प्राणात् प्रियतरं दृष्ट्वा तुष्टिम् एति न तां जनः । याम् आयाति जनं शान्तम् अवलोक्य समाशयम्
समया शमशालिन्या वृत्त्या यस् साधु वर्तते । अभिनन्दितया लोके जीवतीह स नेतरः
अनुद्धतमनाश् शान्तस् साधु कर्म करोति यत् । तत् सर्वम् अभिनन्दन्ति तस्येमा भूतजातयः
श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा शुभाशुभम् । न हृष्यति ग्लायति यस् स शान्त इति कथ्यते
यस् समस् सर्वभावेषु नाभिवाञ्छति नोज्झति । जित्वेन्द्रियाणि यत्नेन स शान्त इति कथ्यते
तुषारकरबिम्बाच्छं मनो यस्य निराकुलम् । मरणोत्सवयुद्धेषु स शान्त इति कथ्यते
स्थितो ऽपि न स्थित इव न हृष्यति न कुप्यति । यस् सुषुप्तमनास् स्वस्थस् स शान्त इति कथ्यते
अमृतस्यन्दसुभगा यस्य सर्वजनं प्रति । दृष्टिः प्रसरति प्रीता स शान्त इति कथ्यते
स्पष्टावदातया बुद्ध्या यथैवान्तस् तथा बहिः । दृश्यन्ते यस्य कार्याणि स शान्त इति कथ्यते
अप्य् आपत्सु दुरन्तासु कल्पान्तेषु दहत्स्व् अपि । तुच्छेहं न मनो यस्य स शान्त इति कथ्यते
अन्तश्शीतलतां यातो यो भावेषु न मज्जति । व्यवहारी न सम्मूढस् स शान्त इति कथ्यते
आकाशसदृशी यस्य नित्यं स्वव्यवहारिणः । कलङ्कम् एति न मतिस् स शान्त इति कथ्यते
तपस्विषु बहुज्ञेषु याजकेषु नृपेषु च । बलवत्सु गुणाढ्येषु शमवान् एव राजते
शमसंसक्तमनसां महतां गुणशालिनाम् । उदेति निर्वृतिश् चित्ताज् ज्योत्स्नेव हिमरोचिषः
सीमान्तो गुणपूगानां पौरुषैकान्तभूषणम् । सङ्कटेष्व् अभयस्थानं शमश् श्रीमान् विराजते
शमम् अमृतम् अहार्यम् आर्यजुष्टं परम् अवलम्ब्य पदं परं प्रयाताः । रघुतनय यथा महानुभावाः क्रमम् अनुपालय सिद्धये तम् एव
शास्त्रावबोधामलया धिया परमपूतया । कर्तव्यः कारणज्ञेन विचारो नियतात्मना
विचारात् तीक्ष्णताम् एत्य धीः पश्यति परं पदम् । दीर्घसंसाररोगस्य विचारो हि महौषधम्
आपद्वनम् अनन्तेहापरिपल्लविताकृति । विचारक्रकचच्छिन्नं नैव भूयः प्ररोहति
मोहेषु बन्धुनाशेषु सङ्कटेषु भ्रमेषु च । सर्वेष्व् एव महाप्राज्ञ विचारो हि सतां गतिः
न विचारं विना कश्चिद् उपायो ऽस्ति विपच्छमे । विचाराद् अशुभं त्यक्त्वा शुभम् आयाति धीस् सताम्
बलं बुद्धिश् च तेजश् च प्रतिपत्तिः क्रियाफलम् । फलन्त्य् एतानि सर्वाणि विचारेणैव धीमतः
युक्तायुक्तमहादीपम् अभिवाञ्छितसाधकम् । स्फारं विचारम् आश्रित्य संसारजलधिं तरेत्
आलूनहृदयाम्भोजं महामोहमतङ्गजम् । विदारयति शुद्धात्मा विचारोदारकेसरी
मूढाः कालवशेनेह यद् गताः परमं पदम् । तद् विचारप्रदीपस्य विजृम्भितम् अनुत्तमम्
राज्यानि सम्पदस् स्फारो भोगो मोक्षश् च शाश्वतः । विचारकल्पवृक्षस्य फलान्य् एतानि राघव
या विवेकविलासिन्यो मतयो महताम् इह । न ता विपदि मज्जन्ति तुम्बकानीव वारिणि
विचारोदयहारिण्या धिया व्यवहरन्ति ये । फलानाम् अत्युदाराणां भाजनं हि भवन्ति ते
मूर्खहृत्काननस्थानाम् आशाप्रसररोधिनाम् । अविचारकरञ्जानां मञ्जर्यो दुःखरीतयः
कज्जलक्षोदमलिना मदिरामोदधर्मिणी । अविचारमयी निद्रा यातु ते राघव क्षयम्