अकारणविपर्यस्तमतिर् भ्रान्तम् अपि स्थिरम् । यथा जगत् पश्यतीदं तथाहन्ताभ्रमं चितिः
चित्त्वं हि कारणं तस्यास् संसारानुभवे चितेः । न च तत्कारणं किञ्चिच् चित्त्वान्यत्वात्यसम्भवात्
एवं हि कारणाभावाच् चेत्यस्यासम्भवाद् अपि । नासौ चिन् न च तच् चेत्यं न च तच् चेत्यते तया
न दृश्यदर्शनद्रष्टृरूपं तैलम् इवोपले । न कर्तृकर्मकरणदृग् इन्दाव् इव कृष्णता
न मनोमेयमानानि नभसीव नवाङ्कुरः । न चिच्चेतनचेत्यादि नन्दने खदिरो यथा
नाहन्त्वत्वत्त्वतत्त्वादि पर्वतत्वम् इवाम्बरे । न चेहत्वान्यदेशत्वे शङ्खत्वक्ष्व् इव कज्जलम्
नानानाना न चाप्य् अन्तर् अणाव् इव सुमेरवः । न च शब्दार्थशब्दश्रीर् महोषरलता यथा
नेति नेति न चैवार्कमण्डले रजनी यथा । न वस्तुतावस्तुते च तुषारेषु यथोष्णता
न शून्यताशून्यते च शिलाकोश इव द्रुमः । शून्यताशून्यता नापि महती ख इवाखता
केवलं केवलीभावस् स्वस्थतैवावशिष्यते । न कश्चित् कस्यचिद् दोषो ज्ञतयैतद् अवाप्यते
नञर्थाभावनामात्रेणानर्थः प्रसृतश् चितेः । नञर्थभावनामात्रेणानर्थ उपशाम्यति
नञर्थभावनामात्राद् ऋते ऽत्राङ्गोपयुज्यते । न तृणं न च त्रैलोक्यम् इति स्वायत्ततात्र ते
स्वायत्त एव ह्य् एषो ऽर्थो दुस्साधो ऽभावनात् स्थितः । यद् यन् न साध्यते पुंसा तत् कथं किल लभ्यते
निर्विकल्पाद्वितीया चिद् यासौ सकलगा सती । परमैका परा साच्छा दीपिका तेजसाम् अपि
सैषावभासनकरी सर्वगा नित्यनिर्मला । नित्योदिता निर्मनस्का निर्विकारा निरञ्जना
घटे पटे वटे कुड्ये शकटे वानरे सुरे । असुरे सागरे भूते नरे नागे च संस्थिता
साक्षिवत् तिष्ठति सती स्पन्दते च न कुत्रचित् । दीपः प्रकाशनायैव करोति न पुनः क्रियाम्
मलिनाप्य् अमलैषा सा विकल्पाढ्याविकल्पिनी । जडैवाजडतासारा नसर्वा सर्वम् एव च
निर्विकल्पा परा सूक्ष्मा चिच् चिनोति स्वसंविदम् । वात एवाङ्गमर्मादि यथा यन्त्रादि चेष्टते
रूपालोकमनस्कारवलिता चिद् अबोधतः । बोधतस् सैव भवति नैषा सदसती यतः
सा परैव चिद् अत्यच्छा चिन्ताम् आयाति चेतनात् । साधुर् एव यथासाधुसंवित्तेर् दुर्जनैषणाम्
सतमस् स्वर्णम् आयाति ताम्रतां मलमार्जनात् । पुनः कनकताम् एति यथा चित् परमा तथा
श्वासोपशान्ताव् आदर्शो यथैति प्रथमां स्थितिम् । तथा सर्गम् इहागत्य बोधात् स्वं याति चित् पदम्
स्वभावावेदनाद् अस्यास् संसारस् सम्प्रवर्तते । स्वभाववेदनाद् एष त्व् असन्न् एवोपशाम्यति
यदा चित्त्वाच् चिनोत्य् अन्तर् अन्यताम् असतीं तदा । अहन्ताम् इव सम्प्राप्य नश्यतीवाप्य् अनाशिनी
ईषत्स्पन्दाद् अधो याति शृङ्गप्रान्तातलोपलः । यथा तथैव संवित्तेर् अधःपातो महाचितः
रूपादीनां तु सत्तैषा चेत्यम् एवामलैव चित् । द्वित्वैकत्वे त्व् अबोधोत्थे बोधेन विलयं गते
सत्तामात्रेण चित्त्वस्य बोधश् चित्तेन्द्रियादिषु । आलोकसत्तामात्रेण व्यवहारः क्रियास्व् इव
वातात् कनीनिकास्पन्दस् तद्दीप्तिर् दृष्टिर् उच्यते । तद्बाह्यपातिता रूपं रूपबोधस् तु चित् परा
त्वङ्मारुतौ जडौ तुच्छौ तत्सङ्गस् स्पर्श उच्यते । मननं स्पर्शसंवित्तिस् तत्संवित्तिस् तु चित् परा