उष्ट्रीव मधुनो बिन्दुं वाञ्छते भावितं सुखम् । अवान्तरपरिभ्रष्टा दोषाद् दोषं पतत्य् अधः
परं वैवश्यम् आयाति सङ्कटात् सङ्कटं गता । दुःखाद् दुःखे निपतिता विपदो विपदि स्थिता
नानानर्थगणोपेता चेष्टापरवशाशया । कष्टात् कष्टम् अनुप्राप्ता परितापानुतापिनी
क्रमान् नवे नवे बन्धे ऽवैदग्ध्यं समुपागता । विचित्रबन्धनिर्माणपरा क्रिमिपदं गता
सर्वतश्शङ्करे भीता प्राणात्ययम् उपागता । क्षीणतोयेव शफरी विवर्तनपरायणा
बाल्ये विवशसर्वार्था यौवने चिन्तयाहृता । वार्द्धके मृतिदुःखात्ता मृता कर्मवशीकृता
जायते दुःखशबला म्रियते जननोन्मुखी । करोत्य् आवेशविवशा निगिरत्य् आर्तिधारिणी
गच्छति श्रमसन्तप्ता भवत्य् अम्बुदभङ्गुरा । रोदित्य् आक्रान्तहृदया पराक्रन्दति तापिता
अप्सरास् स्वर्गनगरे नागी पातालकोटरे । असुरी दैत्यविवरे नरस्त्री वसुधातले
राक्षसी राक्षसाधारे वानरी वनकोटरे । सिंही गिरीन्द्रशिखरे किन्नरी कुलपर्वते
विद्याधरी देवगिरौ व्याली चावनिगर्तके । लता तरौ खगी नीडे वीरुत् सानौ वने मृगी
शेते नारायणो ऽम्भोधौ ध्यानी ब्रह्मपुरे ऽब्जजः । कान्तासखो हरश् शैले स्वर्गे सुरवरो हरिः
दिनं करोति तीक्ष्णांशुर् वर्षत्य् अम्बुधरो जलम् । करोति रजनीम् इन्दुर् धत्ते नीरं महोदधिः
ऋतुचक्रं प्रवहति सहकालर्क्षमण्डलम् । दिनरात्रितयोदेति तेजस्तिमिरता क्वचित्
क्वचिद् बीजरसोल्लासः क्वचित् पाषाणमौनिनी । क्वचिन् नदी रसवहा क्वचित् कुसुमविस्तृतिः
क्वचित् फलावलीपाकः क्वचित् क्वाथो ऽनलादिभिः । क्वचिच् छैत्यं हिमेन्द्वादि क्वचित् खादि नकिञ्चन
क्वचिद् उज्ज्वलिताकारा क्वचित् कृष्णा क्वचित् सिता । क्वचिन् नीलाथ हरिता क्वचिद् अग्निः क्वचिन् मही
सर्वात्मत्वात् सर्वगत्वात् सर्वशक्तितयेद्धया । सर्वत्वाद् एकरूपैव खाद् अप्य् अच्छैव सा परा
चिच् चिनोति यथात्मानं येन यत्र यथा यदा । तत् तथाशु भवत्य् अम्बुरयाद् वीच्यादिता यथा
हंसी क्रौञ्ची बकी काकी सरसीसारसी वृकी । पिकी बलाका हरिणी वानरी करिणी शुनी
चटिका वञ्जुली शारी मक्षिका षट्पदी शुकी । धीश् श्रीर् ह्रीः प्रीतिर् आर्तिश् च शवरी शर्वरी शशी
एतास्व् अन्यासु चान्यासु परिभ्रमति योनिषु । विवर्तमाना संसारे जलावर्ते तृणं यथा
बिभेत्य् एषा स्वसङ्कल्पात् स्वशब्दाद् इव गर्दभी । नानया सदृग् अन्यास्ति मुग्धा बालाबला चला
एषा सा कथिता तुभ्यं जीवशक्तिर् मया मुने । प्राकृताचारविवशा वराकी पशुधर्मिणी
कर्मात्मेत्य् अभिधां प्राप्ता शोच्यास्य परमात्मनः । अनन्तदुःखबहलं स्वयं सम्भ्रमम् आश्रिता
असद् एवानयाक्रान्तं विनाशि सहजं मलम् । तण्डुलेनेव कम्बूकम् अनन्यच् चान्यवत् स्थितम्
अनन्तविभवभ्रष्टा दौर्भाग्यपरितापिनी । शोचति प्राप्य जीवत्वं भर्तृहीनेव नायिका
जडरतेर् अवलोकय शक्ततां निजपदस्मरणेन विनेह यत् । व्रजति पृष्ठम् अधःपतनाय खाद् दुररघट्टघटीपुटपीठवत्
चिनोत्य् अलीकम् एवैवं दुःखितास्मीति भावनात् । चिद् वधूः क्षीवसुप्तैव पतितास्मीत्य् अलं यथा
अमृतैव मृतास्मीति विपर्यस्तमतिर् वधूः । यथा रोदित्य् अनष्टैव नष्टास्मीति तथैव चित्