नानास्फारसमुल्लासैर् यः पूर्वं परिवल्गितः । प्राणो ऽतीते तु मनने स एवाशु न चोपति
पुर्यष्टके चित् परमा स्वे मुने प्रतिबिम्बति । आदर्श एव प्रतिमा दृश्यते नोपलादिषु
मनः पुर्यष्टकं विद्धि सर्वकार्यैककारणम् । तद् एव भेदैः कथितम् अन्यैस् स्वाशयकल्पितैः
यस्माद् उदेति फलम् आकुलदृश्यजालं तत् तन् न वस्त्वितरद् इत्य् अनुभूतम् उच्चैः । तस्मान् मनो विपरिवर्ति हि देहदृष्ट्या सर्वं तु तत्परम् अवस्त्व् इति विद्धि तत् त्वम्
मुने शृणु कथं कार्यकारिणी स्पन्दशालिनी । पतन्तीव चितिः पुंसाम् उपैति मरणाभिधाम्
प्राक्तनैस् तैर् इहान्यैश् च स्वैर् मनोमननेहितैः । कर्मवातैर् विचित्रेहैः परिपीवरतां गतैः
मनस्त्वं या गता शक्तिस् सुजडेव मुने चितेः । सा स्फुरत्य् अनया ब्रह्मन् स्वचिता साक्षिभूतया
अस्याः प्रसादाद् इह सा चित् कलङ्कवती मुने । जगद्गन्धर्वनगरं करोति न करोति च
विनात्मसत्तया जीवो मूकस् तिष्ठति कुड्यवत् । तत्सत्तया प्रस्फुरति नभस्सम्प्रेरिताश्मवत्
यथा स्फुरत्य् अतिजडम् अयो ऽयस्कान्तसन्निधौ । तथा स्फुरति जीवो ऽयं सति सर्वगते परे
सर्वस्थयात्मशक्त्यैव जीव एष स्फुरत्य् अलम् । मकुरो बिम्बम् आदत्ते द्रव्यान् नान्तस्स्थिताद् अपि
सुविस्मृतस्वभावत्वाच् जीवो ऽयं जडतां गतः । मोहाद् विस्मृतभावत्वाच् छूद्रताम् इव सद्द्विजः
प्रविस्मृतस्वभावा हि चिच् चित्तत्वम् उपागता । मोहोपहतचित्तत्वात् सुमहान् इव दीनताम्
जडयावशया देहो वातशक्तिसमानया । सञ्चाल्यते कलनया पत्त्रं वा वीचिमालया
कर्मात्मना वराकेण जीवेन मनसामुना । चाल्यन्ते देहयन्त्राणि पाषाणा इव वायुना
शरीरशकटानां हि कर्षणे परमात्मना । मनःप्राणोदयौ ब्रह्मन् कृतौ कर्मकरौ दृढौ
चिज् जडं तूररीकृत्य रूपं जीवत्वम् एव च । मनोरथम् उपारुह्य वहत्प्राणतुरङ्गमम्
क्वचिज् जातपदार्थत्वं क्वचिन् नष्टपदार्थताम् । क्वचिद् बहुपदार्थत्वं क्वचिन् नानापदार्थतां
गतेव भिन्नेवास्तेच्छम् अत्यजन्ती निजं पदम् । जलतेव तरङ्गत्वं सैवासेव सदोदिता
उपजीव्यात्मनो रूपं परं स्फुरति वृत्तिषु । आलोकम् उपजीव्येमं रूपश्रीर् द्रव्यगा यथा
परमात्मनि चित्तत्त्वे स्थिते सति निरामये । जीवो जीवति सालोकं दीपे सति गृहं यथा
आधयो व्याधयश् चैव प्रयान्त्य् अस्याः प्रपीनताम् । अपाम् इव तरङ्गत्वं वीचित्वस्येव फेनता
आधिव्याधिभिर् आकीर्णश् शरीराम्भोजषट्पदः । जीवो वैवश्यम् आयाति तरङ्गत्वं यथा पयः
चिच्छक्तिस् सर्वशक्तित्वान् नाहं चिद् इति भावनात् । स्ववशैवैति वैवश्यं सूर्यदीप्तिर् इवाम्बुदैः
वैवश्याशावती मौढ्यान् न विन्दत्य् आत्मसंविदम् । घनजाड्यपराभूतस् स्वाङ्गावदलनं यथा
प्राणवाय्वनुसन्धानम् अस्या मोहाद् विनश्यति । घनमोहवतो जन्तोस् स्वकार्यस्मरणं यथा
अथाङ्गसंविदो वातस् स्पन्दशक्तेश् च मोहतः । न करोत्य् अनुसन्धानं कुष्ठी स्पन्दैषणं यथा
असंवित्स्पन्दने देहे पद्मपत्त्रं हृदि स्थितम् । न स्फुरत्य् अपरामृष्टं दारुपत्त्रं यथा बहिः
निस्स्पन्दे पद्मपत्त्रे ऽन्तः प्राणाश् शान्तिं प्रयान्त्य् अमी । तालवृन्ते यथास्पन्दे बहिः पवनशक्तयः
प्राणे शान्ते ऽन्तर् अस्पर्शाज् जीवो निपुणमूकताम् । याति शान्ते नभोवायाव् अदृश्यत्वं यथा रजः