सन्दृष्टादृष्टसन्ध्याभ्रविलोलकरपल्लवम् । अनारतरणल्लोललोकालङ्कारकोमलम्
भूरिभूतलपातालनभस्तलपदक्रमम् । मग्नोन्मग्नघनानीकताराघर्मकणोत्करम्
चन्द्रार्कमण्डलस्पन्दस्मितस्फुटनभोमुखम् । कम्पितानेकब्रह्माण्डकवाटकवितानकम्
लुठल्लोकान्तरव्यूहध्वनन्मुक्ताङ्कपल्लवम् । सुखदुःखदशादोषभावाभावरसान्तरम्
अस्मिन् विकारवलिते नियतेर् विलासे संसारनाम्नि चिरनाटकनाट्यसारे । साक्षी सदोदितवपुः परमेश्वरो ऽयम् एकस् स्थितो न च तया न च तेन भिन्नः
एष देवस् स परमः पूज्य एष सदा सताम् । चिन्मात्रम् अनुभूतात्मा सर्वगस् सर्वसंश्रयः
घटे पटे वटे कुड्ये शकटे वानरे स्थितः । शिवो हरो हरिर् ब्रह्मा शक्रो वैश्रवणो यमः
बहिर् अन्तश् च सर्वात्मा सदा स्वात्मा सुबुद्धिभिः । द्विविधेन क्रमेणैष भगवान् परिपूज्यते
बहिस् तावन् महाबुद्धे क्रमेण परिपूज्यते । येन तं शृणु तत्त्वज्ञ श्रोष्यस्य् अन्तःक्रमं ततः । पूजाक्रमेषु सर्वेषु नेह दार्भं पवित्रकम्
पूजनं ध्यानम् एवात्र ध्यानम् एवात्र पूजनम् । तस्मात् त्रिभुवनाधारे नित्यं ध्यानेन पूजयेत्
चिद्रूपं सूर्यलक्षाभं समस्ताभासभासनम् । अन्तस्स्थचित्प्रकाशं स्वम् अहन्तासारम् आश्रयेत्
अपारपरमाकाशविपुलाभोगकन्धरम् । अनन्ताधस्पदाकाशकोशपादसरोरुहम्
अनन्तदिक्तटाभोगभुजमण्डलमण्डितम् । नानाविधमहालोकगृहीतपरमायुधम्
हृत्कोशकोणविश्रान्तब्रह्माण्डौघपरम्परम् । प्रकाशपरमाकाशपारगापारविग्रहम्
ब्रह्मेन्द्रहरिरुद्रेशप्रमुखाम् अमरादिकाम् । इमां भूतश्रियं तस्य रोमालीं परिचिन्तयेत्
विविधारम्भकारिण्यस् त्रिजगद्यन्त्ररज्जवः । इच्छाद्याश् शक्तयस् सर्वाश् चिन्तनीयाश् शरीरगाः
अनन्तैकपदाधारस् सत्तामात्रैकविग्रहः । विवर्तितजगज्जालः कालो ऽस्य द्वारपालकः
सशैलभुवनाभोगम् इदं ब्रह्माण्डमण्डलम् । देहकोणे ऽस्य कस्मिंश्चित् स्वाङ्गावयवतां गतम्
विचिन्तयेन् महादेवं सहस्रचरणेक्षणम् । सहस्रशिरसं शान्तं सहस्रभुजभूषणम्
सर्वत्रेक्षणशक्त्याढ्यं सर्वतो घ्राणशक्तिगम् । सर्वत्र स्पर्शनमयं सर्वतो रसनान्वितम्
सर्वत्र श्रवणाकीर्णं सर्वत्र मनसान्वितम् । सर्वतो मननातीतं सर्वत्र परमं शिवम्
सर्वदा सर्वकर्तारं सर्वसङ्कल्पितार्थदम् । सर्वभूतान्तरालस्थं सर्वं सर्वैकसाधनम्
इति सञ्चिन्त्य देवेशम् अर्चयेद् विधिवत् ततः । विधानम् अर्चनस्येदं शृणु ब्रह्मविदां वर
देवं स्वसंविदात्मानं नोपहारेण पूजयेत् । न दीपेन न धूपेन न पुष्पविभवार्पणैः
नान्नदानादिदानेन न चन्दनविलेपनैः । न च कुङ्कुमकर्पूरैर् भोगैश् चित्रैर् न चेतरैः
नित्यम् अक्लेशलभ्येन शीतलेनाविनाशिना । एकेनैवामृतेनैष बोधेन स्वेन पूज्यते
एतद् एव परं ध्यानं पूजैषैव परा स्मृता । यद् अनारतम् अन्तस्स्थशुद्धचिन्मात्रवेदनम्
पश्यञ् शृण्वन् स्पृशञ् जिघ्रन्न् अश्नन् गच्छन् स्वपञ् श्वसन् । प्रलपन् विसृजन् गृह्णञ् शुद्धसंविन्मयो भवेत्
ध्यानामृतेन सम्पूज्यस् स्वयम् आत्मायम् ईश्वरः । परमास्वादयुक्तेन मुक्तेन कुसुमेहितैः
ध्यानोपहार एवात्मध्यानं ह्य् अस्य समीहितम् । ध्यानम् अर्घ्यं च पाद्यं च शुद्धसंवेदनात्मकम्