प्रतिभाससमुत्थानं प्रतिभासपरिक्षयम् । यथा गन्धर्वनगरं तथा संसृतिविभ्रमः
प्राकृतो ऽस्मीति विस्मृत्या तावच् छोचति भूमिपः । भूमिपो ऽस्मीति सञ्जाता यावन् नास्य हृदि स्मृतिः
नश्यते जातया ब्रह्मन् प्राक्स्मृतिर् वर्तमानया । शरदेवोपगतया प्रावृड् जाड्यविकारिणी
घनप्रवाहा यैव स्याच् चित्तेहा सैव वर्धते । य एवोच्चैस् स्वरस् तन्त्र्यास् स एवाक्रामति श्रुतिम्
अहम् एको ऽहम् आत्मा त्व् इत्य् एकां भावय भावनाम् । तया भावनया युक्तस् स एव त्वं भवस्य् अलम्
एवं ह्य् असम्भवद् इदं त्व् अविभागभास्वद् ब्रह्मत्वम् उत्तमपदं परम् एव देवः । पूजांशपूजनसुपूजकपूज्यरूपं किञ्चिन् नकिञ्चिद् इव चित्तपनैकमूर्तिः
इत्थं स्थितम् इदं विश्वं सदसद् देवरूपि च । द्वैतैक्यपदनिर्मुक्तं मुक्तद्वैतैक्यम् अप्य् उत
चितेः कलङ्कवद् रूपम् इति संसारितां गतम् । अकलङ्कम् असंसारि तच् चाभिन्नं द्वयात्मकम्
इयम् अस्मीति सम्प्राप्तकलङ्का चिन् निबध्यते । एताम् एव कलां बुद्ध्वा स्वत्वाभिन्नां विमुच्यते
चिद् अर्थाकारताभावाद् द्वित्वात् सत्त्वं समुज्झती । सुखदुःखादितां धत्ते नसत्यां सद् इति क्षणात्
शुद्धा निरंशा सत्यैका सत्ता चेत्येवमादिभिः । विमुक्ता नामशब्दार्थैस् सर्वैस् सर्वात्मिकापि खम्
सर्वं निरुपमं शान्तं मनसो ऽन्ते त्रिमार्गगम् । ब्रह्मेदं बृंहितं ब्राह्म्या शक्त्याकाशनिकाशया
मनसा मनसि च्छिन्ने सर्वाक्षप्रसवात्मनि । द्वितीये ऽथ तृतीये वा पदे किम् अवशिष्यते
यावत् किलात्मनस् सत्ता महासत्तैव तावती । समस्तास्तमये जाते सत्ता केव कुतश् च का
मनसा मनसि च्छिन्ने स्वेन्द्रियावयवात्मनि । विचारेण समाधानात् प्रयोगेण जयेन वा
द्वैतैक्यकलनाभेदे गलिते कलितात्मनि । सत्यालोके जगज्जाले प्रोच्छूने विलयं गते
शिष्यते शीर्णसंसारकलनाकलनात्मिका । भृष्टबीजोपमा सत्ता जीवस्य चितिनामिका
पश्यन्तीनामकलिता त्यजन्ती चेत्यचर्वणम् । मनोमहाभ्रनिर्मुक्तशरदाकाशकोशवत्
शुद्धा चिद् भावमात्रस्था चेत्यचिच्चापलाद् गता । अदूरविप्रकृष्टेशा पदोपनतिपावनी
चिद् व्योमात्मेति कलिता गलिताखिलकल्पना । समस्तसामान्यवती नावतीर्णभवार्णवा
अपुनर्बोधसौषुप्तपदपाण्डित्यपीवरी । पारम् आसाद्य विश्रान्ता चिरश्रान्ता तते पदे
एतत् ते मनसि क्षीणे कथितं प्रथमं पदम् । द्वितीयं शृणु विप्रेन्द्र शक्तेर् अस्यास् सुपावनम्
एषैव मननोन्मुक्ता चिच्छक्तिश् शान्तिशालिनी । सर्वज्योतिस्तमोमुक्तवितताकाशसुन्दरी
घनसौषुप्तलेखावच्छिलान्तस्सन्निवेशवत् । सैन्धवान्तस्स्थरसवद् वातान्तस्स्पन्दशक्तिवत्
कालेनायाति तत्रैव परां परिणतिं यदा । शब्दशक्तिर् इवाकाशे परमाकाशगा तदा
चेत्यांशोन्मुखतां नूनं त्यजन्त्य् अम्ब्व् इव चापलम् । वातलेखेव चलनं पुष्पलेखेव सौरभम्
कालताकाशते त्यक्त्वा सकले चापले ऽमला । न जडां नाजडां स्फारां धत्ते सत्ताम् अनामिकाम्
दिक्कालाद्यनवच्छिन्नां महासत्तापदाद् गताम् । तुर्यतुर्यांशकलिताम् अकलङ्काम् अनामयाम्
काञ्चिद् एव विशालाक्षसाक्षिवत् समवस्थिताम् । सर्वतस् सर्वदा सर्वप्रकारास्वादतत्पराम्
एषा द्वितीया पदता कथिता तव सुव्रत । तृतीयं शृणु वक्ष्यामि पदं पदविदां वर