शुद्धा निरंशा सत्यैका सत्ता चेत्येवमादिभिः । विमुक्ता नामशब्दार्थैस् सर्वैस् सर्वात्मिकापि खम्
सर्वं निरुपमं शान्तं मनसो ऽन्ते त्रिमार्गगम् । ब्रह्मेदं बृंहितं ब्राह्म्या शक्त्याकाशनिकाशया
मनसा मनसि च्छिन्ने सर्वाक्षप्रसवात्मनि । द्वितीये ऽथ तृतीये वा पदे किम् अवशिष्यते
यावत् किलात्मनस् सत्ता महासत्तैव तावती । समस्तास्तमये जाते सत्ता केव कुतश् च का
मनसा मनसि च्छिन्ने स्वेन्द्रियावयवात्मनि । विचारेण समाधानात् प्रयोगेण जयेन वा
द्वैतैक्यकलनाभेदे गलिते कलितात्मनि । सत्यालोके जगज्जाले प्रोच्छूने विलयं गते
शिष्यते शीर्णसंसारकलनाकलनात्मिका । भृष्टबीजोपमा सत्ता जीवस्य चितिनामिका
पश्यन्तीनामकलिता त्यजन्ती चेत्यचर्वणम् । मनोमहाभ्रनिर्मुक्तशरदाकाशकोशवत्
शुद्धा चिद् भावमात्रस्था चेत्यचिच्चापलाद् गता । अदूरविप्रकृष्टेशा पदोपनतिपावनी
चिद् व्योमात्मेति कलिता गलिताखिलकल्पना । समस्तसामान्यवती नावतीर्णभवार्णवा
अपुनर्बोधसौषुप्तपदपाण्डित्यपीवरी । पारम् आसाद्य विश्रान्ता चिरश्रान्ता तते पदे
एतत् ते मनसि क्षीणे कथितं प्रथमं पदम् । द्वितीयं शृणु विप्रेन्द्र शक्तेर् अस्यास् सुपावनम्
एषैव मननोन्मुक्ता चिच्छक्तिश् शान्तिशालिनी । सर्वज्योतिस्तमोमुक्तवितताकाशसुन्दरी
घनसौषुप्तलेखावच्छिलान्तस्सन्निवेशवत् । सैन्धवान्तस्स्थरसवद् वातान्तस्स्पन्दशक्तिवत्
कालेनायाति तत्रैव परां परिणतिं यदा । शब्दशक्तिर् इवाकाशे परमाकाशगा तदा
चेत्यांशोन्मुखतां नूनं त्यजन्त्य् अम्ब्व् इव चापलम् । वातलेखेव चलनं पुष्पलेखेव सौरभम्
कालताकाशते त्यक्त्वा सकले चापले ऽमला । न जडां नाजडां स्फारां धत्ते सत्ताम् अनामिकाम्
दिक्कालाद्यनवच्छिन्नां महासत्तापदाद् गताम् । तुर्यतुर्यांशकलिताम् अकलङ्काम् अनामयाम्
काञ्चिद् एव विशालाक्षसाक्षिवत् समवस्थिताम् । सर्वतस् सर्वदा सर्वप्रकारास्वादतत्पराम्
एषा द्वितीया पदता कथिता तव सुव्रत । तृतीयं शृणु वक्ष्यामि पदं पदविदां वर
एषा दृक् चेत्यगलनाद् अनामार्थपदं गता । ब्रह्मात्मत्वादिशब्दार्थाद् अतीतोदेति केवलम्
स्थैर्येण कालतस् स्वाच्छ्यान् निष्कलङ्कपदात्मना । तुर्यातीतादिनामत्वाद् अपि याति परं पदम्
सा परात् परमा काष्ठा प्रधानं शिवभावतः । नित्यैका निरवच्छेद्या तृतीया पावनी स्थितिः
चिरम् अस्यां प्रतिष्ठायां सर्वाशाध्वानदूरगा । सा ममाप्य् अङ्ग वचसां न समायाति गोचरम्
त्रिमार्गकलनातीतम् इति ते कथितं मुने । तिष्ठैतस्मिन् पदे नित्यम् इति देवस् सनातनः
एतन्मयम् इदं विश्वं मुने तन्मयवेदनात् । सत्यसंवेदनान् नेदं न च नेदं मुनीश्वर
नेदं प्रवर्तते किञ्चिन् नेदं किञ्चित् निवर्तते । शान्तं समसमाभासम् अखम् एव खकोशवत्
अद्वैतैक्याद् असङ्क्षोभाद् घनाघनतया तथा । अविकारादिमत्त्वाच् च नित्यानित्यतया चिरम्
चिद्घनात्मतया शैलकोशानां जगताम् अपि । मनाग् अपि न भेदो ऽस्ति सताम् अप्य् असताम् इव
समस्तं सच् छिवं शान्तम् अतीतं वाग्विलासतः । ॐ इत्य् अस्य च तन्मात्रात् तुर्यांशात् परम् ॐ इति