न हस्तपादचलनं न देशान्तरसङ्गमः । क्लेशातिशयसाध्यो वा न तीर्थायतनाश्रयः
पुरुषार्थैकसाध्येन वासनैकार्थकर्मणा । केवलं तन् मनोमात्रजयेनासाद्यते पदम्
विवेकमात्रसाध्यं तद्विचारैकान्तनिश्चयम् । त्यजता दुःखजालानि नरेण तद् अवाप्यते
सुखसेव्यासनस्थेन तद् विचारयता स्वयम् । न शोच्यते पदं प्राप्य न च भूयो ऽभिजायते
तत् समस्तसुखासारसीमान्तं साधवो विदुः । तद् अनुत्तमनिष्ष्यन्दं परम् आहू रसायनम्
क्षयित्वात् सर्वभावानां स्वर्गमानुष्ययोर् द्वयोः । सुखं नास्त्य् एव सलिलं मृगतृष्णास्व् इवैतयोः
अतो मनोजयश् चिन्त्यश् शमस् सन्तोषसाधनः । अनन्तशमसम्भोगस् तस्माद् आनन्द आप्यते
जीवता गच्छता चैव भ्रमता पतता तथा । रक्षसा दानवेनापि देवेन पुरुषेण वा
मनःप्रशमनोद्भूतं तत् प्राप्य परमं सुखम् । विकासिशमपुष्पस्य विवेकोच्चतरोः फलम्
व्यवहारपरेणापि कार्यवृन्दम् अचिन्वता । भानुनेवाम्बरस्थेन नोज्झ्यते न च वाञ्छ्यते
मनः प्रशान्तम् अत्यच्छं विश्रान्तं गतविभ्रमम् । अनीहं विगताभीष्टं नाभिवाञ्छति नोज्झति
मोक्षद्वारे द्वारपालान् इमाञ् शृणु यथाक्रमम् । येषाम् एकतमासक्त्या मोक्षद्वारे प्रविश्यते
दुःखदोषदशा दीर्घा संसारमरुमण्डली । जन्तोश् शीतलताम् एति शीतलेन शमाम्बुना
शमेनासाद्यते श्रेयश् शमो हि परमं पदम् । शमश् शिवं शमश् शान्तिश् शमो भ्रान्तिनिवारणम्
पुंसः प्रशमतृप्तस्य शीतलाच्छतरात्मनः । शमतोषितचित्तस्य शत्रुर् अप्य् एति मित्रताम्
शमचन्द्रमसा येषाम् आशयस् समलङ्कृतः । क्षीराब्धीनाम् इवोदेति तेषां परमशुद्धता
हृत्कुशेशयकोशेषु येषां शमकुशेशयम् । सतां विकसितं ते हि द्विहृत्पद्मास् समा हरेः
शमश्रीश् शोभते येषां मुखेन्दाव् अकलङ्किते । ते ऽमी कुलेन्दवो वन्द्यास् सौन्दर्यविजितेन्दवः
त्रैलोक्योदरवर्तिन्यो नानन्दाय तथा श्रियः । साम्राज्यसम्पत्प्रतिमा यथा शमविभूतयः
यानि दुःखानि यास् तृष्णा दुस्सहा ये दुराधयः । तत् सर्वं शान्तचेतस्सु तमो ऽर्केष्व् इव नश्यति
मनो हि सर्वभूतानां प्रसादम् अनुगच्छति । न तथेन्दौ यथा शान्ते जने जनितकौतुकम्
शमशालिनि सौहार्दवति सर्वेषु जन्तुषु । सुजने परमं तत्त्वं स्वयम् एव प्रसीदति
मातरीव परं यान्ति विषमाणि मृदूनि च । विश्वासम् इह भूतानि सर्वाणि शमशालिनि
न रसायनपानेन न लक्ष्म्यालिङ्गनेन च । तथा सुखम् अवाप्नोति शमेनान्तर् यथा जनः
सर्वाधिव्याधिवलितं क्रान्तं तृष्णावरत्रया । मनश् शमामृतासेकैस् समाश्वासय राघव
यत् करोषि यद् अश्नासि शमशीतलया धिया । तत् ते ऽतिस्वदते स्वादु नेतरत् तात मानसे
शमामृतरसस्नातं मनो याम् एति निर्वृतिम् । छिन्नान्य् अपि तयाङ्गानि मन्ये रोहन्ति राघव
न पिशाचा न रक्षांसि न दैत्या न च शत्रवः । न च व्याघ्रभुजङ्गाद्या द्विषन्ति शमशालिनम्
सुसन्नद्धसमस्ताङ्गं प्रशमामृतवर्मणा । वेधयन्ति न दुःखानि शरा वज्रशिलाम् इव
न तथा राजते राजामात्यान्तःपुरसंस्थितः । समया स्वस्थया वृत्त्या यथोपशमशोभितः