इत्य् उक्तवान् अमलदृक् परिणामतो ऽस्मिन् स्फारे पदे समुपशान्तरवाभिरामः । तूष्णीम् अतिष्ठद् अमुना मुनिना च सार्धं संशान्तवृत्तिर् अथ तत्र मुहूर्तम् ईशः
ततो मुहूर्तेन हरो गौरीकमलिनीसरः । मद्विकासोन्मुखस् स्वैरं विकासं बहिर् आददे
दृक्त्रयं दर्शयाम् आस मुखात् कालवशोदितम् । रोदस्समुद्गकाद् अर्करत्नराशिम् इवोदितम्
अकालद्वादशादित्यदिनतेजस् स संहरन् । निशाम् अनाशयंश् चेषद् ईशो माम् आह मानितम्
मुने मननम् आहूय स्वसत्तैवाशु मीयताम् । त्वम् अर्थम् आहराहार्यं पवनस् स्पन्दताम् इव
द्रष्टव्यम् इह यत् किञ्चित् तद् दृष्टं किं शमभ्रमैः । न हि हेयम् उपादेयं वेह पश्यामि तद्विदः
शान्त्यशान्तिमयान् एतान् विकल्पान् गलितान् असि । विबुद्धवान् यथास्थित्या त्वं त्वम् एव भवात्मदृक्
इमां दृश्यदशाम् आशु बालबोधाय वा पुनः । समाश्रित्य मदुक्तं त्वं शृणु तूष्णींस्थितेन किम्
इत्य् उक्त्वा बाह्यबोधस्थं माम् अवेक्ष्य त्रिशूलधृत् । कुर्वन् प्राहरद् अज्योत्स्नासरसीन्दुं सितोत्पलम्
औदासीन्येन देहानां चित् स्वस्पन्देषु कारणम् । तदात्मनाम् अतत्त्वानां शून्यं खम् इव भूरुहाम्
चिता सञ्चेत्यते देहो न तु सञ्चाल्यते क्वचित् । प्रभुर् द्रष्टैव भवति कर्ता भवति कर्मकृत्
प्राणेनेदं देहगेहं परिस्फुरति यन्त्रवत् । प्राणहीनं परिस्पन्दं त्यक्त्वा तिष्ठति मूकवत्
चालनी पावनी शक्तिश् शक्तिस् संवेदनी चितेः । सामूर्ता खाद् अपि स्वच्छा स्वसत्तैवात्र कारणम्
विनश्यतः प्राणदेहौ वियोगात्मक एव च । चिदात्मा खाद् अपि स्वच्छो न विनश्यति किं भ्रमैः
मनःप्राणमये देहे चित्तत्त्वं परिराजते । मकुरे चामलाभासे प्रतिबिम्बं प्रवर्तते
सद् अप्य् अग्रगतं वस्तु प्रतिबिम्बक्रियां प्रति । यथा नास्ति मलोपेते मकुरे मुनिनायक
तथा नास्ति गतप्राणे विद्यमाने ऽपि देहके । सर्वगापि चिद् अन्यूना बोधस्पन्दादिकं प्रति
बोधात् कलङ्कविकला चिद् एव परमा शिवम् । विदुर् देवं तदभ्यासं सर्वसत्तार्थदं तथा
स हरिस् स शिवस् सो ऽजस् स ब्रह्मा स सुरेश्वरः । अनिलानलचन्द्रार्कवपुस् स परमेश्वरः
स एव सर्वगात्मात्मा चित् संविच् चेतनस् स्मृतः । देवेशो देहभृद् धाता देवदेवो दिवस्पतिः
महाचितस् समुल्लासात् समुद्यन्तीव केचन । ये नाम ते जगत्य् एते ब्रह्मविष्णुहरादयः । कणास् तप्तायस इव वारिधेर् इव बिन्दवः
तेष्व् ईषद्भ्रमभूतेषु जातेष्व् इव परात् पदात् । स्थितेषु भ्रमबीजेषु कल्पनाजालकर्तृषु
सहस्रशतशाखेयम् अविद्योदेति पीवरी । वेदवेदार्थदेवादिजीवजालजटावती
ततस् त्व् अस्या अनन्तायाः प्रसृतायाः पुनः पुनः । सम्पन्नदेशकालायाः क्षमस् स्याद् वर्णनासु कः
ब्रह्मविष्णुहरादीनां मतो यः परमः पिता । मूलबीजं महादेवः पल्लवानाम् इव द्रुमः
स ब्रह्मतत्त्वाद्यभिधस् सर्वसंवेदनैककृत् । सर्वसत्ताप्रदो भास्वान् वन्द्यो ऽभ्यर्च्यश् च तद्विदाम्
प्रत्यक्षवस्तुविषयस् सर्वत्रैव सदोदितः । संवेदनात्मकतया गतया सर्वगोचरम्
न तस्याह्वानमन्त्रादि किञ्चिद् एवोपयुज्यते । नित्याहूतस् स सर्वस्थो लभ्यते सर्वतस् स्वचित्
यां यां वस्तुदशां यासि तत एव मुने शिवम् । स्वरूपं समवाप्नोषि रूपालोकमनोदृशा
आद्यं पूज्यं नमस्कार्यं स्तुत्यम् अर्घ्यं सुरेश्वरम् । एनं तं विद्धि वेद्यानां सीमान्तं महताम् अपि