एवम् आत्मानम् आलोक्य जराशोकभयापहम् । सम्भृष्टबीजवज् जन्तुर् न भूयः परिरोहति
सकलजन्तुषु जन्तुपदप्रदं विदितम् आद्यम् उपास्य यतव्रत । त्वम् अजम् आत्ममयं परमं पदं भवसि किं परिमज्जसि दृष्टिषु
ततं चिद्रूपम् एवैकं सर्वसत्तान्तरस्थितम् । स्वानुभूतिमयं शुद्धं देवं रुद्रेश्वरा विदुः
बीजं समस्तबीजानां सारं संसारसंसृतेः । कर्मणां परमं कर्म चिद्धातुं विद्धि निर्मलम्
कारणं कारणौघानाम् अकारणम् अनाबिलम् । भावनं भावनांशानाम् अभाव्यम् अभवात्मकं
चेतनं चेतनौघानां चेतनात्मनि चेतितम् । अचेत्यचेतनं चेत्यं परमं भूरिभासनम्
आलोकालोकम् अमलम् अनालोक्यम् अलोकजम् । अबीजं जीवबीजौघं चिद्घनं विमलं विदुः
असत्यं सन्मयं शान्तं सत्यासत्यविवर्जितम् । महासत्तादिसन्तानं चिन्मात्रं विद्धि नेतरत्
स्वयं भवति रागात्मा रञ्जको रञ्जनं रजः । स्वयम् आकाशम् अप्य् आशु कुड्यं भवति मण्डितम्
अस्मिंश् चित्तेजसि स्फारे जगन्मरुमरीचयः । स्फुरिताः प्रस्फुरिष्यन्ति प्रस्फुरन्ति च कोटिशः
स्वसत्तामात्रसम्पन्नम् इदम् अस्मिन् स्वतेजसि । न किञ्चिद् अपि सम्पन्नम् अन्यद् औष्ण्याद् इवानले
गर्भीकृतमहामेरुं परमाणुम् अमुं विदुः
गर्भीकृतमहाकल्पो निमेषो ऽयम् उदाहृतः । आक्रान्तकल्पेनानेन न सन्त्यक्ता निमेषता
वालाग्रकाद् अप्य् अणुना व्याप्तानेनाखिला मही । सप्ताब्धिवलयाप्य् उर्वी नास्यान्तम् अधिगच्छति
अकुर्वन्न् एव संसाररचनां कर्तृतां गतः । कुर्वन्न् एव महाकर्म न करोत्य् एव किञ्चन
द्रव्यम् अप्य् एव निर्द्रव्यो निर्द्रव्यो ऽपि हि द्रव्यवत् । अकायो ऽपि महाकायो महाकायो ऽप्य् अकायवान्
अद्याप्य् एष सदा प्रातः प्रातर् अप्य् अद्यतां गतः । न चायम् अद्य न प्रातस् त्व् अद्य प्रातश् च वा सदा
हुण्डुभिल्लिघले मत्तशुलुपिण्ठिलिसालघे । वेल्लिघिल्लिसलावोललासगुग्गुलुसुस्सुनी
इत्याद्य् अनर्थकं वाक्यं तथा सत्यं स एव च । न तद् अस्ति न यत् स स्यान् न तद् अस्ति न यत् त्व् असौ
यस्मै सर्वं यतस् सर्वं यस् सर्वं सर्वतश् च यः । यश् च सर्वमयो नित्यं तस्मै सर्वात्मने नमः
पत्त्रान्तरालगहनेन विलासवत्या हेलाविलोलघनगर्जितया मलेन । मल्लेन मल्लपदमालितमालवानां लक्ष्मीलताविवलिता वलितेव पुष्टिः
इत्यादिकापि शब्दानाम् अर्थश्रीस् सत्यरूपिणी । तस्मिन् सर्वेश्वरे सर्वसत्तामणिसमुद्गके
का नाम विमला भासस् तस्मिन् परमचिन्मणौ । न कचन्ति विचिन्वन्ति विचित्राणि जगन्ति याः
एषा बीजकणान्तस्स्था चित्सत्ता स्ववपुर्मयम् । बुद्ध्वा मृत्कालवार्यादि करोत्य् अङ्कुरचोदनम्
फेनावर्तविवर्तान्तर्वर्तिनी रसरूपिणी । कचितेन्द्रियसम्बन्धे करोति स्पन्दम् अम्भसाम्
एषा कुसुमगुच्छेषु गन्धरूपेण संस्थिता । कचन्ती घ्राणरन्ध्रेषु करोति परिफुल्लनम्
शिलाङ्गस्था शिलाङ्गत्वं नयन्ती सत्यतापदम् । सर्गाधारदशां धत्ते गिरीन्द्रस्थितिलीलया
पवनस्पन्दकोशात्मरूपिणी च त्वगिन्द्रियम् । संसाधयत्य् आत्मसुतं पितेवात्मपराजयात्
अशेषसारसम्पिण्डम् अप्य् आत्मानं खसिद्धये । भावयित्वा नकिञ्चित्त्वम् इव खत्वं करोत्य् अलम्
स्वसत्ताप्रतिबिम्बाभम् आकाशमकुरोदरे । धत्ते कल्पनिमेषाङ्कं कालाख्यम् अमलं वपुः