चिद्दर्पणमहालक्ष्मीस् त्रिजगत् प्रतिबिम्बितम् । गृह्णात्य् अनुग्रहेणान्तस् स्वगर्भम् इव गर्भिणी
चिच् चतुर्दशभूतानां मण्डलानि महान्ति च । भूतीकरोति वारिश्रीस् समुद्रत्वम् इवाम्बुधेः
विचित्रालोककुसुमा घनसङ्कल्पपल्लवा । व्योमकेदारिकारूढा सत्तौघफलशालिनी
जीवजालरजःपुञ्जा वासनारसरञ्जिता । संवेदनत्वग्वलिता चित्रेहाकलिकाकुला
अतीतासङ्ख्यत्रिजगत्केसरोज्ज्वलरूपिणी । अनारतस्पन्दमहाविलासोल्लासहासिनी
सर्वर्तुपर्वपरुषा जडशैलादिगुम्फिता । विहगग्रन्थिवलिता मूलाग्रपरिवर्जिता
चिल्लतेयं विकसिता पेलवं सदसद्वपुः । विचित्रं दृश्यकुसुमं परामर्शासहं बहु
अनयेह हि सर्वत्र च्छायाच्छापि विजन्यते । मन्यते तन्यते वस्तु गीयते क्रियते ऽपि च
महाचितानया नित्यं भासन्ते भास्करादयः । देहास् स्वदन्ते च मिथस् त्वन्मच्चिज्जडविभ्रमैः
विततावर्तवर्तन्या चिद्वात्येयं प्रनृत्यति । जगज्जालरजोलेखा तत्सत्ता दृश्यदेहिनी
चित् सर्वं जगदारम्भम् इमं प्रकटयत्य् अलम् । त्रैलोक्यदीपकशिखा दीपो वर्णश्रियं यथा
चिच्चन्द्रबिम्बे विमले शशवत् प्राप्य सङ्गमम् । सर्वत्र लक्ष्यताम् एति पदार्थश्रीर् जगद्गता
चिद्रसायनसेकेन पदार्थपटलावली । रूपम् एति फलं चैव प्रावृट्सिक्तेव सल्लता
चिच्छाययैव सर्वस्य जाड्यं शाम्यत्य् उदेति वा । शवस्यास्य शरीरस्य गृहस्येव तमस् त्विषा
चिच्चमत्कृतयो देहे न भवेयुर् इमा यदि । त्रैलोक्यदेहास् तत् के ते कान् स्पृशेयुः किमाकृतीन्
चिदालोकप्रकाशे ऽस्मिन् सङ्कल्पशिशुधारिणी । क्रियाकुलवधूर् देहगेहे स्फुरति चञ्चला
चिदालोकं विना कस्य रसनाग्रे स्फुरन्न् अपि । कथं कदा प्रकटताम् एति कीदृक् च वा रसः
सुस्कन्धस् स्वङ्गशाखो ऽपि कुन्तलालिवृतो ऽप्य् अलम् । चिन्मञ्जरीं विना देहवृक्षः क इव राजते
वर्धते ऽभिलषत्य् अत्ति चिच् चराचरकारिणी । चिद् एवास्तीतरन् नास्ति चिन्मात्रम् इदम् उत्थितम्
इत्य् उक्तवान् अथ त्र्यक्षस् सुधास्यन्दाच्छया गिरा । पुनः पृष्टो मया राम विनयप्रश्रयोज्ज्वलम्
यदि सर्वगता देव चिद् अस्त्य् एका ततात्मिका । तद् अयं चेतति स्फारम् अयं चैव न चेतति
अयं चिद्वान् पुरा भूत्वा चिद्धीनस् सम्प्रति स्थितः । इतीयं कल्पना लोके प्रत्यक्षानुभवा कथम्
शृण्व् एतद् अखिलं ब्रह्मन् यथापृष्टम् वदामि ते । महान् अयं कृतः प्रश्नस् त्वया ब्रह्मविदां वर
चिद् अस्ति द्विशरीरेह सर्वभूतमयात्मिका । चेत्योन्मुखात्मिकैका तु निर्विकल्पा परा स्मृता
सङ्कल्पबद्धात्मैवान्तस् स्वयम् अन्येव संस्थिता । सङ्कल्पितेतरवरा दौश्शील्यं स्त्री यथा गता
स एव हि पुमान् कोपाद् यथेहान्य इव क्षणात् । भवत्य् एवं विकल्पाङ्का चित् स्वरूपान्यतां गता
विकल्पकलिता ब्रह्मंश् चित् स्वरूपपरिच्युता । जाड्यं क्रमाद् भावयन्ती प्रयाति कलनापदम्
चित् स्वयं चेत्यताम् एति साकाशपरमाणुताम् । शब्दबीजात्मिकां पश्चाद् वाततन्मात्रभावनीम्
देशकालविभागा तु तन्मात्रवलिता क्रमात् । जीवो भूत्वा भवत्य् आशु बुद्धिः पश्चाद् अहं मनः
मनस्त्वं समुपायाता संसारम् अवलम्बते । चण्डालो ऽस्मीति मननाच् चण्डालत्वम् इव द्विजः