महाचितस् समुल्लासात् समुद्यन्तीव केचन । ये नाम ते जगत्य् एते ब्रह्मविष्णुहरादयः । कणास् तप्तायस इव वारिधेर् इव बिन्दवः
तेष्व् ईषद्भ्रमभूतेषु जातेष्व् इव परात् पदात् । स्थितेषु भ्रमबीजेषु कल्पनाजालकर्तृषु
सहस्रशतशाखेयम् अविद्योदेति पीवरी । वेदवेदार्थदेवादिजीवजालजटावती
ततस् त्व् अस्या अनन्तायाः प्रसृतायाः पुनः पुनः । सम्पन्नदेशकालायाः क्षमस् स्याद् वर्णनासु कः
ब्रह्मविष्णुहरादीनां मतो यः परमः पिता । मूलबीजं महादेवः पल्लवानाम् इव द्रुमः
स ब्रह्मतत्त्वाद्यभिधस् सर्वसंवेदनैककृत् । सर्वसत्ताप्रदो भास्वान् वन्द्यो ऽभ्यर्च्यश् च तद्विदाम्
प्रत्यक्षवस्तुविषयस् सर्वत्रैव सदोदितः । संवेदनात्मकतया गतया सर्वगोचरम्
न तस्याह्वानमन्त्रादि किञ्चिद् एवोपयुज्यते । नित्याहूतस् स सर्वस्थो लभ्यते सर्वतस् स्वचित्
यां यां वस्तुदशां यासि तत एव मुने शिवम् । स्वरूपं समवाप्नोषि रूपालोकमनोदृशा
आद्यं पूज्यं नमस्कार्यं स्तुत्यम् अर्घ्यं सुरेश्वरम् । एनं तं विद्धि वेद्यानां सीमान्तं महताम् अपि
एवम् आत्मानम् आलोक्य जराशोकभयापहम् । सम्भृष्टबीजवज् जन्तुर् न भूयः परिरोहति
सकलजन्तुषु जन्तुपदप्रदं विदितम् आद्यम् उपास्य यतव्रत । त्वम् अजम् आत्ममयं परमं पदं भवसि किं परिमज्जसि दृष्टिषु
ततं चिद्रूपम् एवैकं सर्वसत्तान्तरस्थितम् । स्वानुभूतिमयं शुद्धं देवं रुद्रेश्वरा विदुः
बीजं समस्तबीजानां सारं संसारसंसृतेः । कर्मणां परमं कर्म चिद्धातुं विद्धि निर्मलम्
कारणं कारणौघानाम् अकारणम् अनाबिलम् । भावनं भावनांशानाम् अभाव्यम् अभवात्मकं
चेतनं चेतनौघानां चेतनात्मनि चेतितम् । अचेत्यचेतनं चेत्यं परमं भूरिभासनम्
आलोकालोकम् अमलम् अनालोक्यम् अलोकजम् । अबीजं जीवबीजौघं चिद्घनं विमलं विदुः
असत्यं सन्मयं शान्तं सत्यासत्यविवर्जितम् । महासत्तादिसन्तानं चिन्मात्रं विद्धि नेतरत्
स्वयं भवति रागात्मा रञ्जको रञ्जनं रजः । स्वयम् आकाशम् अप्य् आशु कुड्यं भवति मण्डितम्
अस्मिंश् चित्तेजसि स्फारे जगन्मरुमरीचयः । स्फुरिताः प्रस्फुरिष्यन्ति प्रस्फुरन्ति च कोटिशः
स्वसत्तामात्रसम्पन्नम् इदम् अस्मिन् स्वतेजसि । न किञ्चिद् अपि सम्पन्नम् अन्यद् औष्ण्याद् इवानले
गर्भीकृतमहामेरुं परमाणुम् अमुं विदुः
गर्भीकृतमहाकल्पो निमेषो ऽयम् उदाहृतः । आक्रान्तकल्पेनानेन न सन्त्यक्ता निमेषता
वालाग्रकाद् अप्य् अणुना व्याप्तानेनाखिला मही । सप्ताब्धिवलयाप्य् उर्वी नास्यान्तम् अधिगच्छति
अकुर्वन्न् एव संसाररचनां कर्तृतां गतः । कुर्वन्न् एव महाकर्म न करोत्य् एव किञ्चन
द्रव्यम् अप्य् एव निर्द्रव्यो निर्द्रव्यो ऽपि हि द्रव्यवत् । अकायो ऽपि महाकायो महाकायो ऽप्य् अकायवान्
अद्याप्य् एष सदा प्रातः प्रातर् अप्य् अद्यतां गतः । न चायम् अद्य न प्रातस् त्व् अद्य प्रातश् च वा सदा
हुण्डुभिल्लिघले मत्तशुलुपिण्ठिलिसालघे । वेल्लिघिल्लिसलावोललासगुग्गुलुसुस्सुनी
इत्याद्य् अनर्थकं वाक्यं तथा सत्यं स एव च । न तद् अस्ति न यत् स स्यान् न तद् अस्ति न यत् त्व् असौ
यस्मै सर्वं यतस् सर्वं यस् सर्वं सर्वतश् च यः । यश् च सर्वमयो नित्यं तस्मै सर्वात्मने नमः