विरथं विगताधारं मनोमात्रं हि दृश्यते । तिष्ठत्य् आत्मन्य् अलब्धोर्वीजलादितरुबीजवत्
इति वैकल्यम् आयाते करणौघे समन्ततः । नाशं पुर्यष्टके याते देहः पतति निश्चलः
चिच्चेत्यचेतनान् मोहात् स्पन्दम् आयाति वासना । उदीरिता स्मरत्य् अन्यद् अन्यद् विस्मरति स्वयम्
हृत्पद्मयन्त्रस्फुरणात् स्फुटं पुर्यष्टकं भवेत् । हृत्पद्मयन्त्रे वहनाद् रुद्धे पुर्यष्टकं क्षयि
देहे पुर्यष्टकं यावद् अस्ति तावत् स जीवति । शान्ते पुर्यष्टके देहो मृत इत्य् उच्यते द्विज
विरुद्धमलसंरोधाच् छेदभेददशावशात् । न प्रस्फुरति हृत्पद्मयन्त्रम् अभ्यन्तरे यदा
तदा पुर्यष्टकं शान्तिम् उपैति गगने शनैः । संरोधिते वातयन्त्रे यथा पवनसन्ततिः
स्वासंवित्तिवशाज् जीवो वैवश्यम् उपगच्छति । पद्मयन्त्रं शरीरस्थं न वाहयति निस्सहः
वासना विमला येषां हृदयान् नापसर्पति । स्थिरैकरूपजीवास् ते जीवन्मुक्ताश् चिरायुषः
संरुद्धे पद्मयन्त्रे हि प्राणे शान्तिम् उपागते । देहः पतत्य् अधैर्यो ऽयं काष्ठलोष्टसमः क्षितौ
यथैव व्योममरुति लीनं पुर्यष्टकं भवेत् । तथैव तत्रैव तदा लयम् एति मनो मुने
सुचिराभ्यस्तभावस्थवासनानुचितं मनः । यत्र तत्र भ्रमं स्वर्गनरकादिं प्रपश्यति
शरीरं शवताम् एति मनोमारुतवर्जितम् । गते गृहजने दूरं गृहं संशून्यताम् इव
सर्वगा चिच् चेतनतो जीवीभूय मनस्स्थिता । पुर्यष्टकवपुर् भूत्वैवातिवाहिकदेहिनी
तन्मात्रपञ्चकं चित्त्वं क्रोडीकृत्य व्यवस्थिता । स्वप्नभ्रमवद् आकारं भावात् स्थूलं प्रपश्यति
दृढभावनया पश्चात् तत्रैव रसशालिनी । आतिवाहिकदेहत्वं विस्मरत्य् अखिलं क्षणात्
असत्य् एव शरीरे ऽस्मिन् कृता कृत्रिमभावना । नयत्य् असत्यं सत्यत्वं सत्यं चासत्यताम् अपि
सर्वगा हि चिद् अंशेन जीवीभूय भवेन् मनः । मनः पुर्यष्टकरथम् आक्रामति ततो जगत्
पुर्यष्टकं वातमयं देहम् उत्थापयत्य् अलम् । हृत्स्थं हि वेताल इव जीव इत्य् उच्यते तदा
क्षीणे पुर्यष्टके चित्तं यदा व्योमनि लीयते । तदा स्फुरति नो देहो मृत इत्य् उच्यते ऽपि च
स्वभाववशतो जीवो विस्मृत्याशक्तिम् ऋच्छति । वैरस्यात् कालवशतः पर्णं जर्जरताम् इव
जीवशक्त्यापरामृष्टे निरुद्धे पद्मयन्त्रके । प्राणे संरोधम् आयाते म्रियते मानवो मुने
यथा जातानि जातानि तान्य् अथान्यानि कालतः । वृक्षात् पर्णानि शीर्यन्ते शरीराणि तथा नृणाम्
जायन्ते च म्रियन्ते च शरीराणि शरीरिणाम् । पादपानां च पर्णानि का तत्र परिदेवना
चिदम्बुधौ स्फुरन्त्य् एता देहबुद्बुदपङ्क्तयः । इतश् चान्या इतश् चान्या एतास्व् आस्था न धीमतः
सर्वगापि चिद् एतस्मिंश् चेतसि प्रतिबिम्बते । पदार्थम् अन्तर् आदत्ते नान्यो हि मकुराद् ऋते
चिदमलनभसि प्रसन्नरूपाः परिवितते तदतन्मये स्फुरन्ति । कलकलमुखरास् स्फुटाभिरामा विविधशरीरविमोहतापनद्यः
चन्द्रार्धशेखरधर चित्तत्त्वस्य महात्मनः । अनन्तस्यैकरूपस्य द्वित्वं कथम् इवागतम्
कथं च तन् महादेव रूढं सत् कालपर्ययात् । भवेद् दुःखोपघाताय प्रज्ञया विनिवारितम्
सर्वशक्तिर् हि चिद् ब्रह्म सद् एकं विद्यते यदा । तदा निर्मूल एवायं द्वित्वैकत्वलयोदयः