नञर्थाभावनामात्रेणानर्थः प्रसृतश् चितेः । नञर्थभावनामात्रेणानर्थ उपशाम्यति
नञर्थभावनामात्राद् ऋते ऽत्राङ्गोपयुज्यते । न तृणं न च त्रैलोक्यम् इति स्वायत्ततात्र ते
स्वायत्त एव ह्य् एषो ऽर्थो दुस्साधो ऽभावनात् स्थितः । यद् यन् न साध्यते पुंसा तत् कथं किल लभ्यते
निर्विकल्पाद्वितीया चिद् यासौ सकलगा सती । परमैका परा साच्छा दीपिका तेजसाम् अपि
सैषावभासनकरी सर्वगा नित्यनिर्मला । नित्योदिता निर्मनस्का निर्विकारा निरञ्जना
घटे पटे वटे कुड्ये शकटे वानरे सुरे । असुरे सागरे भूते नरे नागे च संस्थिता
साक्षिवत् तिष्ठति सती स्पन्दते च न कुत्रचित् । दीपः प्रकाशनायैव करोति न पुनः क्रियाम्
मलिनाप्य् अमलैषा सा विकल्पाढ्याविकल्पिनी । जडैवाजडतासारा नसर्वा सर्वम् एव च
निर्विकल्पा परा सूक्ष्मा चिच् चिनोति स्वसंविदम् । वात एवाङ्गमर्मादि यथा यन्त्रादि चेष्टते
रूपालोकमनस्कारवलिता चिद् अबोधतः । बोधतस् सैव भवति नैषा सदसती यतः
सा परैव चिद् अत्यच्छा चिन्ताम् आयाति चेतनात् । साधुर् एव यथासाधुसंवित्तेर् दुर्जनैषणाम्
सतमस् स्वर्णम् आयाति ताम्रतां मलमार्जनात् । पुनः कनकताम् एति यथा चित् परमा तथा
श्वासोपशान्ताव् आदर्शो यथैति प्रथमां स्थितिम् । तथा सर्गम् इहागत्य बोधात् स्वं याति चित् पदम्
स्वभावावेदनाद् अस्यास् संसारस् सम्प्रवर्तते । स्वभाववेदनाद् एष त्व् असन्न् एवोपशाम्यति
यदा चित्त्वाच् चिनोत्य् अन्तर् अन्यताम् असतीं तदा । अहन्ताम् इव सम्प्राप्य नश्यतीवाप्य् अनाशिनी
ईषत्स्पन्दाद् अधो याति शृङ्गप्रान्तातलोपलः । यथा तथैव संवित्तेर् अधःपातो महाचितः
रूपादीनां तु सत्तैषा चेत्यम् एवामलैव चित् । द्वित्वैकत्वे त्व् अबोधोत्थे बोधेन विलयं गते
सत्तामात्रेण चित्त्वस्य बोधश् चित्तेन्द्रियादिषु । आलोकसत्तामात्रेण व्यवहारः क्रियास्व् इव
वातात् कनीनिकास्पन्दस् तद्दीप्तिर् दृष्टिर् उच्यते । तद्बाह्यपातिता रूपं रूपबोधस् तु चित् परा
त्वङ्मारुतौ जडौ तुच्छौ तत्सङ्गस् स्पर्श उच्यते । मननं स्पर्शसंवित्तिस् तत्संवित्तिस् तु चित् परा
गन्धतन्मात्रपवनसम्बन्धो गन्धसंविदः । आसां तु मनसा हीनं वेदनं परमैव चित्
शब्दतन्मात्रश्रवणशक्तेस् सङ्गान् मनो विना । सुषुप्तसदृशी संवित् परमा चिद् उदाहृता
क्रियोन्मुखत्वं सङ्कल्पात् सङ्कल्पो मननक्रमः । मननं चित्स्वकालुष्यम् आत्मा चिन् निर्मला भवेत्
चित् प्रकाशात्मिका नित्या स्वात्मन्य् एव च संस्थिता । इदम् अन्तर् जगद् धत्ते सन्निवेशं यथा शिला
अद्वितीयं दधानेदं विकारादिविवर्जिता । नास्तम् एति न चोदेति स्पन्दते नो न वर्धते
सङ्कल्पाज् जीवताम् एत्य निस्सङ्कल्पात्मनात्मना । चिज् जडं चाजडं भावं भावयन्ती स्वयं स्थिता
रथस् त्व् अस्यास् स्मृतो जीवो जीवस्याहङ्कृती रथः । अहङ्कृते रथो बुद्धिस् तथा बुद्धेर् मनो रथः
मनसस् तु रथः प्राणः प्राणस्याक्षगणो रथः । अक्षौघस्य रथो देहो देहस्य स्पन्दनं रथः
स्पन्दनं कर्म संसारो जरामरणपञ्जरम् । एवं प्रवर्तितं चक्रम् इदम् आधिविभूतिजम्
प्रतिभासत एवात्मन्य् असत्स्वप्न इवाततः । मनाग् अपि न सत्यात्म मृगतृष्णाम्बुवत् स्थितम्