यदि सर्वगता देव चिद् अस्त्य् एका ततात्मिका । तद् अयं चेतति स्फारम् अयं चैव न चेतति
अयं चिद्वान् पुरा भूत्वा चिद्धीनस् सम्प्रति स्थितः । इतीयं कल्पना लोके प्रत्यक्षानुभवा कथम्
शृण्व् एतद् अखिलं ब्रह्मन् यथापृष्टम् वदामि ते । महान् अयं कृतः प्रश्नस् त्वया ब्रह्मविदां वर
चिद् अस्ति द्विशरीरेह सर्वभूतमयात्मिका । चेत्योन्मुखात्मिकैका तु निर्विकल्पा परा स्मृता
सङ्कल्पबद्धात्मैवान्तस् स्वयम् अन्येव संस्थिता । सङ्कल्पितेतरवरा दौश्शील्यं स्त्री यथा गता
स एव हि पुमान् कोपाद् यथेहान्य इव क्षणात् । भवत्य् एवं विकल्पाङ्का चित् स्वरूपान्यतां गता
विकल्पकलिता ब्रह्मंश् चित् स्वरूपपरिच्युता । जाड्यं क्रमाद् भावयन्ती प्रयाति कलनापदम्
चित् स्वयं चेत्यताम् एति साकाशपरमाणुताम् । शब्दबीजात्मिकां पश्चाद् वाततन्मात्रभावनीम्
देशकालविभागा तु तन्मात्रवलिता क्रमात् । जीवो भूत्वा भवत्य् आशु बुद्धिः पश्चाद् अहं मनः
मनस्त्वं समुपायाता संसारम् अवलम्बते । चण्डालो ऽस्मीति मननाच् चण्डालत्वम् इव द्विजः
सङ्कल्पिताप्रबोधेन जाड्याच् चित् स्वप्रबोधिनी । शबलं रूपम् आसाद्य सङ्कल्पान् यात्य् अनारतम्
अनन्तसङ्कल्पमयी जाड्यसङ्कल्पपीवरी । चिज् जाड्याद् देहम् आयाति पयः पाषाणताम् इव
ततश् चित्तमनोमोहमायेति विहिताभिधा । जाड्यं निपुणम् आश्रित्य संसारे जायते मुने
मोहसात्म्यम् उपायाता तृष्णानिगडपीडिता । कामकोपभयोपेता भावाभावातिपातिनी
त्यक्तानन्तनिजाभोगा व्यवच्छेदविकारिणी । दुःखदावानलातप्ता शोकाशनिकृशाशया
इयम् अस्मीति भावेन शून्येन विकलीकृता । भेदमात्रगृहीतास्था परं दैन्यम् उपागता
मग्ना मोहमहापङ्के पङ्के जीर्णेव दन्तिनी । भावाभावलतादोलापरिलोलशरीरका
असारावरसंसारविकारव्यवहारिणी । तापोपतप्तहृदया रागरोगानुसारिणी
निजयूथपरिभ्रष्टा मृगीवावशतां गता । आविर्भावोदिताकारा तिरोभावे ऽस्तम् आगता
स्वसङ्कल्पोपयातासु भीता सम्भ्रमदृष्टिषु । पलायते ऽप्य् असत्यासु वेतालीष्व् इव बालिका
उष्ट्रीव मधुनो बिन्दुं वाञ्छते भावितं सुखम् । अवान्तरपरिभ्रष्टा दोषाद् दोषं पतत्य् अधः
परं वैवश्यम् आयाति सङ्कटात् सङ्कटं गता । दुःखाद् दुःखे निपतिता विपदो विपदि स्थिता
नानानर्थगणोपेता चेष्टापरवशाशया । कष्टात् कष्टम् अनुप्राप्ता परितापानुतापिनी
क्रमान् नवे नवे बन्धे ऽवैदग्ध्यं समुपागता । विचित्रबन्धनिर्माणपरा क्रिमिपदं गता
सर्वतश्शङ्करे भीता प्राणात्ययम् उपागता । क्षीणतोयेव शफरी विवर्तनपरायणा
बाल्ये विवशसर्वार्था यौवने चिन्तयाहृता । वार्द्धके मृतिदुःखात्ता मृता कर्मवशीकृता
जायते दुःखशबला म्रियते जननोन्मुखी । करोत्य् आवेशविवशा निगिरत्य् आर्तिधारिणी
गच्छति श्रमसन्तप्ता भवत्य् अम्बुदभङ्गुरा । रोदित्य् आक्रान्तहृदया पराक्रन्दति तापिता
अप्सरास् स्वर्गनगरे नागी पातालकोटरे । असुरी दैत्यविवरे नरस्त्री वसुधातले
राक्षसी राक्षसाधारे वानरी वनकोटरे । सिंही गिरीन्द्रशिखरे किन्नरी कुलपर्वते