सा परैव चिद् अत्यच्छा चिन्ताम् आयाति चेतनात् । साधुर् एव यथासाधुसंवित्तेर् दुर्जनैषणाम्
सतमस् स्वर्णम् आयाति ताम्रतां मलमार्जनात् । पुनः कनकताम् एति यथा चित् परमा तथा
श्वासोपशान्ताव् आदर्शो यथैति प्रथमां स्थितिम् । तथा सर्गम् इहागत्य बोधात् स्वं याति चित् पदम्
स्वभावावेदनाद् अस्यास् संसारस् सम्प्रवर्तते । स्वभाववेदनाद् एष त्व् असन्न् एवोपशाम्यति
यदा चित्त्वाच् चिनोत्य् अन्तर् अन्यताम् असतीं तदा । अहन्ताम् इव सम्प्राप्य नश्यतीवाप्य् अनाशिनी
ईषत्स्पन्दाद् अधो याति शृङ्गप्रान्तातलोपलः । यथा तथैव संवित्तेर् अधःपातो महाचितः
रूपादीनां तु सत्तैषा चेत्यम् एवामलैव चित् । द्वित्वैकत्वे त्व् अबोधोत्थे बोधेन विलयं गते
सत्तामात्रेण चित्त्वस्य बोधश् चित्तेन्द्रियादिषु । आलोकसत्तामात्रेण व्यवहारः क्रियास्व् इव
वातात् कनीनिकास्पन्दस् तद्दीप्तिर् दृष्टिर् उच्यते । तद्बाह्यपातिता रूपं रूपबोधस् तु चित् परा
त्वङ्मारुतौ जडौ तुच्छौ तत्सङ्गस् स्पर्श उच्यते । मननं स्पर्शसंवित्तिस् तत्संवित्तिस् तु चित् परा
गन्धतन्मात्रपवनसम्बन्धो गन्धसंविदः । आसां तु मनसा हीनं वेदनं परमैव चित्
शब्दतन्मात्रश्रवणशक्तेस् सङ्गान् मनो विना । सुषुप्तसदृशी संवित् परमा चिद् उदाहृता
क्रियोन्मुखत्वं सङ्कल्पात् सङ्कल्पो मननक्रमः । मननं चित्स्वकालुष्यम् आत्मा चिन् निर्मला भवेत्
चित् प्रकाशात्मिका नित्या स्वात्मन्य् एव च संस्थिता । इदम् अन्तर् जगद् धत्ते सन्निवेशं यथा शिला
अद्वितीयं दधानेदं विकारादिविवर्जिता । नास्तम् एति न चोदेति स्पन्दते नो न वर्धते
सङ्कल्पाज् जीवताम् एत्य निस्सङ्कल्पात्मनात्मना । चिज् जडं चाजडं भावं भावयन्ती स्वयं स्थिता
रथस् त्व् अस्यास् स्मृतो जीवो जीवस्याहङ्कृती रथः । अहङ्कृते रथो बुद्धिस् तथा बुद्धेर् मनो रथः
मनसस् तु रथः प्राणः प्राणस्याक्षगणो रथः । अक्षौघस्य रथो देहो देहस्य स्पन्दनं रथः
स्पन्दनं कर्म संसारो जरामरणपञ्जरम् । एवं प्रवर्तितं चक्रम् इदम् आधिविभूतिजम्
प्रतिभासत एवात्मन्य् असत्स्वप्न इवाततः । मनाग् अपि न सत्यात्म मृगतृष्णाम्बुवत् स्थितम्
रथस् त्व् अस्यास् स्मृतः प्राणः कलनाया मुनीश्वर । यत्र प्राणमरुत् तत्र मननं परितिष्ठति
यत्र स्थितैषा कलना तद् एव परिचोपति । यत् प्रयाति वनं वात्या तद् एव परिघूर्णते
मनस्य् आकाशसंलीने न प्राणः परिचोपति । तेजस्य् असत्ताम् आयाते न रूपम् इव राजते
प्राणे प्रशान्ते मनुते न मनो ऽन्तर् मनाग् अपि । वात्यायाम् उपशान्तायां न रजो हि विकम्पते
यत्र प्राणमरुद् याति मनस् तत्रैव तिष्ठति । यत्र यत्रानुसरति रथस् तत्रैव सारथिः
प्राणसम्प्रेरितं चित्तं याति देशान्तरं क्षणात् । क्षेपणोन्मुक्तपाषाण इव तन् नान्यथा जवि
यत्र पुष्पं तत्र गन्धो यत्राग्निस् तत्र चोष्णता । यत्र प्राणो मनस् तत्र यत्रेन्दुस् तत्र तद्रुचिः
संवित्तिः पवनस्पन्दान् नाडीसंस्पर्शतस् स्वतः । संवित्तेस् स्फारता चित्तम् अतस् तत् प्राणकोटरे
सर्वत्र विद्यते संविद् व्योमस्वच्छा जडाजडे । क्षुभ्यतीव तु सा प्राणस्पन्दाद् इत्य् अनुभूयते
सत्तामात्रस्वरूपेण जडेषु समवस्थिता । प्राणसम्बोधितोदेति वेदनात्मतयाजडे