परमात्मनि चित्तत्त्वे स्थिते सति निरामये । जीवो जीवति सालोकं दीपे सति गृहं यथा
आधयो व्याधयश् चैव प्रयान्त्य् अस्याः प्रपीनताम् । अपाम् इव तरङ्गत्वं वीचित्वस्येव फेनता
आधिव्याधिभिर् आकीर्णश् शरीराम्भोजषट्पदः । जीवो वैवश्यम् आयाति तरङ्गत्वं यथा पयः
चिच्छक्तिस् सर्वशक्तित्वान् नाहं चिद् इति भावनात् । स्ववशैवैति वैवश्यं सूर्यदीप्तिर् इवाम्बुदैः
वैवश्याशावती मौढ्यान् न विन्दत्य् आत्मसंविदम् । घनजाड्यपराभूतस् स्वाङ्गावदलनं यथा
प्राणवाय्वनुसन्धानम् अस्या मोहाद् विनश्यति । घनमोहवतो जन्तोस् स्वकार्यस्मरणं यथा
अथाङ्गसंविदो वातस् स्पन्दशक्तेश् च मोहतः । न करोत्य् अनुसन्धानं कुष्ठी स्पन्दैषणं यथा
असंवित्स्पन्दने देहे पद्मपत्त्रं हृदि स्थितम् । न स्फुरत्य् अपरामृष्टं दारुपत्त्रं यथा बहिः
निस्स्पन्दे पद्मपत्त्रे ऽन्तः प्राणाश् शान्तिं प्रयान्त्य् अमी । तालवृन्ते यथास्पन्दे बहिः पवनशक्तयः
प्राणे शान्ते ऽन्तर् अस्पर्शाज् जीवो निपुणमूकताम् । याति शान्ते नभोवायाव् अदृश्यत्वं यथा रजः
विरथं विगताधारं मनोमात्रं हि दृश्यते । तिष्ठत्य् आत्मन्य् अलब्धोर्वीजलादितरुबीजवत्
इति वैकल्यम् आयाते करणौघे समन्ततः । नाशं पुर्यष्टके याते देहः पतति निश्चलः
चिच्चेत्यचेतनान् मोहात् स्पन्दम् आयाति वासना । उदीरिता स्मरत्य् अन्यद् अन्यद् विस्मरति स्वयम्
हृत्पद्मयन्त्रस्फुरणात् स्फुटं पुर्यष्टकं भवेत् । हृत्पद्मयन्त्रे वहनाद् रुद्धे पुर्यष्टकं क्षयि
देहे पुर्यष्टकं यावद् अस्ति तावत् स जीवति । शान्ते पुर्यष्टके देहो मृत इत्य् उच्यते द्विज
विरुद्धमलसंरोधाच् छेदभेददशावशात् । न प्रस्फुरति हृत्पद्मयन्त्रम् अभ्यन्तरे यदा
तदा पुर्यष्टकं शान्तिम् उपैति गगने शनैः । संरोधिते वातयन्त्रे यथा पवनसन्ततिः
स्वासंवित्तिवशाज् जीवो वैवश्यम् उपगच्छति । पद्मयन्त्रं शरीरस्थं न वाहयति निस्सहः
वासना विमला येषां हृदयान् नापसर्पति । स्थिरैकरूपजीवास् ते जीवन्मुक्ताश् चिरायुषः
संरुद्धे पद्मयन्त्रे हि प्राणे शान्तिम् उपागते । देहः पतत्य् अधैर्यो ऽयं काष्ठलोष्टसमः क्षितौ
यथैव व्योममरुति लीनं पुर्यष्टकं भवेत् । तथैव तत्रैव तदा लयम् एति मनो मुने
सुचिराभ्यस्तभावस्थवासनानुचितं मनः । यत्र तत्र भ्रमं स्वर्गनरकादिं प्रपश्यति
शरीरं शवताम् एति मनोमारुतवर्जितम् । गते गृहजने दूरं गृहं संशून्यताम् इव
सर्वगा चिच् चेतनतो जीवीभूय मनस्स्थिता । पुर्यष्टकवपुर् भूत्वैवातिवाहिकदेहिनी
तन्मात्रपञ्चकं चित्त्वं क्रोडीकृत्य व्यवस्थिता । स्वप्नभ्रमवद् आकारं भावात् स्थूलं प्रपश्यति
दृढभावनया पश्चात् तत्रैव रसशालिनी । आतिवाहिकदेहत्वं विस्मरत्य् अखिलं क्षणात्
असत्य् एव शरीरे ऽस्मिन् कृता कृत्रिमभावना । नयत्य् असत्यं सत्यत्वं सत्यं चासत्यताम् अपि
सर्वगा हि चिद् अंशेन जीवीभूय भवेन् मनः । मनः पुर्यष्टकरथम् आक्रामति ततो जगत्
पुर्यष्टकं वातमयं देहम् उत्थापयत्य् अलम् । हृत्स्थं हि वेताल इव जीव इत्य् उच्यते तदा
क्षीणे पुर्यष्टके चित्तं यदा व्योमनि लीयते । तदा स्फुरति नो देहो मृत इत्य् उच्यते ऽपि च