पत्त्रान्तरालगहनेन विलासवत्या हेलाविलोलघनगर्जितया मलेन । मल्लेन मल्लपदमालितमालवानां लक्ष्मीलताविवलिता वलितेव पुष्टिः
इत्यादिकापि शब्दानाम् अर्थश्रीस् सत्यरूपिणी । तस्मिन् सर्वेश्वरे सर्वसत्तामणिसमुद्गके
का नाम विमला भासस् तस्मिन् परमचिन्मणौ । न कचन्ति विचिन्वन्ति विचित्राणि जगन्ति याः
एषा बीजकणान्तस्स्था चित्सत्ता स्ववपुर्मयम् । बुद्ध्वा मृत्कालवार्यादि करोत्य् अङ्कुरचोदनम्
फेनावर्तविवर्तान्तर्वर्तिनी रसरूपिणी । कचितेन्द्रियसम्बन्धे करोति स्पन्दम् अम्भसाम्
एषा कुसुमगुच्छेषु गन्धरूपेण संस्थिता । कचन्ती घ्राणरन्ध्रेषु करोति परिफुल्लनम्
शिलाङ्गस्था शिलाङ्गत्वं नयन्ती सत्यतापदम् । सर्गाधारदशां धत्ते गिरीन्द्रस्थितिलीलया
पवनस्पन्दकोशात्मरूपिणी च त्वगिन्द्रियम् । संसाधयत्य् आत्मसुतं पितेवात्मपराजयात्
अशेषसारसम्पिण्डम् अप्य् आत्मानं खसिद्धये । भावयित्वा नकिञ्चित्त्वम् इव खत्वं करोत्य् अलम्
स्वसत्ताप्रतिबिम्बाभम् आकाशमकुरोदरे । धत्ते कल्पनिमेषाङ्कं कालाख्यम् अमलं वपुः
आमहापञ्चमेशानपरिणामम् अनामया । इदम् इत्थम् इदं नेति नियतिर् भवति स्वयम्
साक्षिणि स्फार आभासे ध्रुवे दीप इव क्रियाः । सत्य् एतस्मिन् प्रकाशन्ते जगच्चित्रपरम्पराः
परमाकाशनगरनाट्यमण्डपभूमिषु । स्वशक्तिनृत्तं संसारं पश्यन्ती साक्षिवत् स्थिता
शिवस्यास्य जगन्नाथ शक्तयस् ताः कथं स्थिताः । साक्षिता काथ किं तासां नृत्तं स्यात् कियद् एव वा
स्वभावाचलशान्तस्य शिवस्य परमात्मनः । सोम्य चिन्मात्ररूपस्य सर्वस्यानाकृतेर् अपि
इच्छासत्ता व्योमसत्ता कालसत्ता तथैव च । तथा नियतिसत्ता च महासत्ता च सुव्रत
ज्ञानशक्तिः क्रियाशक्तिः कर्तृताकर्तृतापि च । इत्यादिकानां शक्तीनाम् अन्तो नास्ति शिवात्मनि
शक्तयः कुत एतास् ता बहुत्वं कथम् आसु च । उदयश् च कथं देव भेदाभेदश् च कीदृशः
शिवस्यानन्तरूपस्य यैषा चिन्मात्रतात्मनः । एषा हि शक्तिर् इत्य् उक्ता नास्माद् भिन्ना मनाग् अपि
ज्ञत्वकर्तृत्वभोक्तृत्वसाक्षित्वादिविभावनात् । शक्तयो विविधं रूपं धारयन्ति बहूदयम्
शिवशक्त्याख्ययैको ऽपि बहुवद् भासते स्वतः । सर्वशक्त्यात्मनैकेन शिवेनैव शिवात्मसु । अर्थेष्व् अर्थितया सत्सु साक्षिवत् कल्पितात्मसु
एता जगति नृत्यन्ति ब्रह्माण्डे नृत्तमण्डपे । कालेन नर्तकेनेव क्रमेण परिशिक्षिताः
या सा परम्परैतासाम् एषा नियतिर् उच्यते । क्रिया प्रकृतिर् इच्छा सा कालेत्यादिकृताभिधा
आमहारुद्रपर्यन्तम् इदम् इत्थम् इति स्थितेः । आतृणं पद्मजस्पन्दनियमान् नियतिस् स्मृता
नियतिर् नित्यम् उद्वेगवर्जिता परमोर्जिता । एषा नृत्यति खे नित्यं जगज्जालकनाटकम्
नानारसविलासाढ्यं विवर्ताभिनयान्वितम् । कल्पक्षणहतानेकपुष्करावर्तघर्घरम्
सर्वर्तुकुसुमाकीर्णधरागोलकमन्दिरम् । भूयो भूयः पतद्वर्षभूरिस्वेदजलोत्करम्
पयोदपल्लवालोलनीलाम्बरकृतभ्रमम् । पूर्णसंशुष्कसप्ताब्धिरत्नाढ्यवलयाकुलम्
यामापक्ष्मदिनप्रेक्षाकटाक्षाशारिताम्बरम् । मज्जनोन्मज्जनव्यग्रकुलाद्रिकुलशेखरम्
भ्रमच्छशिमणिप्रोतगङ्गामुक्तालतात्रयम् । चतुर्दशविधानन्तभूतरोमनतोन्नतम्