शिवशक्त्याख्ययैको ऽपि बहुवद् भासते स्वतः । सर्वशक्त्यात्मनैकेन शिवेनैव शिवात्मसु । अर्थेष्व् अर्थितया सत्सु साक्षिवत् कल्पितात्मसु
एता जगति नृत्यन्ति ब्रह्माण्डे नृत्तमण्डपे । कालेन नर्तकेनेव क्रमेण परिशिक्षिताः
या सा परम्परैतासाम् एषा नियतिर् उच्यते । क्रिया प्रकृतिर् इच्छा सा कालेत्यादिकृताभिधा
आमहारुद्रपर्यन्तम् इदम् इत्थम् इति स्थितेः । आतृणं पद्मजस्पन्दनियमान् नियतिस् स्मृता
नियतिर् नित्यम् उद्वेगवर्जिता परमोर्जिता । एषा नृत्यति खे नित्यं जगज्जालकनाटकम्
नानारसविलासाढ्यं विवर्ताभिनयान्वितम् । कल्पक्षणहतानेकपुष्करावर्तघर्घरम्
सर्वर्तुकुसुमाकीर्णधरागोलकमन्दिरम् । भूयो भूयः पतद्वर्षभूरिस्वेदजलोत्करम्
पयोदपल्लवालोलनीलाम्बरकृतभ्रमम् । पूर्णसंशुष्कसप्ताब्धिरत्नाढ्यवलयाकुलम्
यामापक्ष्मदिनप्रेक्षाकटाक्षाशारिताम्बरम् । मज्जनोन्मज्जनव्यग्रकुलाद्रिकुलशेखरम्
भ्रमच्छशिमणिप्रोतगङ्गामुक्तालतात्रयम् । चतुर्दशविधानन्तभूतरोमनतोन्नतम्
सन्दृष्टादृष्टसन्ध्याभ्रविलोलकरपल्लवम् । अनारतरणल्लोललोकालङ्कारकोमलम्
भूरिभूतलपातालनभस्तलपदक्रमम् । मग्नोन्मग्नघनानीकताराघर्मकणोत्करम्
चन्द्रार्कमण्डलस्पन्दस्मितस्फुटनभोमुखम् । कम्पितानेकब्रह्माण्डकवाटकवितानकम्
लुठल्लोकान्तरव्यूहध्वनन्मुक्ताङ्कपल्लवम् । सुखदुःखदशादोषभावाभावरसान्तरम्
अस्मिन् विकारवलिते नियतेर् विलासे संसारनाम्नि चिरनाटकनाट्यसारे । साक्षी सदोदितवपुः परमेश्वरो ऽयम् एकस् स्थितो न च तया न च तेन भिन्नः
एष देवस् स परमः पूज्य एष सदा सताम् । चिन्मात्रम् अनुभूतात्मा सर्वगस् सर्वसंश्रयः
घटे पटे वटे कुड्ये शकटे वानरे स्थितः । शिवो हरो हरिर् ब्रह्मा शक्रो वैश्रवणो यमः
बहिर् अन्तश् च सर्वात्मा सदा स्वात्मा सुबुद्धिभिः । द्विविधेन क्रमेणैष भगवान् परिपूज्यते
बहिस् तावन् महाबुद्धे क्रमेण परिपूज्यते । येन तं शृणु तत्त्वज्ञ श्रोष्यस्य् अन्तःक्रमं ततः । पूजाक्रमेषु सर्वेषु नेह दार्भं पवित्रकम्
पूजनं ध्यानम् एवात्र ध्यानम् एवात्र पूजनम् । तस्मात् त्रिभुवनाधारे नित्यं ध्यानेन पूजयेत्
चिद्रूपं सूर्यलक्षाभं समस्ताभासभासनम् । अन्तस्स्थचित्प्रकाशं स्वम् अहन्तासारम् आश्रयेत्
अपारपरमाकाशविपुलाभोगकन्धरम् । अनन्ताधस्पदाकाशकोशपादसरोरुहम्
अनन्तदिक्तटाभोगभुजमण्डलमण्डितम् । नानाविधमहालोकगृहीतपरमायुधम्
हृत्कोशकोणविश्रान्तब्रह्माण्डौघपरम्परम् । प्रकाशपरमाकाशपारगापारविग्रहम्
ब्रह्मेन्द्रहरिरुद्रेशप्रमुखाम् अमरादिकाम् । इमां भूतश्रियं तस्य रोमालीं परिचिन्तयेत्
विविधारम्भकारिण्यस् त्रिजगद्यन्त्ररज्जवः । इच्छाद्याश् शक्तयस् सर्वाश् चिन्तनीयाश् शरीरगाः
अनन्तैकपदाधारस् सत्तामात्रैकविग्रहः । विवर्तितजगज्जालः कालो ऽस्य द्वारपालकः
सशैलभुवनाभोगम् इदं ब्रह्माण्डमण्डलम् । देहकोणे ऽस्य कस्मिंश्चित् स्वाङ्गावयवतां गतम्
विचिन्तयेन् महादेवं सहस्रचरणेक्षणम् । सहस्रशिरसं शान्तं सहस्रभुजभूषणम्
सर्वत्रेक्षणशक्त्याढ्यं सर्वतो घ्राणशक्तिगम् । सर्वत्र स्पर्शनमयं सर्वतो रसनान्वितम्