुमुने निमेषांस् तु त्रयोदश । पूर्णो ऽपि पूजयत्व् ईशं गोप्रदानं लभेत वै
पूजयित्वा निमेषाणां शतम् एकम् इति प्रभुम् । अश्वमेधस्य यज्ञस्य फलम् आप्नोति मानवः
ध्यानबल्युपहारेण स्वयम् आत्मानम् आत्मना । घटिकां पूजयेद् यस् तु राजसूयं लभेत सः
मध्याह्नपूजनाद् इत्थं राजसूयैकलक्षभाक् । दिवसं पूजयित्वैवं परे धाम्नि वसेन् नरः
एषो ऽसौ परमो योग एषा सा परमा क्रिया । बाह्यसम्पूजनं प्रोक्तम् एतद् उत्तमम् आत्मनः
एतत् पवित्रम् अखिलाघविनाशहेतुं यस् त्व् आचरिष्यति नरः क्षणम् अप्य् अखिन्नः । तं वन्दयिष्यति सुरासुरलोकपूगः प्राप्तास्पदं जगति माम् इव लोकसारम्
पावनं पावनानां यद् यत् सर्वतमसां क्षयः । तद् इदानीं प्रवक्ष्ये ऽहम् अन्तःपूजनम् आत्मनः
गच्छतस् तिष्ठतश् चैव जाग्रतस् स्वपतो ऽपि वा । सर्वाचारवतः पूजा नित्यध्यानात्मिका त्व् इयम्
नित्यम् एव शरीरस्थम् इदं ध्यायेत् परं शिवम् । सर्वप्रत्ययकर्तारं स्वयम् आत्मानम् आत्मना
शयानम् उत्थितं चैव व्रजन्तम् अथ वा स्थितम् । स्पृशन्तम् अभितस् स्पर्शांस् त्यजन्तम् अथ वाभितः
भुञ्जानं सन्त्यजन्तं च भोगान् आभोगपीवरान् । बाह्यार्थगणकर्तारं सर्वकार्यस्वरूपदम्
देहलिङ्गेश्वरान्तस्स्थं त्यक्तलिङ्गान्तरादिकः । यथाप्राप्तार्थसंवित्त्या बोधलिङ्गं प्रपूजयेत्
प्रवाहापतितार्थस् तु सम्बोधस्नानशुद्धिमान् । नित्यावबोधार्हणया बोधलिङ्गं प्रपूजयेत्
आदित्यभावनाभोगभाविताम्बरभास्करम् । शशाङ्कभावनाभोगभावितेन्दुं सदोदितम्
प्रतिभातपदार्थौघनित्यावगतसंविदम् । द्वारैर् वहन्तं शारीरैर् मुखे प्राणस्वरूपिणम्
रसीकृतरसं प्राणस्वान्तोदात्ततुरङ्गमम् । प्राणापानरथारूढं गूढम् अन्तर्गुहाशयम्
ज्ञातारं ज्ञेयदृष्टीनां कर्तारं सर्वकर्मणाम् । भोक्तारं सर्वभोज्यानां स्मर्तारं सर्वसंविदाम्
सम्यक्संविदिताङ्गौघं भवभावनभावितम् । आभासभासनं भूरि सर्वगं चिन्तयेच् छिवम्