सर्वस्थयात्मशक्त्यैव जीव एष स्फुरत्य् अलम् । मकुरो बिम्बम् आदत्ते द्रव्यान् नान्तस्स्थिताद् अपि
सुविस्मृतस्वभावत्वाच् जीवो ऽयं जडतां गतः । मोहाद् विस्मृतभावत्वाच् छूद्रताम् इव सद्द्विजः
प्रविस्मृतस्वभावा हि चिच् चित्तत्वम् उपागता । मोहोपहतचित्तत्वात् सुमहान् इव दीनताम्
जडयावशया देहो वातशक्तिसमानया । सञ्चाल्यते कलनया पत्त्रं वा वीचिमालया
कर्मात्मना वराकेण जीवेन मनसामुना । चाल्यन्ते देहयन्त्राणि पाषाणा इव वायुना
शरीरशकटानां हि कर्षणे परमात्मना । मनःप्राणोदयौ ब्रह्मन् कृतौ कर्मकरौ दृढौ
चिज् जडं तूररीकृत्य रूपं जीवत्वम् एव च । मनोरथम् उपारुह्य वहत्प्राणतुरङ्गमम्
क्वचिज् जातपदार्थत्वं क्वचिन् नष्टपदार्थताम् । क्वचिद् बहुपदार्थत्वं क्वचिन् नानापदार्थतां
गतेव भिन्नेवास्तेच्छम् अत्यजन्ती निजं पदम् । जलतेव तरङ्गत्वं सैवासेव सदोदिता
उपजीव्यात्मनो रूपं परं स्फुरति वृत्तिषु । आलोकम् उपजीव्येमं रूपश्रीर् द्रव्यगा यथा
परमात्मनि चित्तत्त्वे स्थिते सति निरामये । जीवो जीवति सालोकं दीपे सति गृहं यथा
आधयो व्याधयश् चैव प्रयान्त्य् अस्याः प्रपीनताम् । अपाम् इव तरङ्गत्वं वीचित्वस्येव फेनता
आधिव्याधिभिर् आकीर्णश् शरीराम्भोजषट्पदः । जीवो वैवश्यम् आयाति तरङ्गत्वं यथा पयः
चिच्छक्तिस् सर्वशक्तित्वान् नाहं चिद् इति भावनात् । स्ववशैवैति वैवश्यं सूर्यदीप्तिर् इवाम्बुदैः
वैवश्याशावती मौढ्यान् न विन्दत्य् आत्मसंविदम् । घनजाड्यपराभूतस् स्वाङ्गावदलनं यथा
प्राणवाय्वनुसन्धानम् अस्या मोहाद् विनश्यति । घनमोहवतो जन्तोस् स्वकार्यस्मरणं यथा
अथाङ्गसंविदो वातस् स्पन्दशक्तेश् च मोहतः । न करोत्य् अनुसन्धानं कुष्ठी स्पन्दैषणं यथा
असंवित्स्पन्दने देहे पद्मपत्त्रं हृदि स्थितम् । न स्फुरत्य् अपरामृष्टं दारुपत्त्रं यथा बहिः
निस्स्पन्दे पद्मपत्त्रे ऽन्तः प्राणाश् शान्तिं प्रयान्त्य् अमी । तालवृन्ते यथास्पन्दे बहिः पवनशक्तयः
प्राणे शान्ते ऽन्तर् अस्पर्शाज् जीवो निपुणमूकताम् । याति शान्ते नभोवायाव् अदृश्यत्वं यथा रजः
विरथं विगताधारं मनोमात्रं हि दृश्यते । तिष्ठत्य् आत्मन्य् अलब्धोर्वीजलादितरुबीजवत्
इति वैकल्यम् आयाते करणौघे समन्ततः । नाशं पुर्यष्टके याते देहः पतति निश्चलः
चिच्चेत्यचेतनान् मोहात् स्पन्दम् आयाति वासना । उदीरिता स्मरत्य् अन्यद् अन्यद् विस्मरति स्वयम्
हृत्पद्मयन्त्रस्फुरणात् स्फुटं पुर्यष्टकं भवेत् । हृत्पद्मयन्त्रे वहनाद् रुद्धे पुर्यष्टकं क्षयि
देहे पुर्यष्टकं यावद् अस्ति तावत् स जीवति । शान्ते पुर्यष्टके देहो मृत इत्य् उच्यते द्विज
विरुद्धमलसंरोधाच् छेदभेददशावशात् । न प्रस्फुरति हृत्पद्मयन्त्रम् अभ्यन्तरे यदा
तदा पुर्यष्टकं शान्तिम् उपैति गगने शनैः । संरोधिते वातयन्त्रे यथा पवनसन्ततिः
स्वासंवित्तिवशाज् जीवो वैवश्यम् उपगच्छति । पद्मयन्त्रं शरीरस्थं न वाहयति निस्सहः
वासना विमला येषां हृदयान् नापसर्पति । स्थिरैकरूपजीवास् ते जीवन्मुक्ताश् चिरायुषः
संरुद्धे पद्मयन्त्रे हि प्राणे शान्तिम् उपागते । देहः पतत्य् अधैर्यो ऽयं काष्ठलोष्टसमः क्षितौ