स्वभाववशतो जीवो विस्मृत्याशक्तिम् ऋच्छति । वैरस्यात् कालवशतः पर्णं जर्जरताम् इव
जीवशक्त्यापरामृष्टे निरुद्धे पद्मयन्त्रके । प्राणे संरोधम् आयाते म्रियते मानवो मुने
यथा जातानि जातानि तान्य् अथान्यानि कालतः । वृक्षात् पर्णानि शीर्यन्ते शरीराणि तथा नृणाम्
जायन्ते च म्रियन्ते च शरीराणि शरीरिणाम् । पादपानां च पर्णानि का तत्र परिदेवना
चिदम्बुधौ स्फुरन्त्य् एता देहबुद्बुदपङ्क्तयः । इतश् चान्या इतश् चान्या एतास्व् आस्था न धीमतः
सर्वगापि चिद् एतस्मिंश् चेतसि प्रतिबिम्बते । पदार्थम् अन्तर् आदत्ते नान्यो हि मकुराद् ऋते
चिदमलनभसि प्रसन्नरूपाः परिवितते तदतन्मये स्फुरन्ति । कलकलमुखरास् स्फुटाभिरामा विविधशरीरविमोहतापनद्यः
चन्द्रार्धशेखरधर चित्तत्त्वस्य महात्मनः । अनन्तस्यैकरूपस्य द्वित्वं कथम् इवागतम्
कथं च तन् महादेव रूढं सत् कालपर्ययात् । भवेद् दुःखोपघाताय प्रज्ञया विनिवारितम्
सर्वशक्तिर् हि चिद् ब्रह्म सद् एकं विद्यते यदा । तदा निर्मूल एवायं द्वित्वैकत्वलयोदयः
सति द्वित्वे किलैकं स्यात् सत्य् एकत्वे द्विरूपता । कले द्वे एव चिद्रूपं चिद्रूपत्वात् तद् अप्य् असत्
एकाभावाद् अभावो ऽत्र चैकत्वद्वित्वयोर् द्वयोः । एकं विना द्वितीयं न न द्वितीयं विनैकता
कार्यकारणयोर् एकसारत्वाद् एकरूपता । फलान्तस्यापि बीजादेर् विकारादि हि कल्पना
चित्त्वं चेत्यविकल्पेन स्वयं स्फुरति तन्मयम् । विकारादि तद् एवातस् तत्सारत्वान् न भिद्यते
विकारादिविकल्पो ऽयं तत उत्थाय वस्तुषु । याति सार्थकताम् नानाकार्यकारणकादिभिः
तरङ्गस् सलिले ऽतोयम् अतो ऽयं यस्य ते स नः । शशशृङ्गसमस् सो ऽपि यस्य सत्यं स खाङ्कुरः
वस्तुबोधे ऽत्र सम्पन्ने तवालं वाग्विकल्पितैः । व्यवच्छेदादि दुश्छेदं वचो वाक्त्वात् किल द्विज
ब्रह्मणस् सर्वशक्तित्वं तत्त्वतो न विभिद्यते । स्वम् अङ्ग कणकल्लोलजालाद्य् अम्बुधिवारिणः
पुष्पपल्लवपत्त्रादि लताया नेतरद् यथा । द्वित्वैकत्वे जगत्त्वादि त्वत्ताहन्त्वं तथा चितेः
देशकालविकारादिभेदश् चिद्रचितस् तु यत् । तच् चिद् एवेति ते प्रोक्तं न प्रश्नो ऽत्र तवोचितः
देशकालक्रियासत्तानियत्याद्याश् च शक्तयः । चिदात्मिका एव चितेस् सत्त्वात् सम्पतितास् स्वतः
चिच् च चर्चितचेत्येह चिद् ब्रह्माद्यभिधा स्मृता । यथा वीच्यभिधार्हत्वे स्थितम् अम्बु तरङ्गितम्
अहम्भावतरङ्गस्य चिद्विलासमहाम्बुधेः । तरङ्गितत्वम् इव यन् न तावच् चेत्यतां गतम्
तद् एतत् परमं ब्रह्म सत्येश्वरशिवादिभिः । शून्यैकपरमात्मादिनामभिः परिगीयते
एवंरूपपदातीतं यद् रूपं परमात्मनः । तन् न नामार्हम् अमलं विषयो न गिरां च तत्
यद् इदं दृश्यते तस्यास् तल् लताया महाचितेः । फलपल्लवपुष्पादि न भिन्नं तन्मयं यतः
महाचिच्चेत्यचयनाच् चिद् भवत्य् अभिधावती । सा जीवत्वं स बाह्यत्वं तद् अद्वि द्वीव पश्यति
स्वयम् अन्येयम् अस्मीति भावयित्वा स्वभावतः । अन्यताम् इव संयाति स्वसङ्कल्पात्मिकां स्वताम्
अकलङ्केन रूपेण रूपं यत् स्वकलङ्कवत् । संसारपतितं प्राप्य चेतनेनैव चेतितम्
चिद्वपुस् स्वयम् एवैतद् एकतो याति जीवताम् । चित्तत्त्वस्यावभासेन जीवो जीवति तन्मयः