देशकालक्रियासत्तानियत्याद्याश् च शक्तयः । चिदात्मिका एव चितेस् सत्त्वात् सम्पतितास् स्वतः
चिच् च चर्चितचेत्येह चिद् ब्रह्माद्यभिधा स्मृता । यथा वीच्यभिधार्हत्वे स्थितम् अम्बु तरङ्गितम्
अहम्भावतरङ्गस्य चिद्विलासमहाम्बुधेः । तरङ्गितत्वम् इव यन् न तावच् चेत्यतां गतम्
तद् एतत् परमं ब्रह्म सत्येश्वरशिवादिभिः । शून्यैकपरमात्मादिनामभिः परिगीयते
एवंरूपपदातीतं यद् रूपं परमात्मनः । तन् न नामार्हम् अमलं विषयो न गिरां च तत्
यद् इदं दृश्यते तस्यास् तल् लताया महाचितेः । फलपल्लवपुष्पादि न भिन्नं तन्मयं यतः
महाचिच्चेत्यचयनाच् चिद् भवत्य् अभिधावती । सा जीवत्वं स बाह्यत्वं तद् अद्वि द्वीव पश्यति
स्वयम् अन्येयम् अस्मीति भावयित्वा स्वभावतः । अन्यताम् इव संयाति स्वसङ्कल्पात्मिकां स्वताम्
अकलङ्केन रूपेण रूपं यत् स्वकलङ्कवत् । संसारपतितं प्राप्य चेतनेनैव चेतितम्
चिद्वपुस् स्वयम् एवैतद् एकतो याति जीवताम् । चित्तत्त्वस्यावभासेन जीवो जीवति तन्मयः
आतिवाहिकदेहा चिज् जीवतां समुपागता । भावनात् पञ्चकीभूता द्रव्यम् अस्मीति वेत्त्य् अलम्
तद् द्रव्यं प्राणिना भुक्तम् आशु गच्छति वीर्यताम् । ततो ऽहं प्राणवाञ् जातो वेत्तीत्य् अनुभवात्मकम्
अहन्तादिक्रमेणाशु पञ्चकानुभवक्रमात् । स्थावरं जङ्गमं यद् यद् वेत्ति तत् तद् भवत्य् अलम्
काकतालीययोगेन दृढाभ्यासक्षयेण च । वासनान्तरसंश्लेषात् पूर्वम् आकारम् उज्झति
द्वित्वस्वसंविदा द्वित्वम् एकस्यैव प्रवर्तते । पुंसो वेतालसम्पर्काद् वेताल इव भासुरः
अद्वित्ववेदनाद् द्वित्वम् आत्मनो विनिवर्तते । न करोमीति सङ्कल्पात् पुरुषस्येव कर्तृता
परमार्थतया द्वित्वं न किलात्मनि विद्यते । अविकारादिमत्त्वेन सर्वगत्वेन सर्वदा
यत् स्वसङ्कल्परचितम् असङ्कल्पक्षयं हि तत् । यथा मुने मनोराज्यं गन्धर्वनगरं यथा
सङ्कल्परचनं क्लेशो न सङ्कल्पविनाशनम् । सङ्कल्पयत्नो गन्धर्वपुर्यास् सृष्टौ न तु क्षये
पुष्टसङ्कल्पमात्रेण यद् इदं दुःखम् आगतम् । तद् असङ्कल्पमात्रेण क्षयि कात्र कदर्थना
यत् किञ्चिद् अपि सङ्कल्प्य नरो दुःखे निमज्जति । न किञ्चिद् अपि सङ्कल्प्य सुखम् अक्षयम् अश्नुते
सङ्कल्पव्यालनिर्मुक्तं स्थितं चेत् तव चेतनम् । तदानन्दवनोद्याने त्वम् उच्चैः परिराजसे
स्वविवेकानिलैः कृत्वा सङ्कल्पजलदक्षयम् । परां निर्मलताम् एहि शरदीव नभोऽन्तरम्
सङ्कल्पसरितं मत्तां मतियन्त्रेण शोषयन् । तत्रोह्यमानम् आत्मानं समाश्वास्य भवामनाः
सङ्कल्पानिलनिर्धूतं भ्रान्तं पर्णतृणांशवत् । भूताकाशे त्वम् आत्मानम् अवलम्ब्यावलोकय
स्वसङ्कल्पककालुष्यं विनिवार्यात्मनात्मनः । परं प्रसादम् आसाद्य परमानन्दवान् भव
सर्वशक्तितयेहात्मा यद् यथा भावयत्य् अलम् । तत् तथा पश्यति तदा स्वसङ्कल्पविजृम्भितम्
सङ्कल्पमात्रम् एवेदं जगन् मिथ्या समुत्थितम् । असङ्कल्पनमात्रेण ब्रह्मन् क्वापि विलीयते
सङ्कल्पवातवलितं जन्मज्वालाकदम्बकम् । असङ्कल्पानिलस्पर्शाद् दीपवत् परिशाम्यति
तृष्णाकरञ्जलतिकाम् इमां रूढिम् उपागताम् । सङ्कल्पमूलोद्धरणात् परिशोषवतीं कुरु